________________
१२९२
• अतिक्रान्तपशुभावस्य दीक्षाराधकत्वम् • द्वात्रिंशिका-१९/१२ न चेदृशो नाऽऽराधयतीति भावनीयम् । सर्वज्ञवचनमागमस्त नायमनिरूपितार्थ इति ।।
आयोज्यकरणं = केवलाऽऽभोगेनाऽचिन्त्यवीर्यतया भवोपग्राहिकर्माणि तथा व्यवस्थाप्य तत्क्षपणव्यापारणं शैलेश्यवस्थाफलं ततः (=आयोज्यकरणाद) ऊर्ध्वं द्वितीयो योगसन्न्याससंज्ञित इति तदा संन्यासमिच्छेत पतितः स्याद् विपर्यये ।। * (नार.परि.३।१२,सं.गी.६ ८२) इति नारदपरिव्राजकोपनिषत्-संन्यासगीतावचनमपि व्याख्यातम् ।
न च ईदृशो विशुद्धसत्त्व-शीलो ज्ञानयोगं नाऽऽराधयति, तत्प्रतिबन्धकाऽभावादिलक्षणसामग्रीसत्त्वात् । तदुक्तं उत्तराध्ययनसूत्रे → इहलोगे निप्पिवासस्स नत्थि किंचि वि दुक्करं 6 (उत्त.१९/४४) इति । यथोक्तं पञ्चाशके अपि → णाणाइगुणजुओ खलु णिरभिस्संगो पद(?र)त्थरसिगो य । इय जयइ ण उण अण्णो - (पञ्चा. २/३४) इति । तदुक्तं हरिभद्रसूरिभिः एव ब्रह्मसिद्धान्तसमुच्चये अपि→
विद्याजन्माप्तितस्तद्वद्विषयेषु महात्मनः । तत्त्वज्ञानसमेतस्य न मनोऽपि प्रवर्तते ।। महापथप्रवृत्तोऽयं सर्वत्र विगतस्पृहः । पशुभावमतिक्रान्तः शिवकृत्यपरायणः ।। पद्मिनीपत्रसदृशस्तत्त्वज्ञानसमन्वितः । विषयोदकयोगेऽपि तदसङ्गः स्वभावतः ।। सदाशिवसमावेशी महाध्यानाभिनन्दितः । अधिकारवशाच्छेषवृत्तिमात्रोपभोगकृत् ।।
एवंविधस्वभावस्तु यत् सामायिकवानपि । तदत्र तत्त्वतो भेदो नैव कश्चन विद्यते ।। - (ब्र.सि.३५३-३५७) इति भावनीयम् । न चेदमस्माभिः यदृच्छयोच्यते, किन्तु आगममुपजीव्यैव । न च तत्र विसंवादः सम्भवति, यतः सर्वज्ञवचनं आगमः । तत् = तस्मात् कारणात् न = नैव अयं = सर्वज्ञोपदिष्ट आगमः अनिरूपितार्थः = केवलज्ञानाऽदृष्टार्थप्रतिपादकः सम्भवति, केवलज्ञानेनाऽर्थान् ज्ञातानेवाऽभिलाप्यान् ग्राहकाऽनुवृत्त्या तीर्थकरो दर्शयति । तदुक्तं आवश्यकनियुक्ती → केवलनाणेणऽत्थे नाउं जे तत्थ पन्नवणजोग्गे । ते भासइ तित्थयरो - (आ.नि. ७८) इति । ___ प्रथमसामर्थ्ययोगकालादिकं सप्रपञ्चमभिधायाऽधुनाऽवसराऽऽयातं द्वितीयसामर्थ्ययोगलाभकालमाहआयोज्यकरणमिति । केवलाऽऽभोगेन = केवलज्ञान-दर्शनोपयोगेन अचिन्त्यवीर्यतया = अनन्तसामर्थ्यतया भवोपग्राहिकर्माणि = अवशिष्टाऽघातिकर्माणि तथा व्यवस्थाप्य = तथा-तथातत्तत्कालक्षपणीयत्वेन विरच्य तत्क्षपणव्यापारणं, शैलेश्यवस्थाफलं आवर्जीकरणाऽपराभिधानमेतत् । अयमाशयः- ‘आयुःशेषाणामधि
તથા ઉપરોક્ત ૧૬ ગુણથી યુક્ત હોય છે તે જ્ઞાનયોગને આરાધ્યા વિના રહેતો નથી. આ રીતે વિચારણા–ભાવના કરવી. કારણકે ઉપરોક્ત બાબત આગમમાં જણાવેલ છે. તથા જૈન આગમ તો સર્વજ્ઞનું વચન છે. તેથી આગમ કદાપિ સર્વજ્ઞ ભગવંતે ન જોયેલા વિષયનું નિરૂપણ ન કરે.
આયોજ્ય-કરણ પછી યોગસંન્યાસસંક્ષિત દ્વિતીય સામર્થ્યયોગ આવે છે એવું તેના જાણકારો કહે છે. કેવલજ્ઞાન વડે અચિંત્ય શક્તિ હોવાના કારણે ભવોપગ્રાહી એવા શાતા-અશાતાવેદનીય,નામ કર્મ વગેરે અધાતિકર્મોને તે-તે પ્રકારે ગોઠવીને અઘાતિ કર્મોનો ક્ષય કરવા માટે જે પ્રવૃત્તિ કરવામાં આવે છે તે આયોજ્યકરણ
१. मुद्रितप्रतौ 'तत्राय'मित्यशुद्ध पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org