________________
• अतात्त्विकयोगपरिचयः •
१२९५ अपुनर्बन्धकस्याऽयं व्यवहारेण तात्त्विकः । अध्यात्म-भावनारूपो निश्चयेनोत्तरस्य तु ।।१४।। प्रकृताऽतात्त्विकयोगस्तु मलिनाऽन्तःकरणस्य त्राणाय नालम् । तदुक्तं उत्तराध्ययने → चीराजिणं नगिणिणं जडी संघाडि मुंडिणं । एयाणि वि न तायंति, दुस्सीलं परियागतं ।। 6 (उत्त.५/२१) इति पूर्वोक्तं(पृ.९०१) इहानुसन्धेयम् । तदुक्तं गच्छाचारप्रकीर्णके → लिंगधारी संजमजोएण निस्सारो - (ग.प्र.२४) इति । मूलाराधनायां अपि → घोडगलिंडसमाणस्स, तस्स अब्भन्तरम्मि कुधिदस्स । बाहिरकरणं किं से, काहिदि बगणिहुदकरणस्स ।। 6 (मूला.१३४७) इत्युक्तम् । अतात्त्विकयोगपरित्यागाऽऽशयेनैव भावप्राभृते → भंजसु इंदियसेणं, भंजसु मणमक्कडं पयत्तेणं । मा जणरंजणकरणं बाहिरवय-वेस तं कुणसु ।। (भा.प्रा. ९०) इत्येवमुक्तं कुन्दकुन्दाचार्येण ।
प्रकृते → किं लिंगविड्डरीधारणेण कज्जम्मि अट्ठिए ठाणे ? । राया न होइ सयमेव धारयं चामराडोवे ।। 6 (उप.मा. ४३६) इति उपदेशमालायां धर्मदासगणिवचनं, → बाहिरसंगविमुक्को णवि मुक्को मिच्छभाव णिग्गंथो । किं तस्स ठाण-मउणं ण वि जाणदि अप्पसमभावं ।। किं काहिदि बहिकम्मं किं काहिदि बहुविहं च खमणं तु । किं काहिदि आदावं आदसहावस्स विवरीदो।। - (मो.प्रा.९७,९९) इति मोक्षप्राभृतगाथायुगलं, → न लिग मोक्षकारणम् - (स.सा.क.९/२३८) इति समयसारकलशवचनं, → न लिग धर्मकारणम् - (म.स्मृ.६/६६, सं.गी.८/६२) इति पूर्वोक्तं (पृ.९०,३९४) मनुस्मृतिसंन्यासगीतावचनं, → न वेषधारणं सिद्धेः कारणम् – (ह.यो.२/६६) इति हठयोगप्रदीपिकावचनं, → शिरोमण्डितं तुण्डं चित्तं न मुण्डितं किं मुण्डितम् ?। यस्य पुनः चित्तं मुण्डितं साधु सुष्ठु शिरस्तस्य मुण्डितम् ।। - (मृ.क.६/३) इति मृच्छकटिके शुद्रकोक्तं, → थूत्कृतेन यथाऽपूपकरणं न हि सम्मतम् । विना भावेन वेषस्य धारणं तद्वदेव हि ।। - (आ.श.५५) इति आभाणशतकवचनं, → यो निःसृतश्च न च निःसृतकामरागः, कषायमुरः वहति यो न च निष्कषायः । पात्रं बिभर्ति च गुणैर्न च पात्रभूतो लिङ्गं वहन्नपि स नैव गृही न भिक्षुः ।। - (सौ.नं. ७/ ४९) इति च सौदरनन्दे अश्वघोषभाषितं सम्यग् इति भावनीयम् । दम्भप्रधानतया प्रशम-दम-दान-दयादाक्षिण्यादिसद्गुणरहिततया जनमनोरञ्जनादिनिमित्ततया चाऽत्राऽतात्त्विकत्वं योजनीयम् । तदुक्तं योगबिन्दौ → तात्त्विको भूत एव स्यादन्यो लोकव्यपेक्षया (यो.बि.३३) इति ।।१९/१३।।
तत्र कः कस्य किंविधः सम्भवति ? इत्याशङ्कायां योगबिन्दु(३६९)कारिकामेवोपन्यस्यति 'अपुनर्बन्धकस्येति । योगबिन्दुव्याख्यानुसारेणैव निरूपयति- अपुनर्बन्धकस्य पूर्वं (द्वा.द्वा.१४/१ भा-४,पृ.९३५) व्यावर्णितતે કરે છે. જ્યારે અહીં જે અતાત્ત્વિક યોગ બતાવેલ છે તે યોગસ્વરૂપ યોગ્યતાશૂન્ય અર્થમાં સમજવો. યોગની કોઈ લાયકાત ન હોવા છતાં યોગી પુરુષનો વેષ પહેરવાના લીધે તે અભવ્ય વગેરેની ધર્મપ્રવૃત્તિમાં યોગ તરીકેનો આભાસ-ભ્રમ થવાની શક્યતા હોવાથી તેને યોગાભાસ કહેલ છે. (૧૯૧૩)
તાત્વિક યોગના અધિકારી છે ગાથાર્થ - અપુનબંધકને અધ્યાત્મ અને ભાવનારૂપ તાત્વિક યોગ વ્યવહાર નથી હોય છે અને નિશ્ચય નયથી આ તાત્ત્વિકયોગ ચારિત્રીને હોય છે. (૧૯/૧૪).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org