________________
१३०२ • अनाश्रवयोगमीमांसा •
द्वात्रिंशिका-१९/१८ एवं चरमदेहस्य सम्परायवियोगतः । इत्वराऽऽश्रवभावेऽपि स तथाऽनाश्रवो मतः ।। निश्चयेनाऽत्र शब्दाऽर्थः सर्वत्र व्यवहारतः । निश्चय-व्यवहारौ च द्वावप्यभिमताऽर्थदौ ।।"
6 (यो.बि.३७६,३७७,३७८) निश्चयेनेत्युपलक्षणे तृतीया । ततो निश्चयेनोपलक्षितात्तत्प्रापकाद्ने व्यवहारत इत्यन्वयः ।।१८।। तत् = तस्मात् एषः साम्परायिकबन्धलक्षणः अर्थः = अभिधेयं अस्य = सास्रवस्य सङ्गतः (यो.बिं. ३७६ वृत्ति)। एवं = यथा सकषायस्य सास्रवो योगः तथा चरमदेहस्य = पश्चिमशरीरस्य सम्परायवियोगतः = कोपादिकषायविरहात् इत्वराऽऽस्रवभावेऽपि = केवलं योगप्रत्ययद्विसामयिकब(?केव)लवेदनीयबन्धसद्भावे किं पुनस्तदभाव इत्यपिशब्दार्थः । एवंविधो यः सः तथा = तत्प्रकारः अनास्रवो द्वितीयो योगभेदो मतः (यो.बि.३७७ वृ.) । ननु कथं सास्रवोऽपि योगोऽनास्रव उक्त इत्याशझ्याऽऽह- निश्चयेन उपलक्षितात् = निश्चयप्रापकादित्यर्थः अत्र = योगाधिकारे शब्दार्थः = अनास्रवादिशब्दगतः सर्वत्र = सर्वेषु व्यवहारतः = व्यवहाराऽऽदेशात् । निश्चयेन ह्ययोगिकेवलिन्यनास्रवो योगः, यस्तु सयोगिन्यपि अनास्रवत्वेन योगोऽभिधीयते स निश्चयहेतुना व्यवहारेणेति । एवञ्च सति निश्चय-व्यवहारौ च = निश्चयो व्यवहारश्चेत्यर्थः द्वावपि अभिमतार्थदौ = इष्टफलदायको वर्तेते (यो.बि.३७८ वृ.) इति । न च तथापि चरमशरीरिणः क्षीणमोहगुणस्थानप्राप्तिकालात्पूर्वं साम्परायिकबन्धशालितया तदनुष्ठानस्य साश्रवत्वमेव प्रसज्येतेति शङ्कनीयम्, सद्भूतव्यवहारनयतो भवान्तराऽऽक्षेपककर्मबन्धशून्यत्वलक्षणस्याऽनाश्रवत्वस्य तत्राऽप्यक्षतत्वात् । इत्थमेव → सास्रवो दीर्घसंसारस्ततोऽन्योऽनास्रवः परः । अवस्थाभेदविषयाः संज्ञा एता यथोदिताः ।। - (यो.बि. ३४) इति योगबिन्दुवचनोपपत्तेः । __ इत्थञ्चानाश्रवत्वं निश्चयनयतः सर्वसंवरलक्षणं, निश्चयानुगृहीतव्यवहारनयतः साम्परायिककर्मबन्धाऽभावस्वरूपं सद्भूतव्यवहारतश्च भवान्तराऽऽक्षेपककर्मबन्धाऽभावरूपमिति फलितम् । ततश्च निश्चयेनाऽयोगिकेवलिन्येवानास्रवो योगः । शुद्धतमनिश्चयनयतोऽयोगिकेवलिचरमसमयेऽनास्रवयोगः, तत्पूर्वं तन्मते पुण्याऽपुण्योच्छेदोपधानेन मोक्षयोजनफलस्य सर्वसंवरापराभिधानस्य अनाश्रवयोगस्यैवाऽसम्भवादिति दीक्षाद्वात्रिंशिकायां (द्वा.द्वा.२८/२६-भाग-७ पृ.१९३९) वक्ष्यते । निश्चयप्रापकव्यवहारनयतः क्षीणमोह-सयोगिकेवलिगुणस्थानकवर्तिषु अनास्रवो योगः, साम्परायिककर्मबन्धविगमात् । न चैवमुपशान्तमोहगुणस्थानकेऽप्यनाश्रवयोगापत्तिरिति शङ्कनीयम्, सिद्धान्तमते एकस्मिन्नेव भवे श्रेणिद्वयारम्भानभ्युपगमात् । अचरमशरीरिण उपशान्तमोहदशायां साम्परायिककर्मबन्धविरहेऽपि जन्मान्तराऽऽक्षेपककर्मसद्भावेन एकजन्मत्वविरहान्नाऽनास्रवयोगसम्भव इत्याशयः । કર્મબંધ સમજવો. તેથી આશ્રવનો અર્થ સંગત થાય છે. આ રીતે ચરમશરીરીને કષાયનો વિયોગ થવાથી અનાશ્રવયોગ માન્ય છે; ભલે ને તેને ઈવર ઈર્યાપથિક કર્મબંધ ચાલુ હોય. પ્રસ્તુતમાં સર્વત્ર નિશ્ચયથી ઉપલક્ષિત વ્યવહાર નય દ્વારા શબ્દાર્થ માન્ય છે. કારણ કે નિશ્ચય અને વ્યવહાર બન્ને નય ઈષ્ટફળને દેનારા છે." યોગબિંદુ ગ્રંથના ઉપરોકત છેલ્લા શ્લોકમાં નિશ્ચયેન' પદમાં જે ત્રીજી વિભકિત છે તે ઉપલક્ષણ અર્થમાં છે. માટે તેનો અર્થ નિશ્ચયનયથી ઉપલક્ષિત = નિશ્ચયપ્રાપક સમજવો. અર્થાત નિશ્ચયપ્રાપક વ્યવહારનયથી કેવલજ્ઞાની વગેરેમાં અનાશ્રવ યોગ માન્ય છે. આવો અર્થ સમજવો.(૧૯/૧૮) १. मुद्रितप्रतौ 'यद् द्वा...' इति अशुद्धः पाठः । परं मुद्रित-योगबिन्दुप्रती हस्तादर्श च 'च द्वा...' इति पाठः । अतः सोऽत्र गहीत: । २. मद्रितप्रतौ '.प्रापकव्य...' इति पाठान्तरम ।। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org