________________
१२९८
सकृद्बन्धकाऽपुनर्बन्धकानुष्ठानभेदसाधनम्
द्वात्रिंशिका - १९/१५
→ सर्वस्वं जीवितं वाऽपि दद्यादश्रद्धया यदि । नाऽऽप्नुयात् सफलं किञ्चित् श्रद्दधानः ततो भवेत् । । ← (स्क.पु.मा.कौ ४ ।४४ ) इति । श्रद्धैव च धर्मप्राणभूतेति सर्वसम्मतम् । प्रकृते श्रद्धयाऽग्निः समिध्यते, श्रद्धया हूयते हविः ← (ऋ. वे. १०/१५१/१) इति ऋग्वेदवचनं श्रद्धया सत्यमाप्यते ← (य. वे.१९/३०) इति यजुर्वेदवचनं श्रद्धायां ह्येव दक्षिणा प्रतिष्ठिता ← (बृ.उप. ३।९।२१ ) इति बृहदारण्यकोपनिषद्वचनं व्रात्यस्यापि गृहे भिक्षेत् श्रद्धा-भक्तिपुरस्कृते ← (बृ.सं.६/६४) इति बृहत्संन्यासोपनिषद्वचनं, एषा ह वै देवानां राज्ञी श्रद्धा ← (जै.ब्रा. २ / ४२६) इति जैमिनीयब्राह्मणवचनं, → श्रद्धा देवानऽधिवस्ते ← ( तै. ब्रा. २/८/८) इति तैत्तिरीयब्राह्मणवचनं श्रद्धया सत्येन मिथुनेन स्वर्गांल्लोकान् जयति ← (ऐ.ब्रा. ७/१०) इति ऐतरेयब्राह्मणवचनं श्रद्धावान् लभते ज्ञानं ← (भ.गी. ४/ ३९) इति पूर्वोक्तं (पृ.९७१) भगवद्गीतावचनं श्रद्धया साध्यते सर्व ← (बृ.ना. पु. ४ / १ ) इति इति आदर्शचरितवचनं
बृहन्नारदीयपुराणवचनं,
श्रद्धा मुक्तिप्रदायिनी ← ( आ.च. २।७५ पृ.
)
च स्मर्तव्यं स्व-परसमयतात्पर्यान्वेषणपरायणैः ।
•
सकृद्बन्धकादयस्तु श्रद्धापेताः तथापि भावयोगिसमुचितवन्दन - सत्कारादीनां स्वीकारात् दाम्भिकानां तेषां परप्रतारणप्रवणानां बाह्यधर्मानुष्ठानं स्ववधाय कृत्योत्थापनन्यायमनुसरति । विश्वासादाकृतेरेते महापापस्य भाजनम् ← ( द्वा. द्वा.३/२० भाग-१, पृ. १७० ) इति प्रागुक्तमत्रानुसन्धेयम् ।
एतेन कौपीनं भसितालेपो दर्भा रुद्राक्षमालिका । मौनमेकासनं चेति मूर्खसञ्जीवनानि षट् । । ← (क.वि.८६) इति कलिविडम्बनवचनमपि व्याख्यातम्, श्रद्धाविरहे विपरीताऽऽशयसत्त्वे वा तदुपपत्तेः । प्रकृतयोग्याभासप्रकृतिः परै राक्षसीत्यङ्गीक्रियते । तदुक्तं गणेशगीतायां सदम्भकर्मकर्तृत्वं स्पृहा च परवस्तुषु । अनेककामनावत्त्वं सर्वदाऽनृतभाषणम् । परोत्कर्षाऽसहिष्णुत्वं परकृत्यपराहतिः । इत्याद्या बहवश्चान्ये राक्षस्याः प्रकृतेर्गुणाः ।। ← (ग.गी. १० / ९) इति । मूलतः सहजमलोन्मूलनप्रक्रियाविशेषाऽनारम्भात्तेषां प्रव्रज्यादिग्रहणेऽपि विकृते चेतसि भावाऽऽश्रववृद्धिरेव प्रायशः सम्पद्यते ।
सम्मतञ्चेदं बौद्धानामपि । तदुक्तं मज्झिमनिकाये अयोनिसो, भिक्खवे, मनसिकरोतो अनुप्पन्ना चेव आसवा उप्पज्जन्ति, उप्पन्ना च आसवा पवड्ढन्ति । योनिसो च खो, भिक्खवे, मनसिकरोतो अनुप्पन्ना चेव आसवा न उप्पज्जन्ति, उप्पन्ना च आसवा पहीयन्ति ← (म.नि. सर्वाश्रवसूत्र - १ ।२।१५) इति । 'योनिस आश्रवक्षयशुद्ध इति तद्विपरीतं च ' अयोनिसो' इति ।
ननु कारणस्य कथञ्चित्कार्यत्वोपचारेणाऽपुनर्बन्धकस्याऽध्यात्म-भावनायोगयोस्तात्त्विकत्वाभ्युपगमे तदीयानुष्ठानस्य योगयोग्यत्वमात्रमेव सिद्धम् । ततश्चाऽसद्ग्रहत्यागादिद्वाराऽपुनर्बन्धकादेरिव सकृद्बन्धकादीनामपि अध्यात्माद्यनुष्ठानस्य योग्यतया हेतुत्वमविरुद्धमेवेति तेषामध्यात्मादेरतात्त्विकत्वाभिधानमनुचितम् । न हि व्यापारेण व्यापारिणोऽन्यथासिद्धिर्भवति, अन्यथाऽपुनर्बन्धकीयाध्यात्मादेरप्यतात्त्विकत्वप्रसङ्गादिति चेत् ? सत्यम्, तथापि प्रकृते व्यवधानाऽव्यवधानाभ्यां समयप्रतिनियताभ्यां तात्त्विकाऽतात्त्विकत्वव्यवस्थितेः, फलसन्निधानाऽसन्निधानयोर्हेतुभेदप्रयोज्यत्वेन तद्भेदव्यवस्थितेश्च सर्वथा स्वरूपपरावृत्तिं विना सहकारियोग्यताया अप्यनुपपत्तेरित्यधिकं स्याद्वादकल्पलतायाम् ।।१९/१५।।
Jain Education International
For Private & Personal Use Only
=
www.jainelibrary.org