________________
१२८६
• प्रथमाऽपूर्वकरणफलादिविचारः • द्वात्रिंशिका-१९/१२ द्वितीयाऽपूर्वकरणे प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः ।।१२।।
द्वितीयेति । द्वितीयाऽपूर्वकरण इति ग्रन्थिभेदनिबन्धनप्रथमाऽपूर्वकरणव्यवच्छेदार्थं द्वितीयग्रहणं, प्रथमेऽधिकृतसामर्थ्ययोगासिद्धेः । अपूर्वकरणस्य तु तत्राऽसजातपूर्वग्रन्थिभेदादिफलेनाभिधानात् । 'यथाप्राधान्यमयमुपन्यासः । चारुश्च पश्चानुपू]ति समयविदः ।
__ एवमेष द्विधा सामर्थ्ययोग इति निरूप्याऽधुना योगदृष्टिसमुच्चय(यो.दृ.स.१०)कारिकोपन्यासेन यो यदा भवति तं तदाऽभिधातुमाह- "द्वितीयेति । ललितविस्तरायामपीयं कारिकोद्धृतेत्यवधेयम् (ल. वि.पृ.१५) प्रथमे = ग्रन्थिभेदनिबन्धने आद्याऽपूर्वकरणे अधिकृतसामर्थ्ययोगाऽसिद्धेः = धर्मसन्न्यासाभिधानाऽऽद्यसामर्थ्ययोगाऽसम्भवात् । न चैवं तस्याऽपूर्वकरणाभिधानं कथं सङ्गच्छते ? इति शङ्कनीयम्, अपूर्वकरणस्य ग्रन्थिभेदनिबन्धनस्य तु तत्र = कर्मग्रन्थ-विशेषावश्यकभाष्यादौ असञ्जातपूर्वग्रन्थिभेदादिफलेन हेतुना अभिधानात् = तथाभिधानकरणात्। अयमाशयः पूर्वोक्तरीत्या (द्वा.द्वा.१५/७-भाग४, पृ.१०१५) करणमात्मनः परिणामविशेषोऽभिधीयते तन्त्रपरिभाषया । अपूर्वकरणन्त्वपूर्वपरिणामः शुभोऽनादावपि भवे तेषु तेषु धर्मस्थानेषु वर्तमानस्य तथाऽसञ्जातपूर्वो ग्रन्थिभेदादिफल उच्यते । तत्र प्रथमेऽपूर्वकरणे ग्रन्थिभेदः फलं, तस्य च सम्यग्दर्शनं फलम् । सम्यग्दर्शनञ्च प्रशमादिलिङ्ग आत्मपरिणामः । यथोक्तं तत्त्वार्थभाष्ये → प्रशम-संवेग-निर्वेदाऽनुकम्पाऽऽस्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्
(त.भा.१२) इति पूर्वोक्तं(पृ.१००७) इहानुसन्धेयम् । तत्राऽऽस्तिक्यापेक्षयाऽनुकम्पा प्रधाना, ततोऽपि निर्वेदः प्रधानगुणः, ततोऽपि संवेगः, ततोऽपि च प्रशमः इति कृत्वा यथाप्राधान्यं = शुद्धयादिप्राधान्यमनुसृत्य 'प्रशम-संवेगे'त्यादिक्रमेण अयं उपन्यासः = सम्यग्दर्शनलिङ्गनिर्देशः तत्त्वार्थभाष्यादौ कृतः। योधादीनां प्रथममागमनेऽपि 'राजादय आगता अत्रे'त्येवमेवोपन्यासदर्शनात् समुचितोऽयमुपन्यासः । किन्त्वास्तिक्यमृतेऽनुकम्पाऽपि तत्त्वतो मिथ्याऽनुकम्पा भवति, अनुकम्पादिविरहे निर्वेदोऽपि प्रातिभासिको भण्यते, निर्वेदादिकं विना संवेगोऽप्याभासिकतामापद्यते, संवेगादिचतुष्कमन्तरेण च प्रशमोऽप्यकामनिर्जरादिकोटौ प्रविशन् मोक्षफलापेक्षया व्यर्थप्राय एवेति चारुश्च = सानुबन्धतात्त्विककल्याणकारी च प्रशमादिः पश्चानुपूर्व्या = पाश्चात्यक्रमेणैव इति समयविदः = जिनागममर्मवेदिनो वदन्ति ।
જ ધર્મસંન્યાસ અને યોગસંન્યાસનો નળ છે ગાથાર્થ - બીજા અપૂર્વકરણ વખતે પ્રથમ સામર્થ્ય-યોગ તાત્વિક હોય તથા આયોજ્યકરણ પછી બીજો સામર્થ્યયોગ હોય - એમ તેના જાણકારો કહે છે (૧૯/૧૨)
ટીકાર્થ:- પ્રથમ અપૂર્વકરણ ગ્રન્થિભેદનું કારણ છે. તેની બાદબાકી કરવા માટે પ્રસ્તુતમાં અપૂર્વકરણનું દ્વિતીય' એવું વિશેષણ લગાડેલ છે. અહીં પ્રથમ અપૂર્વકરણની બાદબાકી એટલા માટે કરવામાં આવી છે કે તેમાં પ્રસ્તુત ધર્મસંન્યાસ નામનો સામર્થ્યયોગ સિદ્ધ થતો નથી. તેમ છતાં તેનું અપૂર્વકરણ નામ એટલા માટે રાખવામાં આવેલ છે કે ભવચક્રમાં ક્યારેય પણ પૂર્વે ઉત્પન્ન ન થયેલ = અપૂર્વ એવા પ્રન્થિભેદ વગેરે ફળ તે સમયે ઉત્પન્ન થાય છે. (અર્થાત અપૂર્વ એવા ગ્રન્થિભેદ વગેરે ફળને આપનાર હોવાથી તેનું નામ પણ અપૂર્વકરણ રાખવામાં આવેલ છે તે ઉચિત જ છે. ગ્રન્થિભેદ અને સમ્યગ્દર્શન વગેરે અપૂર્વ-ફળ તેના દ્વારા પ્રાપ્ત થાય છે. સમ્યગ્દર્શનના લિંગ શમ, સંવેગ, નિર્વેદ, અનુકંપા અને
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org