________________
१२९४
• तात्त्विकयोगवतां प्रवृत्तिः • द्वात्रिंशिका-१९/१३ तात्त्विक इति । सामान्येन = विशेषभेदाऽनुपग्रहेण तात्त्विकोऽतात्त्विकश्चेति द्विधाऽप्ययं योग इष्यते। तात्त्विको = वास्तवः = केनाऽपि नयेन मोक्षयोजनफल इत्यर्थः। अन्यः = अतात्त्विकः तु तदाभासः = उक्तलक्षणविरहितोऽपि योगोचितवेषादिना योगवदाभासमानः प्रकीर्तितः ।।१३।।
→ तात्त्विकोऽतात्त्विकश्चायं सानुबन्धस्तथाऽपरः । सास्रवोऽनास्रवश्चेति संज्ञाभेदेन कीर्तितः ।। - (यो.बि.३२) इति योगबिन्दुकारिकां चेतसिकृत्य ग्रन्थकारोऽधुना प्रकारान्तरेण योगमेव सक्षेपतो विभजति- 'तात्त्विक' इति । विशेषभेदाऽनुपग्रहेण = विशेषजिज्ञासोत्थाप्य-योगत्वव्याप्यताऽवच्छेदकाऽवान्तरनानाधर्मोदासीनतया। केनाऽपि नैगमादिनैवम्भूतपर्यन्तेन नयेन मोक्षयोजनफलः योगपदमुख्यार्थसम्पन्नः, निर्वाणैकफलाभिलाषप्रयुक्तत्वात् । इत्थं तात्त्विकयोगसम्पन्नास्तु उपमितिभवप्रपञ्चायां कथायां दर्शितरीत्या सामान्यतो मूर्च्छन्ति भगवद्बिम्बेषु, रज्यन्ते स्वाध्यायकरणेषु, स्निह्यन्ति साधर्मिकजनेषु, प्रियन्ते सदनुष्ठानेषु, तुष्यन्ति गुरुदर्शनेषु, हृष्यन्ति सदर्थोपलम्भेषु, द्विषन्ति व्रताऽतिचारकरणेषु, क्रुध्यन्ति सामाचारीविलोपेषु, रुष्यन्ति प्रवचनप्रत्यनीकेषु, माद्यन्ति कर्मनिर्जरणेषु, अहङ्कुर्वन्ति प्रतिज्ञातनिर्वाहणेषु, अवष्टभनन्ति परिषहेषु, स्मयन्ते दिव्याधुपसर्गेषु, गृहयन्ति प्रवचनमालिन्यं, वञ्चयन्तीन्द्रियधूर्तगणं, लुभ्यन्ति तपश्चरणेषु, गृध्यन्ति वैयावृत्त्याऽऽचरणेषु, अभ्युपपद्यन्ते सद्ध्यानयोगेषु, तुष्यन्ति परोपकारकरणेषु, निघ्नन्ति प्रमादचौरवृन्दं, बिभ्यति भवचक्रभ्रमणात्, जुगुप्सन्ते विमार्गचारिता, रमन्ते निर्वृतिनगरीगमनमार्गे, उपहसन्ति विषयसुखशीलतां, उद्वेजन्ते शैथिल्याऽऽचरणात्, शोचन्ति चिरन्तनदुश्चरितानि, गर्हन्ते निजशीलस्खलितानि, निन्दन्ति भवचक्रनिवासं, आराधयन्ति जिनाज्ञायुवति, प्रतिसेवन्ते द्विविधशिक्षाललनाम् (उप.भ.प्र.क.प्रस्ताव-४ पृ.२१८ प्रकर्षोक्तिः) इत्यवधेयम् ।।
लोकचित्ताऽऽराधना-लब्धि-कीर्ति-दिव्यभोगोपलब्ध्याद्याशयप्रयुक्तत्वेन उक्तलक्षणविरहितोऽपि = मोक्षयोजकत्वशून्योऽपि बहिश्चिकिचिकायमानकृत्रिमरत्नवद् योगोचितवेषादिना = भावयोगिप्रायोग्यनेपथ्यचेष्टा-भाषणादिना योगवद् = तात्त्विकयोग इव आभासमानः = स्थूलबुद्धीनां प्रतिभासमानः प्रकीर्तितः योगिभिः । प्राक् (द्वा.द्वा.१९/१२ पृ.१२८८) प्रव्रज्याकाले जायमानस्य धर्मसंन्यासस्याऽतात्त्विकत्वमुक्तं तत् सामर्थ्ययोगयोग्यतापेक्षयोक्तम् । इह त्वेकान्तयोगाऽयोग्यत्वविवक्षयाऽतात्त्विकत्वं योगाऽऽभासस्योक्तमिति दृढतरमवधेयम् । अयं चोभयभ्रष्टोऽवसेयः । तदुक्तं स्कन्दपुराणे → यो हि संन्यस्य विषयान् मनसा गृह्यते पुनः । उभयभ्रष्ट एवासौ भिन्ना भूमिर्विनश्यति ।। - (स्क.पु.मा.को.४५/१९) इति ।
ટીકાર્ચ - વિશેષરૂપે ભેદોને પકડવામાં ન આવે તો યોગના બે પ્રકાર પણ માન્ય છે. તાત્વિક યોગ અને અતાત્ત્વિક યોગ. તાત્ત્વિક યોગ છે તે વાસ્તવિક સમજવો. કારણ કે કોઈ પણ નયના અભિપ્રાયથી તે તાત્ત્વિક યોગનું ફળ મોક્ષને જોડવારૂપ બને છે. જ્યારે અતાત્ત્વિક યોગ તો યોગાભાસ કહેવાયેલ છે. કારણ કે મોક્ષયોજન સ્વરૂપ ફળ ન આપવા છતાં, યોગલક્ષણશૂન્ય હોવા છતાં પણ યોગને ઉચિત वेष वगैरे द्वारा योगनी भ त मासे. छे. (१८/१3)
વિશેષાર્થ :- ૧૨મી ગાથામાં પ્રવ્રજ્યા અવસ્થામાં અતાત્વિક ધર્મસંન્યાસ બતાવેલ હતો તેમાં - અતાત્ત્વિક' પદનો અર્થ ઔપચારિક સમજવો. કેમ કે તાત્ત્વિક ધર્મસંન્યાસની નજીક પહોંચાડવાનું કામ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org