________________
परदर्शनानुसारेण प्रव्रज्या ज्ञानयोगप्राप्तिः • १२८९ → णिग्गंथा णिस्संगा णिम्माणाऽऽसा अराया णिद्दोसा । णिम्मम णिरहंकारा पव्वज्जा एरिसा भणिया ।। णिणेहा णिल्लोहा णिम्मोहा णिव्वियार णिक्कलुसा । णिब्भय णिरासभावा पव्वज्जा एरिसा भणिया ।। ← (बो.प्रा.४९-५०) इति बोधप्राभृतवचनतात्पर्यमपि प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वे विश्राम्यति, ज्ञानयोगं विना ग्रन्थि-सङ्ग-मानकषायादित्यागाऽयोगात् । समाधित अव्रती व्रतमादाय व्रती ज्ञानपरायणः ← (स.तं.८६ ) इत्युक्त्या दिगम्बरपूज्यपादस्वामिनाऽपि प्रव्रज्याया ज्ञानयोगपरायणतात्मकता विद्योतिता । → भूत्वा दीपोपमो धीमान् ज्ञान - चारित्रभास्वरः । स्वमन्यं भासयत्येष प्रोद्वमन् कर्मकज्जलम् ।। ← (आत्मा.१२१) इति आत्मानुशासनवचनमप्येतदर्थानुपात्येव फलतः I
परेषामपि सम्मतमिदम् । तदुक्तं नारदपरिव्राजकोपनिषदि प्रवृत्तिलक्षणं कर्म ज्ञानं सन्यासलक्षणम् । तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ।। ← ( ना. परि. ३ / १६ ) इति । वासना एव संसार इति सर्वाः विमुञ्चत । तत्त्यागो वासनात्यागात् स्थितिरद्य यथा तथा ।। ← ( अ.गी. ९ / ८) इति अष्टावक्र गीतावचनमपि प्रवज्याया ज्ञानयोगप्रतिपत्तिरूपतां विना नोपपद्यते । तत्त्वज्ञानेऽग्रेसरतां विना किन्तु न तामियात् ← (सं.गी. ७ / ४) इति संन्यासगीतावचनं ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते ← (प.ह.३) इति परमहंसोपनिषद्वचनं, कर्मत्यागान्न संन्यासो न प्रेषोच्चारणेन तु । सन्धौ जीवात्मनोरैक्यं संन्यासः परिकीर्तितः ।। ← (मैत्रे. २ ।१७ ) इति मैत्रेय्युपनिषद्वचनं, उपाधिभेदसंन्यासार्थं ज्ञानसंन्यासग्रहणं करिष्ये ← (मठा. ८) इति मठाऽऽम्नायोपनिषद्वचनं ससर्वसंविन्यासं संन्यासम् ← (निर्वा.१) इति निर्वाणोपनिषद्वचनं, संन्यासी ज्ञानतत्परः (गु.गी. १३३) इति च गुरुगीतावचनमप्यत्र संवदति । मेधादीक्षातः परा दीक्षा न विद्यते ← (काली.दी.१) इति कालीमेधादीक्षितोपनिषद्वचनं न्यसनं = न्यासः । सम्यग् न्यासः = संन्यासः, न तु मुण्डितमुण्डः ← ( गु.पो. २, पीता.१) इति गृह्यषोढान्यासोपनिषत् - पीताम्बरोपनिषदोर्वचनं वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद् यतयः शुद्धसत्त्वाः ← ( म.नारा. १०/६ ) इति च महानारायणोपनिषद्वचनमप्यत्रानुयोज्यं यथातन्त्रम् । रमणगीतायामपि संन्यासो निर्मलं ज्ञानं, न कषायो न मुण्डनम् ← (र.गी. ८/५) इत्युक्तम् । तात्त्विकप्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपता तस्याः सामर्थ्ययोगजन्यतामावेदयति, तथाविधात्मसामर्थ्यविरहे तात्त्विकज्ञानयोगप्रतिपत्त्यसम्भवात् । प्रव्रज्याकालीनस्य धर्मसंन्याससंज्ञितसामर्थ्ययोगस्याऽतात्त्विकरूपता तु त्यागप्रतियोगित्वेनाऽभिमतानां धर्माणां स्थूलत्वात् सिध्यति । इत्थञ्च पूजापौषधादिप्रवृत्तिस्वरूपस्थूलधर्मपरित्यागे सत्यपि स्वभूमिकोचितज्ञानयोगपरायणत्वादेव क्षायोपशमिकक्षमादिलक्षणसूक्ष्मधर्मप्रतियोगिकनिवृत्तिविरहेण न प्रव्रज्यामात्रेण तात्त्विक-धर्मसंन्याससंज्ञित-प्रथमसामर्थ्ययोगलाभः सम्भवति । प्रापणीयस्य कैवल्यस्याऽप्राप्तत्वेन प्रव्रजितस्य ज्ञानयोगपरायणताऽपि श्रेयस्येवेति तु ध्येयम् ।
इदमप्यत्राऽवधेयम् - वैराग्यसंन्यास- ज्ञानसंन्यास-ज्ञानवैराग्यसंन्यास-कर्मसंन्यासभेदेन चतुर्धा प्रव्रज्या भिद्यते । अत्र ज्ञानसंन्यासलक्षणप्रव्रज्यैवाऽधिकृता, तस्या ज्ञानयोगप्रतिपत्तिरूपत्वात् । तदुक्तं नारदपरिव्राजकोपनिषदि शास्त्रज्ञानात् पाप-पुण्य-लोकानुभव - श्रवणात् प्रपञ्चोपरतः क्रोधेर्ष्याऽसूयाऽहङ्काराभिमानात्मकसर्वसंसारं निर्वृत्य दारेषणा- धनेषणा - लोकेषणाऽऽत्मकदेहवासनां शास्त्रवासनां लोकवासनां त्यक्त्वा वमनान्नमिव प्रकृतीयं सर्वमिदं हेयं मत्वा साधनचतुष्टयसम्पन्नो यः संन्यस्यति स एव ज्ञानसंन्यासी ← ( ना. परि. ५ / २) इति ।
Jain Education International
=
•
=
For Private & Personal Use Only
www.jainelibrary.org