________________
• निजप्रज्ञाविरहे शास्त्रस्याऽनुपकारकत्वम् •
१२८५ द्विधाऽयं धर्मसंन्यास'-योगसंन्याससंज्ञितः । क्षायोपशमिका धर्मा योगाः कायादिकर्म तु ।।११।।
द्विधेति । द्विधा = द्विप्रकारो अयं = सामर्थ्ययोगः धर्मसन्न्यास-योगसन्न्याससंज्ञे जाते यस्य स तथा (=धर्मसन्यास-योगसन्न्याससंज्ञितः) । संज्ञा चेह 'तया' संज्ञायत' इति कृत्वा तत्स्वरूपमेव गृह्यते । क्षायोपशमिकाः = क्षयोपशमनिर्वृत्ताः क्षान्त्यादयो धर्माः, योगास्तु कायादिकर्म = कायोत्सर्गकरणादयः कायादिव्यापाराः ।।११।।
___ यत्तु → यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः । न स जानाति शास्त्रार्थं दर्वी सूर्परसानिव ।। - (म.भा.सभापर्व ५५/४) इति महाभारते, → यस्य नास्ति निजा प्रज्ञा शास्त्रं तस्य करोति किम् ?। लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति? ।। (चा.श.१०९) इति च चाणक्यशतके प्रोक्तं ततोऽत्राऽन्योन्याश्रयावकाशो नास्ति, तत्र प्रज्ञापदस्य व्यावहारिकमतिज्ञानपरत्वात् इह चाऽऽध्यात्मिकप्रज्ञाविशेषस्याऽऽगमादित्रितयसंस्कार्यत्वेनाऽभिप्रेतत्वात् । अस्ति च प्रज्ञापदस्य व्यावहारिकमतिज्ञानवाचकत्वमपि शास्त्रसंमतम् । तदुक्तं विशेषावश्यकमहाभाष्ये → ईहा अपोह वीमंसा मग्गणा य गवेसणा | सण्णा सई मई पण्णा सव्वं आभिणिबोहियं ।। (वि.आ.भा.३९६) इति भावनीयम् ।।१९/१०।। ___ सामर्थ्ययोगभेदी योगदृष्टिसमुच्चय(यो.दृ.स.९)कारिकाद्वारैवोपदर्शयति- 'द्विधे'ति । धर्मसन्यासयोगसन्याससंज्ञे सजाते यस्य स तथा = धर्मसन्यास-योगसन्याससंज्ञितः, → तदस्य सञ्जातं तारकादिभ्य इतः - (सि.हे. ७।१।१३६) इति सिद्धहेमशब्दानुशासनसूत्रेणैतनिष्पत्तिः ।
के एते धर्माः ? के वा योगाः ? इत्याशङ्कायामाह- क्षयोपशमनिर्वृत्ताः क्षान्त्यादयः = क्षमामार्दवाऽऽर्जव-सन्तोषादयो धर्माः। उदितानां घातिकर्मणां क्षयोऽनुदितानाञ्चोपशमः = क्षयोपशम उच्यते । तदा च घातिकर्मोदयो विपाकतो विद्यमानोऽपि नांशतः क्षमाधुत्पादप्रतिबन्धक इति कृत्वा क्षयोपशमस्यात्र कारणताऽऽवेदिता व्यवहारनयतः । अत एव घातिकर्मक्षये नांऽऽशिकक्षमाधुत्पादः सम्मतः । वस्तुतस्तत्सहचरिताया आत्मशुद्धेरेव प्रकृतक्षमादिजनकताऽवगन्तव्या । शिष्टं स्पष्टम् ।।१९/११।।
હ સામર્થ્યયોગના બે પ્રકાર છે ગાથાર્થ :- ધર્મસંન્યાસ અને યોગસંન્યાસ સ્વરૂપે સામર્થ્યયોગના બે પ્રકાર છે. ધર્મ પદથી क्षायोपशम धर्म सम४ा. तथा 'योग' ५४थी आया वगैरेनी या अड! ४२वी. (१८/११)
ટીકાર્ય - ધર્મસંન્યાસ સંજ્ઞા અને યોગસંન્યાસ સંજ્ઞા જેને પ્રાપ્ત થયેલ છે તેવો સામર્થ્યયોગ બે પ્રકારે છે. જેના દ્વારા સંજ્ઞાન મળે તે સંજ્ઞા કહેવાય. આ વ્યુત્પત્તિ મુજબ “સંજ્ઞા' શબ્દનો અર્થ તેનું સ્વરૂપે જ થાય (મતલબ કે ધર્મસંન્યાસયોગનું સ્વરૂપ અને યોગસંન્યાસયોગનું સ્વરૂપ જ સામર્થ્યયોગને સારી રીતે ઓળખાવે છે. ધર્મસંન્યાસ એટલે ધર્મનો ત્યાગ અને યોગસંન્યાસ એટલે યોગોનો ત્યાગ. પરંતુ અહીં ધર્મ અને યોગ તરીકે શું લેવાનું ? તેની મહત્ત્વની ઓળખાણ આપતા ગ્રંથકારશ્રી જણાવે છે કે)ક્ષયોપશમભાવથી ઉત્પન્ન થયેલા ક્ષમા વગેરે ગુણો પ્રસ્તુતમાં ધર્મ તરીકે લેવા. તથા કાયોત્સર્ગ કરવો વગેરે કાયા વગેરેની પ્રવૃત્તિ અહીં યોગ તરીકે લેવી. (૧૯/૧૧) १. हस्तादर्श ‘सन्यासां' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ हस्तप्रतौ चात्र 'तथा' इति पाठः । स चाशुद्धः प्रतिभाति । योगदष्टिसमच्चयवृत्त्यनुसारेणात्र 'तया' इति पाठः सम्यगिति कत्वा गहीतोऽस्माभिः ।।
For Private & Personal use only
www.jainelibrary.org