________________
१३०४
• पश्यकस्योद्देशाऽभावः . द्वात्रिंशिका-१९/१९ तथा सिद्धेः = सामर्थ्ययोगत एव कार्यनिष्पत्तेः निष्पन्नयोगस्य = असङ्गाऽनुष्ठानप्रवाहप्रदर्शनेन सिद्धयोगस्याऽयं शास्त्रेण नाऽधीयते, यद् = यस्मात् पश्यकस्य = स्वत एव विदितवेद्यस्य उद्दिश्यत इति उद्देशः = सदसत्कर्तव्याऽकर्तव्याऽऽदेशो न अस्ति । यतोऽभिहितं आचारे- “उद्देसो पासगस्स नत्थि त्ति" (आचा.१/१/२/८३) ।।१९।।। लोकतत्त्वनिर्णये → अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे शमनीयमिव ज्वरे ।। - (सि.द्वा.१८/२८, लो.त.नि.७) इति गदितम् । युक्तञ्चैतत् । न हि प्रबलराग-द्वेषग्रस्तैः प्रतिश्रोतोगामिनिपुणगम्भीरदुर्दृश्य-सूक्ष्ममतिगम्यो धर्मः सम्यक् परिणमति । बौद्धानामपि सम्मतमिदम् । तदुक्तं मज्झिमनिकाये पाशराशिसूत्रे → रागदोसपरेतेहि, नायं धम्मो सुसम्बुद्धो ।।। पटिसोतगामि निपुणं, गम्भीरं दुद्दसं अणुं । रागरत्ता न दक्खन्ति तमोखन्धेन आवुटा ।।
- (म.नि.१३ ।६।२८१, १/२६/३) इति भावनीयं स्व-परसमयरहस्यवेदिभिर्यथागमम् ।
अथार्थनिरपेक्षस्य नामत्वं सान्वर्थस्य गोत्रत्वमिति (प्र.सारो.गा.१०७१/द्वार-१७२) प्रवचनसारोद्धारवृत्तिविलोकनादवगम्यत इति कथं गोत्रमात्रेण = नाममात्रेण इति स्यात् ? तर्हि गोत्रमात्रेण = कुलमात्रेणेति बोध्यम्, 'गोत्रं तु सन्तानोऽन्ववायोऽभिजनः कुलम्' (अ.चि.३/५०३) इति अभिधानचिन्तामणिवचनात् ।
असङ्गानुष्ठानप्रवाहप्रदर्शनेन = अनवरताऽऽसक्तिशून्यस्वभूमिकोचितसद्धर्मानुष्ठानकलापसन्ततिप्रवर्तनेन सिद्धयोगस्य योगिनः अयं = योगः शास्त्रेण = योगतन्त्रेण नाधीयते = नोपदिश्यते, सामर्थ्ययोगतः = धर्मसन्न्यासलक्षणसामर्थ्ययोगत एव कार्यनिष्पत्तेः = कैवल्यलक्षणफलोत्पादात् । अत एव तस्याऽस्मादुपकाराऽसम्भवः ।।
वस्तुतः तस्य किञ्चिदपि करणीयमेव नास्ति, प्राप्तव्यस्य प्राप्तत्वात् । तदुक्तं समाधितन्त्रे → अव्रतानि परित्यज्य व्रतेषु परिनिष्ठितः । त्यजेत्तान्यपि सम्प्राप्य परमं पदमात्मनः ।। (स.तं.८४) इति । प्रकृते आचाराङ्गसंवादमावेदयति- 'उद्देसो' इति । अत्र शीलाङ्काचार्यकृतव्याख्यैवम् → उपदेशोऽनवगततत्त्वस्य विनेयस्य यथोपदेशं वर्तमानस्य दीयते । यस्तु अवगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्ते इत्याह- 'उद्देसो' इति । उद्दिश्यत इति उद्देशः = उपदेशः = सदसत्कर्तव्याऽकर्तव्याऽऽदेशः । स, पश्यतीति पश्यः, स एव पश्यकः, तस्य न विद्यते, स्वत एव विदितवेद्यत्वात्तस्य । अथवा पश्यतीति पश्यकः = सर्वज्ञः तदुपदेशवर्ती वा तस्योद्दिश्यत इत्युद्देशः = नारकादिव्यपदेशः उच्चावचगोत्रादिव्यपदेशो वा, स तस्य न विद्यते, द्रागेव मोक्षगमनादिति भावः - (आचा. १।२।३।८२) इति । ફળ પ્રાપ્ત થઈ શકતું નથી. તથા અસંગ અનુષ્ઠાનના પ્રવાહને અનુભવવાથી જેણે યોગને સિદ્ધ કરેલ છે તેવા નિષ્પન્નયોગીને સામર્થ્યયોગના પ્રભાવથી જ યોગની નિષ્પત્તિ થવાના કારણે શાસ્ત્ર દ્વારા તેમના માટે યોગ કર્તવ્યરૂપે જણાવવામાં નથી આવતો. આનું કારણ એ છે કે જાણવા યોગ્ય જેણે સ્વતઃ જ જાણી લીધેલ છે તેવા પશ્યકને એવો ઉપદેશ આપવામાં નથી આવતો કે તમારે સારું કરવું અને ખરાબ કામ ન કરવું.” કેમકે આચારાંગ સૂત્રમાં જણાવેલ છે કે “પશ્યક માટે ઉપદેશ હોતો નથી.' (૧૯/૧૯)
વિશેષાર્થ :- તદન અયોગ્ય જીવ યોગના અધિકારી નથી તથા યોગ જેને સિદ્ધ થઈ ગયેલ હોય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org