________________
द्वात्रिंशिका - १९/१२
अत एवाऽस्या भवविरक्त एवाऽधिकार्युक्तः ।
यथोक्तं- “अथ प्रव्रज्यार्हः । ( १ ) आर्यदेशोत्पन्नः, (२) विशिष्टजातिकुलान्वितः, (३) क्षीणप्रायकर्ममलः', (४) तत एव विमलबुद्धि:, (५) 'दुर्लभं मानुष्यं जन्म मरणनिमित्तं, सम्पदश्चलाः, विषया दुःखहेतवः, संयोगो वियोगान्तः, प्रतिक्षणं मरणं, दारुणो विपाक' इत्यवगतसंसारनैर्गुण्यः, (६) तत एव तद्विरक्तः, (७) प्रतनुकषायः, (८) अल्पहास्यादि:, (९) कृतज्ञो, (१०) विनीतः, ( ११ ) प्रागपि राजाऽमात्य - प-पौरजनबहुमतः, (१२) अद्रोहकारी,
प्रासङ्गिकमाह- अत एव = प्रव्रज्याया औपचारिकप्रथमसामर्थ्ययोगरूपाया ज्ञानयोगप्रतिपत्तिरूपत्वादेव अस्याः प्रव्रज्याया भवविरक्त एव अधिकारी उक्तः । भवनैर्गुण्याऽवगमप्रयुक्तविषयवैराग्यविरहेऽनाद्यविद्यासंस्कारपराभूततया विशुद्धज्ञानयोगाऽऽराधकत्वाऽसम्भवात् । अत एव संन्यासगीतायां दृष्टाऽऽनुश्रविकाभ्यां चेद् विषयाभ्यां यदा नृणाम् । परवैराग्यसम्प्राप्तिस्तदा हंसव्रतं चरेत् ।। पराभक्ते रहस्यं हि ज्ञात्वा साधकसत्तमः । तत्त्वज्ञानं चानुभूय तदा हंसव्रतं चरेत् ।। ← (सं.गी. ८/८-९) इत्युक्तम् । प्रव्रज्याऽधिकारिनिरूपणार्थं धर्मबिन्दुसंवाद (ध. बिं. ४ / ३ ) माह- 'अथ प्रव्रज्याऽर्ह' इत्यादि ।
श्रीमुनिचन्द्रसूरिकृता तद्वृत्तिस्त्वेवम् 'अथे' त्यानन्तर्यार्थः प्रव्रजनं = पापेभ्यः प्रकर्षेण शुद्ध - चरणयोगेषु व्रजनं = गमनं प्रव्रज्या, तस्या अर्हः योग्यः प्रव्रज्यार्हः जीवः । कीदृश: ?' इत्याहआर्यदेशोत्पन्नः = मगधाद्यर्द्धषड्विंशतिमण्डलमध्यलब्धजन्मा । तथा विशिष्टजातिकुलान्वितः = विशुद्धवैवाह्यचतुर्वर्णान्तर्गतमातृपितृपक्षरूपजातिकुलसम्पन्नः । तथा क्षीणप्रायकर्ममलः = क्षीणप्रायः - उत्सन्नप्रायः कर्ममलो ज्ञानावरण-मोहनीयादिरूपो यस्य सः तथा । तत एव विमलबुद्धिः, यत एव क्षीणप्रायकर्ममलः तत एव हेतोर्विमलबुद्धिः निर्मलीमसमतिः, 'प्रतिक्षणं मरण मिति समयप्रसिद्धाऽऽवीचिमरणाऽपेक्षयेति, पठ्यते च ' यामेव रात्रिं प्रथमामुपैति, गर्भे वसत्यै नरवीर ! लोकः । ततः प्रभृत्यस्खलितप्रयाणः, स प्रत्यहं मृत्युसमीपमेति।। ( महाभारत शांतिपर्व ) नरवीर इति व्यासेन युधिष्ठिरस्य सम्बोधनमिति । दारुणो विपाको मरणस्यैवेति गम्यते, सर्वाऽभावकारित्वात्तस्येति । 'प्रागपि' इति प्रवज्याप्रतिपत्तिपूर्वकाल एवेति । જ્ઞાનયોગના સ્વીકાર સ્વરૂપ હોવાના કારણે જ ભવિવરક્ત જીવ જ તેનો અધિકારી કહેવાયેલ છે.
=
ધર્મબિંદુ ગ્રંથમાં શ્રીહરિભદ્રસૂરિજી મહારાજે જણાવેલ છે કે -હવે પ્રવ્રજ્યાને યોગ્ય જીવ બતાવવામાં खावे छे. (१) आर्य देशमां उत्पन्न थयेस होय. (२) विशिष्ट भति भने दुसथी युक्त होय. (3) ક્ષીણપ્રાયઃ કર્મમળવાળો હોય. (૪) તેથી જ જે નિર્મળ બુદ્ધિવાળો હોય. તથા (૫) ‘મનુષ્ય ભવ દુર્લભ છે. જન્મ મરણનું કારણ છે. સંપત્તિઓ ચંચળ છે.આયુષ્યનો ક્ષય થઈ રહેલો હોવાથી પ્રતિક્ષણ આવીચિ મરણ છે. ભોગસુખનો વિપાક પરિણામ દારુણ છે’-આ પ્રમાણે સંસારની નિર્ગુણતાને જેણે જાણી सीधेसी छे. (६) तेथी ४ में संसारथी विरक्त होय. (७) अति अस्य दुषायवाणी होय. (८) भेनुं हास्य-निद्रा वगेरे अस्य होय. (८) तज्ञ होय. (१०) विनीत होय. ( ११ ) प्रप्रन्या पूर्वे पाराभ
=
१२९०
• भवविरक्तस्यैव प्रव्रज्याधिकारः •
=
१. हस्तप्रतौ मुद्रितप्रतौ च सर्वत्र ' क्षीणप्रायकर्ममलबुद्धिः' इत्यशुद्धः पाठः । अस्माभिः धर्मबिन्दुग्रन्थानुसारेण शुद्धः पाठो योजि-तोऽत्र । २. हस्तादर्शे 'वियोगो:' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org