________________
• बौद्धदर्शने सप्तधा आश्रवोच्छेदः •
१३०३ इत्यं साश्रवाऽनाश्रवत्वाभ्यां योगद्वैविध्यमुक्त्वा शास्त्रसापेक्षस्वाधिकारिकत्व-तद्विपर्ययाभ्यां तद्वैविध्याऽभिधानाऽभिप्रायवानाहशास्त्रेणाऽधीयते चायं नाऽसिद्धेर्गोत्रयोगिनाम् । सिद्धेर्निष्पन्नयोगस्य नोद्देशः पश्यकस्य यत् ।।१९।।
शास्त्रेणेति । अयं च योगो गोत्रयोगिनां गोत्रमात्रेण योगिनां असिद्धेः = मलिनाऽन्तरात्मतया योगसाध्यफलाऽभावात् शास्त्रेण = योगतन्त्रेण नाऽधीयते ।
एतेन कार्मग्रन्थिकानां मते एकस्मिन् भवे श्रेणिद्वयाभ्युपगमात् चरमशरीरिण उपशान्तमोहदशायामनास्रवयोगापत्तिरपि निरस्ता, अपुनर्भावेन साम्परायिककर्मबन्धाऽभावस्यैव निश्चयानुग्राहकव्यवहारनयेनाऽनाश्रवत्वेनाऽभ्युपगमात् । ततश्च चरमशरीरिणामपि दृढप्रहारिप्रभृतीनां हिंस्रकाद्यवस्थायां जिनोक्तसद्धर्मव्यापारविरहादेव सकषायचारित्रदशायाञ्च साम्परायिककर्मबन्धसद्भावादेव नातिप्रसङ्ग इति ध्येयम् ।
आश्रवप्रहाणं स्याद्वादिदर्शने सप्तपञ्चाशत्प्रकारसंवराऽभ्यासतोऽभिमतम् । तच्च बौद्धदर्शने सद्दर्शनेन्द्रियसंवर-स्वोचितपिण्डवस्त्रादिप्रतिसेवन:-क्षुत्पिपासाद्यधिसहनाऽनुचितस्थानाऽऽसनादिपरिवर्जन हिंसाकामादिवितर्कविनोदन'-विवेकविरागाद्युपेतभावनातः सम्मतम् । तदुक्तं मज्झिमनिकाये सर्वाश्रवसूत्रे → अत्थि, भिक्खवे, आसवा दस्सना पहातब्बा, अत्थि आसवा संवरा पहातब्बा, अत्थि आसवा पटिसेवना पहातब्बा, अत्थि आसवा अधिवासना पहातब्बा, अत्थि आसवा परिवज्जना पहातब्बा, अत्थि आसवा विनोदना पहातब्बा, अत्थि आसवा भावना पहातब्बा - (मज्झिम.१1१।१६) इति । 'दस्सना = दर्शनात्, संवरा = संवरात्' इत्येवमग्रेऽपि योज्यम् । इत्थं सर्वत्र यथासम्भवं विवेकगर्भस्वपरसमयसमवतारतो विभावनीयम् ।।१९/१८।। ___ → गोत्र-संज्ञा-नामधेयाऽऽख्याऽऽह्वाऽभिख्याश्च नाम च - (अ.चिं.२/२६०) इति अभिधानचिन्तामणिवचनात् गोत्रमात्रेण = नाममात्रेण योगिनां वक्ष्यमाणलक्षणानां मलिनान्तरात्मतया = गुपिलरागद्वेषाद्याविलान्तःकरणतया योगहृदयावबोधाऽयोग्यतया च योगसाध्यफलाभावात् = योगमुख्यफलाऽसम्भवाद् विपर्ययसाधनाच्च योगो योगतन्त्रेण नाधीयते = नोपदिश्यते । यथोक्तं योगशतके → उवएसोऽविसयम्मी विसए वि अणीइसो अणुवएसो। बंधनिमित्तं णियमा जहोइओ पुण भवे जोगो ।। - (यो.श. ३६) इति पूर्वमपि(पृ.८१) उक्तम्। श्रीसिद्धसेनदिवाकरसूरिभिः द्वात्रिंशिकाप्रकरणे श्रीहरिभद्रसूरिभिश्च
આ રીતે આશ્રવ અને અનાશ્રવ રૂપે બે પ્રકારવાળા યોગને બતાવીને શાસ્ત્રસાપેક્ષ સ્વાધિકારિકત્વ અને તેનાથી ઊલટું એમ બે રીતે યોગના પ્રકારને કહેવાની ઈચ્છાવાળા ગ્રંથકારશ્રી કહે છે કે
ગાથાર્થ :- ગોત્રયોગીઓને કદાપિ યોગ સિદ્ધ ન થવાથી શાસ્ત્ર દ્વારા તેઓ માટે યોગ કહેવાતો નથી. તથા નિષ્પન્નયોગવાળા યોગીને યોગ સિદ્ધ હોવાથી તેને યોગ કર્તવ્યરૂપે કહેવાતો નથી. કારણ 3 ५५५४ने ७५हेश सापडतो नथी. (१४/१९)
હ ગોત્રયોગી અને નિષ્પન્નયોગી યોગાધિકરી નથી હ. ટીકાર્થ :- નામમાત્રથી અથવા કુળમાત્રથી જ જે યોગી છે તેવા મલિન જીવોને યોગશાસ્ત્ર દ્વારા કર્તવ્યરૂપે યોગ કહેવામાં આવતો નથી. કારણ કે તેવા જીવોનું અંતઃકરણ મલિન હોવાથી યોગસાધ્ય
Jain Education international
For Private & Personal Use Only
ww.jainelibrary.org