SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ • श्रद्धाशून्यधर्मप्रवृत्तेः निष्फलता • १२९७ सकृदिति । सकृद् = एकवारं आवर्तन्ते = उत्कृष्टस्थिति बनन्तीति सकृदावर्तनाः । आदिशब्दाद् द्विरावर्तनादिग्रहः । तेषां (=सकृदावर्तनादीनां) अतात्त्विको = व्यवहारतः, निश्चयतश्चाऽतत्त्वरूपः, अशुद्धपरिणामत्वाद् उदाहृतः अध्यात्म-भावनारूपो योगः । प्रत्यपायोऽनर्थः फलं प्रायो = बाहुल्येन यस्य स तथा (=प्रत्यपायफलप्रायः) । तथा = तत्प्रकारं' भावसाराऽध्यात्मभावनायुक्तयोगियोग्यं यद्वेषादिमानं नेपथ्य-चेष्टा-भाषालक्षणं श्रद्धानशून्यं वस्तु तस्मात् (= तथावेषादिमात्रतः) । तत्र हि वेषादिमात्रमेव स्यात्, न पुनस्तेषां काचिच्छ्रद्धालुतेति ।।१५।। योगबिन्दुकारिका(३७०)द्वारेणैवाऽतात्त्विकयोगस्वामिनमाह- ‘सकृदि'ति । योगबिन्दुवृत्तिमनुसृत्य व्याख्यानयति- सकृद् = एकवारं मोहनीयकर्मणः सप्ततिसागरोपमकोटाकोटिप्रमितां उत्कृष्टस्थिति तथाविधसङ्क्लेशतो बध्नन्तीति सकृदावर्तनाः = सकृद्बन्धकाः । व्यवहारतः सद्भूतव्यवहारनयमपेक्ष्य निश्चयतश्च = शुद्धाऽशुद्धनिश्चयनयमाश्रित्य च अतत्त्वरूपः = मोक्षयोजनलक्षणफलशून्यः, अशुद्धपरिणामत्वात् = अद्याऽपि मार्गानुसारिताबाधकसङ्क्लिष्टपरिणामत्वात् तेषाम् । प्रयोगस्त्वेवम्- सकृद्बन्धकाद्यनुष्ठानं मिथ्या, तथाविधाऽशुद्धपरिणामप्रयुक्तत्वात् तथाविधाऽशुद्धपरिणामशालिस्वामिकृतत्वाद्वा, अभव्यानुष्ठानवत् । अत एव उपदेशपदे (गा.२५३) ग्रन्थिदेशस्थानामभव्य-सकृद्बन्धकादीनामप्रधानद्रव्याज्ञायोगः मार्गाभिमुख-मार्गपतितानाञ्च प्रधानाऽऽज्ञायोग उक्तः । प्रकृते → बाहिरचाओ विहलो अब्भंतरगंथजुत्तस्स - (भा.प्रा.३) इति भावप्राभृतवचनमप्यनुसन्धेयम् । न केवलं तस्याऽतात्त्विकत्वम्, अपि तु तेषामनर्थोऽपि बाहुल्येन ततः सम्भवतीत्याह'प्रत्यपाय' इति । एतेन → विरक्तः प्रव्रजेद् धीमान् सरागस्तु गृहे वसेत् । सरागो नरकं याति प्रव्रजन् हि द्विजाधमः ।। - (ना.परि.३/१३) इति नारदपरिव्राजकोपनिषद्वचनमपि व्याख्यातम् । → अज्ञश्चाऽश्रद्दधानश्च संशयात्मा विनश्यति । नाऽयं लोकोऽस्ति न परो न सुखं संशयात्मनः ।। - (भ.गी. ४/४१) इति भगवद्गीतावचनमप्यत्र भावनीयम् । न पुनः = नैव तेषां सकृद्बन्धकादीनां काचित् तीव्र-मन्दादिरूपा मोक्षदायकतयाऽध्यात्मादियोगं प्रति श्रद्धालुता वर्तते । परेषामपि सम्मतमिदम् । यथोक्तं भगवद्गीतायां → अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ ! न च तत्प्रेत्य नो इह ।। - (भ.गी. १७।२८) इति, स्कन्दपुराणे च ટીકાર્થ :- એક વાર મોહનીય કર્મની ઉત્કૃષ્ટ સ્થિતિને જેઓ ભવિષ્યમાં બાંધવાના હોય તેવા જીવો સકૃદાવર્તની = સકુબંધક કહેવાય છે. મૂળ ગાથામાં રહેલ -આદિ' શબ્દથી ધિરાવર્તનાદિ = દ્વિબંધક વગેરે જીવો પણ લઈ લેવાના છે. એક વાર કે અનેક વાર મોહનીય કર્મની ૭૦ કોડાકોડી સાગરોપમ પ્રમાણ સ્થિતિ જેઓ બાંધવાના હોય તેવા જીવોનો અધ્યાત્મ-ભાવનાસ્વરૂપ યોગ વ્યવહારથી અને નિશ્ચયથી અતાત્ત્વિક કહેવાયેલ છે. (પંચાલકજીવૃત્તિમાં સકુબંધકાદિને ઉપચારથી ભાવવંદના હોય તેમ જણાવેલ છે. પરંતુ) મોટા ભાગે તેનું ફળ અનર્થાત્મક હોય છે. કારણ કે તેમની પાસે તથાવિધ ભાવપ્રધાન અધ્યાત્મભાવનાયોગવાળા યોગીને યોગ્ય વેશ-ભાષા-પ્રવૃત્તિ હોવા છતાં તે બધું શ્રદ્ધાશૂન્ય હોય છે. અર્થાત્ તેવા સકૂદબંધક વગેરે જીવોમાં હોય તો પણ ફક્ત બાહ્ય વેષ વગેરે જ હોય, શ્રદ્ધા વગેરે ભાવો જરા પણ નથી હોતા. તેથી તેના યોગો અનર્થફલક યોગાભાસ છે, અતાત્ત્વિક છે, દેખાવમાત્ર છે.(૧૯૧૫) १. ....कारभा...' इति मुद्रितप्रतौ पाठोऽशुद्धः । २. 'भावमारा' इत्यशुद्धः पाठो मुद्रितप्रतौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy