________________
• प्रातिभस्य मतिज्ञानान्तर्भावसमर्थनम् •
परकोटिव्यवस्थितत्वेन तद्धेतु-कार्यतया च ताभ्यामभिन्नत्वात् ||८|| ऋतम्भरादिभिः शब्दैर्वाच्यमेतत्परैरपि । इष्यते गमकत्वं चाऽमुष्य व्यासोऽपि यज्जगौ ।। ९ ।। चाऽवस्थितत्वेन तद्धेतुकार्यतया च = केवलज्ञानहेतुतया श्रुतज्ञानकार्यतया च प्रातिभज्ञानस्य ताभ्यां केवलश्रुतज्ञानाभ्यां अभिन्नत्वात् सर्वथा पृथग्भावविरहात् । तदुक्तं ललितविस्तरायां चतुर्ज्ञानप्रकर्षोत्तरकालभावि केवलज्ञानादधः तदुदये सवित्रालोककल्पमिति न मत्यादिपञ्चकाऽतिरेकेणाऽस्य श्र वणम् । अस्ति चैतद्, अधिकृताऽवस्थोपपत्तेरिति । एतद्विशेष एव प्रातिभम् ← (ल.वि. १६) इति । इदञ्च प्रातिभज्ञानं क्षपक श्रेणिगतस्य ध्यानान्तरिकायां वर्तमानस्य केवलज्ञानोत्पत्तिपूर्वक्षणे काष्ठाप्राप्तप्रकर्षशालि भवति । अनुभवज्ञानं ज्ञानयोग इत्यादयः स्वदर्शने तत्पर्यायाः स्मृताः ।
यत्तु प्रकृतग्रन्थकृतैव ज्ञानसारे सन्ध्येव दिन-रात्रिभ्यां केवल श्रुतयोः पृथक् । बुधैरनुभवो दृष्टः केवलाऽर्कारुणोदयः । ← ( ज्ञा. सा. २६ / १ ) इत्येवमुक्त्या तस्य ताभ्यां पार्थक्यमावेदितं तत्तु भेदनयार्पणया द्रष्टव्यम् । एतेन योगंजाऽदृष्टजनितः स तु प्रातिभसंज्ञितः । सन्ध्येव दिन-रात्रिभ्यां केवलश्रुतयोः पृथक् ।। ← ( अ. उप. २ / २ ) इति अध्यात्मोपनिषद्वचनमपि समाहितं वेदितव्यम् ।
ननु मास्तु प्रातिभस्य श्रुतज्ञानत्वं केवलज्ञानत्वं वा तथापि मतिज्ञानविशेषत्वं तु स्यादेव, मतिज्ञानस्याऽभिलाप्याऽनभिलाप्योभयविधभावविषयकत्वात्, तथाविधश्रुताऽभ्यासविकलानामपि माषतुषादीनां तत्काल एव तथाविधक्षयोपशमविशेषोपहितस्य श्रुतग्रन्थानुसरणशून्यस्य प्रातिभस्योपलम्भाच्च । इत्थमेव ज्ञानपञ्चकविभागस्य नन्दिसूत्रादिदर्शितस्याऽस्खलद्वृत्त्योपपत्तेरिति चेत् ? सत्यम्, निरुक्तरीत्याऽभेदनयार्पणया तस्य मतिविशेषरूपताऽस्माकमभिमतैव । इदमेवाभिप्रेत्य व्युत्पत्त्यर्थपुरस्कारेण प्रकृतग्रन्थकृतैव षोडशकवृत्तौ प्रतिभैव प्रातिभम्, अदृष्टार्थविषयो मतिज्ञानविशेषः ← ( षोड. १५ / ६ वृ.) इत्युक्तम् । एतेन प्रतिभा उपदेशादिनैरपेक्ष्येण सूक्ष्मादीनां मानसं यथार्थज्ञानम्, तत्सामर्थ्यं = प्रातिभम् ← ( यो. वा. १ / ३६ ) इति योगवार्तिककृतो विज्ञानभिक्षोर्वचनमपि व्याख्यातम् । इहाऽपि पूर्वं 'अयं मार्गानुसारिप्रकृष्टोहस्यैव विषयः न तु वाचामि त्वेवं ( द्वा. द्वा. १९/७, पृ. १२७८) प्रातिभज्ञानगम्यसामर्थ्ययोगस्य मार्गानुसारिप्रकृष्टोहगम्यप्रतिपादनेन प्रातिभस्य मतिविशेषरूपतैव दर्शिता । न चैवं सत्यत्र तस्य मतिकेवलाभ्यामेव पृथक्त्वाऽपृथक्त्वमीमांसा कर्तुं युज्यते, न तु श्रुत- केवलाभ्याम्, अप्रसक्तत्वादिति शङ्कनीयम्, क्षपकश्रेणौ सर्वेषां चतुर्दशपूर्वश्रुतक्षयोपशमोत्पादाऽऽदेशापेक्षया प्रातिभस्य श्रुतात्पृथक्त्वाऽपृथक्त्वमीमांसाया अपि न्याय्यत्वात्, → अक्खरलंभेण समा ऊणहिया होंति मइविसेसेहिं । ते वि य मईविसेसे सुयनाणब्भंतरे जाण ।। ← (वि.आ.भा. १४३, नि. भा. ४८२५) इति पूर्वोक्तविशेषावश्यकभाष्य-निशीथभाष्यदर्शितदिशा श्रुतकेवलिषट्स्थानपतितत्वप्रयोजकमतिविशेषाणामिव क्षपकश्रेणिगतस्य प्रातिभस्य लिङ्ग-शब्दादिनिरपेक्षस्य मतिविशेषत्वेऽपि प्रकृष्टशास्त्रयोगोत्तरलभ्यतया श्रुतज्ञानप्रविष्टत्वसम्भवाच्चेत्यस्माकमाभाति ।।१९/८ ।। પણ શ્રુતજ્ઞાનની ઉત્તરકોટિમાં અને કેવલજ્ઞાનની પૂર્વકોટિમાં = પૂર્વકાળમાં રહેલ હોવાના કારણે તેમ જ કેવલજ્ઞાનનું કારણ અને શ્રુતજ્ઞાનનું કાર્ય હોવાથી પ્રાતિભજ્ઞાન શ્રુત-કેવલથી અભિન્ન છે. (૧૯/૮) ૢ પ્રાતિભજ્ઞાન = ऋतंभरा
ગાથાર્થ :- આ પ્રાતિભજ્ઞાન અન્ય દર્શનીઓ વડે પણ ઋતંભરા વગેરે શબ્દો દ્વારા કહેવાય છે.
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
=
१२८१