________________
१२९१
• कामुकस्य दीक्षानधिकारः • (१३) कल्याणाङ्गः, (१४) श्राद्धः, (१५) स्थिरः', (१६) समुपसम्पन्नश्चेति" (ध.बि.४/३)।
न ह्यनीदृशो ज्ञानयोगमाराधयति ।। 'स्थिर' इति प्रारब्धकार्यस्याऽपान्तराल एव न परित्यागकारी, ‘समुपसम्पन्न' इति समिति सम्यग्वृत्त्या = सर्वथाऽऽत्म-समर्पणरूपया उपसम्पन्नः = सामीप्यमागतः - (ध.बि. ४/३ वृत्ति) इति ।
संन्यासगीतायां तु प्रव्रज्याहलक्षणानि → विषयवासनात्याग इन्द्रियाणाञ्च संयमः ।।
दृष्टाऽऽनुश्रविकाणां हि विषयाणां विशेषतः । त्यागसङ्कल्प आख्यातः सकामस्य च कर्मणः ।। त्यागस्तथा गृहस्थानां वानप्रस्थगतस्य च । धर्मस्य त्यागः कथितो देहाऽध्यासनिवारणे ।। तथा प्रयत्नो बहुधा सर्वकर्मस्वपि ध्रुवम् । आत्मनैव समं योगो योगसाधनमेव च ।। पराभक्तेस्तथा लाभः तत्त्वज्ञानाऽऽगमश्च हि । विषयेषु च वैराग्यं संन्यासे तीव्रकाङ्क्षिता ।। यदा जायेत विप्रस्य तदैव प्रव्रजेद् गृहात् । - (सं.गी. ७/७-१२) इत्येवमुक्तानीत्यवधेयम् । ___ अन्वय-व्यतिरेकाभ्यां प्रकृतं दृढयति- न हि = नैव अनीदृशः = निरुक्तगुणशून्यो ज्ञानयोगं आराधयति, तत्प्रतिबन्धकस्य सत्त्वात् । तदुक्तं उत्तराध्ययने → जहा दुक्खं भरेउं जे होइ वायस्स कुत्थलो। तहा दुक्खं करेउं जे कीवेणं समणत्तणं ।। 6 (उत्त.१९/४०) इति । तदुक्तं सूत्रकृताङ्गे अपि → तत्थ मंदा विसीयंति उज्जाणंसि व दुब्बला - (सू.कृ.१।३।२।२१) इति प्रागुक्तं(पृ.१८४)स्मर्तव्यमत्र । प्रकृते च → शक्या भागवती दीक्षा, शूरैश्च न तु कातरैः । करिपर्याणमुद्वाह्यं करिभिर्न तु रासभैः ।। 6 () इत्यपि सूक्तिः स्मर्तव्या । मलिनाऽन्तरात्मना यथाकथञ्चित्तत्पालनेऽपि न ततः तात्त्विकलाभसम्भवः । यथोक्तं उत्तराध्ययनसूत्रे → राढामणी विरुलियप्पगासे अमहग्घए होइ य जाणएसु - (उत्त. २०/४२) इति । → मइलो पडो रंगिओ न सुंदरं भवइ - (द.वै.चू.अध्य.४) इति दशवकालिकचूर्णिवचनतात्पर्यमप्यत्रावगतागमरहस्यैर्योज्यम् ।
एवमेव → आसललिअं वराओ चाएति न गद्दभो काउं 6 (नि.भा.१६२८) इति निशीथभाष्यवचनाशययोजनाऽप्यत्र कार्योपमारहस्यकोविदः। अत एव हरिभद्रसूरिभिः अपि ब्रह्मसिद्धान्तसमुच्चये → तीव्रभोगाऽभिलाषस्य व्रतविघ्नस्य भोगिनः । स्थूरबुद्धेः कृतघ्नस्य गुरावबहुमानिनः।। 6 (ब्र.सि.३५८) इति लक्षणकलितस्य दीक्षाऽनधिकारित्वमावेदितम् । अत एव → साधने योग्यतां लब्ध्वा संन्यासाश्रममाविशेत् । यद्वा विषयवैतृष्ण्यमात्मज्ञानाऽर्जने तथा ।। उत्कटेच्छा प्रजायेत तदैव प्रव्रजेत् सुधीः 6 (सं.गी. ७/५-६) इत्येवं संन्यासगीतायामुक्तम् । एतेन → यदा मनसि सञ्जातं वैतृष्ण्यं सर्ववस्तुषु । મંત્રી, નગરલોક વગેરેને અત્યંત માન્ય હોય. (૧૨) જે દ્રોહકારી ન હોય. (૧૩) કલ્યાણકારી અંગોપાંગ वाणो डोय. (१४) श्रद्धासंपन्न होय. (१५) स्थिर होय तथा (१६) ही देवा भाटे सामे यादीने જે સમર્પિત થઈને હાજર થયેલ હોય.”
न ह्य. । ५३५२, ७५रोत गुथी संपन्न न होय ते शानयोगने माराधी शती नथी. १. मुद्रितप्रतौ हस्तादर्श च सर्वत्र ‘स्थिर' इति पदं नास्ति । अस्माभिः धर्मबिन्दुग्रन्थानुसारेण तदत्र योजितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org