________________
१२८२ • तारकज्ञाननिरूपणम् .
द्वात्रिंशिका-१९/९ ऋतम्भरादिभिरिति । एतत् = प्रकृतं प्रातिभज्ञानं परैरपि पातञ्जलादिभिः ऋतम्भरादिभिः शब्दैर्वाच्यमिष्यते । आदिना तारकादिशब्दग्रहः । गमकत्वं = सामर्थ्ययोगज्ञापकत्वं चाऽमुष्य
प्रातिभस्यैव पर्यायानाह- 'ऋतम्भरे'ति । ऋतं = सत्यं बिभर्ति या सा प्रज्ञा ऋतम्भरेत्यभिधीयते पातञ्जलैः । सा च वक्ष्यते अग्रे योगावतारद्वात्रिंशिकायाम् (द्वा.द्वा.२०/१२ पृ.१३४४) ।
इयमृतम्भरा समाधिप्रज्ञा सामर्थ्ययोगजन्या । तदुक्तं प्रकृतग्रन्थकृतैव योगसूत्रविवरणे → ‘सन्ध्येव दिन-रात्रिभ्यां केवलाच्च श्रुतात्पृथक् । बुधैरनुभवो दृष्टः केवलार्कारुणोदयः ।।' इत्यस्मदुक्तलक्षणलक्षिताऽनुभवाऽपरनामधेया शास्त्रोक्तायां दिशि तदतिक्रान्तमतीन्द्रियं विशेषमवलम्बमाना तत्त्वतो द्वितीयाऽपूर्वकरणभाविसामर्थ्ययोगप्रभवेयं समाधिप्रज्ञा इति युक्तः पन्थाः (यो.सू. १/४८ विवरण) इति । तदुक्तं अध्यात्मतत्त्वालोकेऽपि → तत्प्रातिभं केवलबोधभानोः प्राग्वृत्तिकं स्यादरुणोदयाऽऽभम् । ऋतम्भरा तारक एवमादिनामानि तस्मिन्नपरे वदन्ति ।। - (अ.त. ७/९) ।
तारकादिशब्दग्रहः इति । संसारतरणोपायत्वात्तारकम् । तदुक्तं वाचस्पतिमिश्रेण तत्त्ववैशारद्यां → प्रतिभा = ऊहः, तद्भवं = प्रातिभम् । प्रसङ्ख्यानहेतुसंयमवतो हि तत्प्रकर्षे प्रसङ्ख्यानोदयपूर्वलिङ्गं यदूहजं तेन सर्वं विजानाति योगी । तच्च प्रसङ्ख्यान(=विवेकख्याति)सन्निधापनेन संसारात्तारयतीति तारकम् (त.वै.३/३३) इति । व्यासेनाऽपि पातञ्जलयोगसूत्रभाष्ये → प्रातिभं नाम तारकं । तद् विवेकजस्य (सार्वइयरूपस्य) ज्ञानस्य पूर्वरूपम्, यथोदये प्रभा भास्करस्य 6 (पा.भा. ३ ३३) इत्युक्तम् ।
→ निमित्तानपेक्षं मनोमात्रजन्यमविसंवादकं द्रागुत्पद्यमानं ज्ञानं = प्रतिभा, तस्यां संयमे क्रियमाणे प्रातिभं विवकख्यातेः पूर्वभावि तारकं ज्ञानमुदेति यथा- उदेष्यति सवितरि पूर्वं प्रभा प्रादुर्भवति तद्वद्विवेकख्यातेः पूर्वं तारकं सर्वविषयज्ञानमुत्पद्यते (रा.मा.१/३३) - इति राजमार्तण्डे भोजः । सूर्योदयसूचकाऽरुणोदयप्रभया यथा लोकः सर्वं स्वविषयं पश्यति तथा सार्वज्ञ्योदयसूचकप्रातिभज्ञानात् सर्वं स्वविषयाहं योगी विजानातीति भावः । अधिकं बुभुत्सुभिः → तारकं सर्वविषयं सर्वथाविषयमक्रमञ्चेति विवेकजं ज्ञानम् + (यो.सू. ३५४) इति योगसूत्रस्य भाष्य-वार्तिक-सप्तविधवृत्त्यादिकमवलोकनीयम् । किञ्चिच्चेहापि योगमाहात्म्यद्वात्रिंशिकायां (द्वा.द्वा.२६/२१-भाग-६ पृ.१८२७) वक्ष्यामः ।
वस्तुतः प्रातिभज्ञानकार्यभूतैव ऋतम्भरा प्रज्ञा प्रकृतग्रन्थकृतामभिप्रेता । इदमेवाऽभिप्रेत्य स्याद्वादकल्पलतायां प्रकृतग्रन्थकृतैव → ऋतम्भरा च केवलज्ञानम् ६ (स्या.क.ल.१/२१ पृ.८३) इत्युक्तम् । प्रातिभज्ञानस्थानीयस्तु पातञ्जलानां प्रज्ञाऽऽलोकोऽभिप्रेतः । इदमेवाभिप्रेत्य स्याद्वादकल्पलतायां → प्रज्ञालोकश्च केवलज्ञानादधः सचित्राऽऽलोककल्पः चतुर्ज्ञानप्रकर्षोत्तरकालभावी प्रातिभाऽपरनामा ज्ञानविशेषः -- (स्या.क.ल.१/२१-पृ.८३) इत्युक्तमित्यवधेयम् । પ્રતિભજ્ઞાન સામર્થ્યયોગનું જ્ઞાપક છે. કારણ કે વ્યાસ વડે પણ કહેવાયેલ છે કે આ વાત ૧૦મી ગાથામાં जतावामां मावशे.) (१८/८)
ટીકાર્થ:- પ્રસ્તુત પ્રાતિજજ્ઞાન તો ઋતંભરા આદિ શબ્દો દ્વારા કહી શકાય તેવું પાતંજલ વગેરે અન્ય દર્શનીઓને પણ માન્ય છે. મૂળ ગાથામાં રહેલા “આદિ' શબ્દથી તારક વગેરે શબ્દનો પણ સ્વીકાર કરી લેવો. પ્રાતિભજ્ઞાન (= ઋતંભરા કે તારકજ્ઞાન) સામર્થ્યયોગનું જ્ઞાપક છે - એવું અન્ય દર્શનીઓ વડે ઈચ્છાય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org