________________
१२८८
• स्वदर्शने प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपता • द्वात्रिंशिका-१९/१२ अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति, प्रवृत्तिलक्षणधर्म सन्न्यासायाः प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात् । - (अ.उप.२/५८) इति । यथोक्तं स्याद्वादकल्पलतायामपि → धर्मसंन्यासः तात्त्विकः क्षपकश्रेणियोगिनो द्वितीयाऽपूर्वकरणे भवति, क्षायोपशमिकानां क्षान्त्यादिधर्माणां तदा निवृत्तेः, क्षायिकाणामेव विशुद्धानां प्रादुर्भावात् + (स्या.क.ल. ९/२७-पृ.१३२) इति ।
अतात्त्विकस्तु = अपारमार्थिकधर्मसन्न्यासाऽभिधानसामर्थ्ययोगस्तु प्रव्रज्याकालेऽपि = अभिनवप्रव्रज्याग्रहण-गृहीतपालनादिकालेऽपि भवति, अपिना जिनकल्प-परिहारविशुद्धि-यथालन्दिकादिचारित्रोपादान-पालनोपशमश्रेणिग्रहणम् । प्रकृते हेतुमाह- प्रवृत्तिलक्षणधर्मसंन्यासायाः = स्वेतरभूमिकोचितप्रशस्तक्रियालक्षणस्य कथञ्चित् सावधप्रवृत्तिलक्षणस्य वा धर्मस्य निवृत्तिरूपायाः प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात् = स्वभूमिकोचितज्ञानयोगस्वीकृतिरूपत्वात् । तदुक्तं स्याद्वादकल्पलतायामपि → अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति, सावधप्रवृत्तिलक्षणधर्मसंन्यासादिति समयविदः - (स्या.क. ९/२७) इति । प्रकृते च → जाणंति बंध-मुक्खं जीवाऽजीवे य पुण्ण-पावं च । आसव-संवर-निज्जर तो किर नाणं चरणहेऊ ।। (चं.वे.प्र.७०) पावाओ विणिवत्ती पवत्तणा तह य कुसलधम्मस्स । विणयस्स य पडिवत्ती तिण्णि वि नाणे अहीणाई ।। 6 (चं.वे.प्र.१०३) इति चन्द्रकवेध्यकप्रकीर्णकवचने प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपतामावेदयतः । → नाणेण विणा न होंति चरणगुणा 6 (उत्त.१८/३०) इति उत्तराध्ययनसूत्रकवचनं, → एसा जिणाण आणा णऽत्थि चरित्तं विणा नाणं - (म.स.१३८) इति मरणसमाधिप्रकीर्णकवचनं, → नाणम्मि असंतम्मि चरित्तं पि न विज्जए (व्य.भा.७/२१७) इति व्यवहारसूत्रभाष्यवचनं, → अप्रशस्तकषायाणां त्यागः संन्यास उच्यते (म.गी.५/१८२) इति च महावीरगीतावचनं प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपतां स्वमते समर्थयन्ति । प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वादेव मूढस्य नाऽस्यामधिकारिता । अत एव प्रवचनसारोद्धारवृत्तौ → स्नेहादज्ञानादिपरतन्त्रतया यथावस्थितवस्त्वधिगमशून्यमानसो मूढः । सोऽपि ज्ञान-विवेकमूलायामार्हतदीक्षायां नाऽधिक्रियते, अज्ञानत्वात्कृत्याऽकृत्यादिविवेकविकलत्वाच्च 6 (प्र.सारो.गा.७९० वृत्ति) इत्युक्तम् ।
હ પ્રવજ્યા સમયે અતાત્ત્વિક ધર્મસંન્યાસ હ अता. मतात्वि मेवो धर्मसंन्यास संश: प्रथम सामथ्र्ययोग तो त्या समये ५९ डोय छे. ॥२९॥ કે પૂજા-પૌષધ વગેરે પ્રવૃત્તિ સ્વરૂપ ધર્મનો ત્યાગ જેમાં થાય છે તેવી પ્રવજ્યા જ્ઞાનયોગના સ્વીકાર સ્વરૂપ છે.(પ્રવ્રજ્યા જ્ઞાનયોગના સ્વીકાર સ્વરૂપ હોવાથી તેમાં સામર્થ્યયોગ સંભવી શકે છે. તેવું દર્શાવાય છે. તથા તે પ્રથમ સામર્થ્યયોગ અતાત્ત્વિક = ઔપચારિક હોવાનું કારણ એ છે કે તેમાં ક્ષમા વગેરે ક્ષાયોપથમિક ગુણસ્વરૂપ સૂક્ષ્મ ધર્મનો ત્યાગ નથી થતો પરંતુ પૂજા-પૌષધ વગેરે પ્રવૃત્તિ સ્વરૂપ સ્થૂલ ધર્મનો ત્યાગ થાય છે. સ્થૂલ ધર્મનો ત્યાગ હોવા છતાં પણ ઉપરોક્ત સૂક્ષ્મ ધર્મનો ત્યાગ થતો ન હોવાથી તેમાં તાત્ત્વિક ધર્મસંન્યાસસ્વરૂપ પ્રથમ સામર્થ્યયોગ સંભવતો નથી. પરંતુ ઔપચારિક ધર્મસંન્યાસ સ્વરૂપ સામર્થ્યયોગ તો પ્રવ્રજ્યામાં અવશ્ય હોય છે. કારણ કે પ્રવજ્યા જ્ઞાનયોગના સ્વીકાર સ્વરૂપ છે.) પ્રવ્રજ્યા – દીક્ષા १. 'धर्यस' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org