________________
१२८४
• स्व- परतन्त्रैः प्रज्ञाविशोधनपरामर्शः
प्रज्ञां प्रकल्पयन् उत्तमं 'मृदो घट' इतिवत् प्रकृते
सर्वोत्कृष्टं योगं लभते || १० || षष्ठ्यर्थो जन्यत्वमित्यवधेयम् ।
यत्तु तत्त्ववैशारद्यां वाचस्पतिमिश्रेण आगमपदेन श्रवणं, अनुमानपदेन मननं, ध्यानाऽभ्यासरसपदेन च निदिध्यासनमुक्तम्, ध्यानेऽभ्यासः = पौनःपुन्येनाऽनुष्ठानं तस्मिन् रसः = आदर इत्यर्थात् ← (त.वै. १।४८ पृ.१२६) इत्युक्तं तत्तु श्रवण-मनन-निदिध्यासनक्रमेण परब्रह्मसाक्षात्कारप्रतिपादकवेदान्तिनयमतमनुरुध्याऽवसेयम् ।
द्वात्रिंशिका - १९/१०
=
'प्रज्ञां = बुद्धिं' इति योगबिन्दुवृत्तिकार : ( यो . बिं. ४१२ वृत्ति) । अमितगतिनाऽपि योगसारप्राभृते आगमेनानुमानेन ध्यानाऽभ्यासरसेन च । त्रेधा विशोधयन् बुद्धिं ध्यानमाप्नोति पावनम् ।। ← (यो.सा. प्रा. ७।४२ ) इत्युक्तम् । प्रज्ञा = नव-नवोल्लेख शालिनी प्रतिभा मता ← (का. कौ.) इति तु काव्यकौतुककारः । एतेन प्रतिभा नव-नवोल्लेखशालिनी प्रज्ञा ← (काव्यानु.१।४ वृ.) इति काव्यानुशासनवृत्तौ श्रीहेमचन्द्रसूरिवचनं व्याख्यातम् ।
वस्तुतस्तु निर्विकल्पमतिरेव प्रज्ञापदेनाऽत्र वाच्येत्यस्माकं प्रतिभाति । निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते । सा सर्वदा भवेद् यस्य स जीवन्मुक्त इष्यते ।। ← (अध्या. ४४) इति तन्त्रान्तरीयस्य अध्यात्मोपनिषद्ग्रन्थस्य वचनमपि यथागममत्राऽनुयोज्यम् । श्रुतेन लिङ्गेन यथाशक्ति समाहिताऽन्तःकरणेन सम्यक् समीक्ष्य ← (स.तं. ३) इति देवनन्द्याचार्यस्य समाधितन्त्रोक्तिरप्यवश्यमत्रानुसन्धेयाऽभिनिवेशविमुक्तैः । प्रज्ञाविरहे केवलतपश्चर्यादिबाह्यसाधनबलमकिञ्चित्करमेव परमार्थतः । एतेन निष्प्रज्ञस्य बलेन किम् ? ← (नी.क. ११ 19 ) इति नीतिकल्पतरुवचनमपि व्याख्यातम् । पण्डितानां प्रज्ञैव सत्पुरुषार्थलभ्या तात्त्विकं चक्षुः । तदुक्तं सौदरनन्दकाव्ये प्रज्ञामयं यस्य हि नास्ति चक्षुः चक्षुर्न तस्याऽस्ति सचक्षुषोऽपि ← (सौ.न. १८ । ३६) इति तदुक्तं प्रबन्धचिन्तामणौ अपि प्रज्ञानयनेन पश्यति बुधश्चैकेन वस्तु स्फुटम् ← (प्र.चिं. पृ. ३९) इति ।
यच्च अध्यात्मरहस्ये आशाधरेण शुद्धे श्रुति-मति - ध्याति- दृष्टयः स्वात्मनि क्रमात् । यस्य सद्गुरुतः सिद्धा स योगी योगपारगः ।। ← ( अ.रह. ३) इत्युक्तम्, तत्र ध्याति - दृष्ट्योः ध्यानाऽभ्यासरसेऽन्तर्भावः कर्तव्यः । उक्तक्रमेणैव प्रज्ञाविशोधनं युक्तम्, अन्यथा प्रवृत्त्यसिद्धेः । सर्वोत्कृष्टं योगं वृत्तिसङ्क्षय- सामर्थ्ययोगादिरूपं लभते, निरुक्ताऽऽगमादित्रितयेन तत्प्रतिबन्धकपापाऽनुबन्धादिनिवृत्तेः । एतावता स्वभूमिकोचितपर्याप्तश्रुतप्रज्ञाऽनुमानप्रज्ञोत्तरकालीनध्यानपरिशीलनोपहितऋतम्भराभिधानपरिपक्वप्रज्ञालभ्यत्वं सर्वश्रेष्ठयोगस्योपदर्शितमित्यवधेयम् । एतेन प्रज्ञोद्यमौ अरणि-मन्थौ इव हविर्भुजः पितरौ कार्यसिद्धेः, तौहि पुरुषव्यापारानुगृहीतौ नास्ति तद् वस्तु यन्न साधयतः ← ( ति.मं. पृ. २५) इति तिलकमञ्जरीवचनमपि व्याख्यातम् । प्रकृते → सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ← (बा.रा. १/८) इति बालरामायणवचनमपि स्मर्तव्यम्। प्रकृते पञ्ञाचक्खु अनुत्तरं ( इति . ३ / १२ ) ← इति इतिवृत्तकवचनमपि न विस्मर्तव्यम् । शास्त्रविनिश्चयोऽपि प्रज्ञात एव भवति । तदुक्तं थेरगाथायां पञ्ञ सुत्तविनिच्छती ← ( थे. गा. ५५४) ।
વિશેષાર્થઃ- શાસ્ત્ર અને તર્ક યુક્તિ-અનુમાનદ્વારા પ્રજ્ઞાનોવિકાસસાધ્યા પછી ધ્યાનાભ્યાસના રસથી પ્રજ્ઞાનેઘડવી જરૂરીછે. ‘રસ’ શબ્દથી પ્રસ્તુતમાં ઋતંભરાનામની પ્રજ્ઞાલેવી કેજેઆગમ-પ્રજ્ઞા અને અનુમાનપ્રજ્ઞાથી અલગ પ્રકારનીછે. મતલબ કે શાસ્ત્ર કેત યુક્તિ-અનુમાનને પોતાનોવિષય ન બનાવી શકેતેને પોતાનોવિષય બનાવનાર ઋતંભરા પ્રજ્ઞા ધ્યાનના પરિશીલનની નીપજછે. આ રીતપરિપક્વ થયેલી પ્રજ્ઞાના પ્રભાવે સાધક સર્વશ્રેષ્ઠ કક્ષાના યોગનેસંપ્રાપ્ત કરેછે. (૧૯/૧૦)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org