SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ १२८० • प्रातिभस्य प्रसिद्धज्ञानसमावेशविमर्शः • द्वात्रिंशिका-१९/८ रात्रेरिति । यथाऽरुणोदयो रात्रेर्दिनादपि पृथग् नो वाऽपृथगित्यर्थः । न पुनरत्रैकरूप्यं विवेचयितुं शक्यते, पूर्वापरत्वाऽविशेषेणोभयभागसम्भवात् । श्रुतात् केवलज्ञानाच्च तथेदमपि प्रातिभं ज्ञानं भाव्यतां, तत्काल एव तथाविधक्षयोपशमभाविनस्तस्य श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यतया श्रुताद् अशेषद्रव्यपर्यायाऽविषयत्वेन क्षायोपशमिकत्वेन च केवलज्ञानाद्विभिन्नत्वात् । केवलश्रुतपूर्वा= नैव अत्र = अरुणोदये ऐकरूप्यं = सर्वथा रात्रि-दिनाऽन्यतरैकमात्रस्वरूपत्वं विवेचयितुं = तदन्यविवेकेन निरूपयितुं शक्यते । न चाऽर्काऽनुदयेनाऽरुणोदयस्य रात्रावन्तर्भावसम्भव इति वक्तव्यम्, तथापि 'नाधुना दिन' इति विवेकस्याऽशक्यत्वात् । एतेन प्रकाशसत्त्वाद् दिवाऽन्तर्भाव इत्यपि परास्तम्, तथाप्यर्काऽभावेन 'नेदानीं निशेति व्यवहारविवेकस्य दुरुपपादत्वात् । न च दिनपूर्वभागरूपत्वेनाऽस्य दिने एवान्तर्भावसम्भव इति वाच्यम्, एवं सति रात्रिपश्चिमभागरूपत्वेन रात्रावन्तर्भावस्याऽनपलपनीयत्वापत्तेः, पूर्वापरत्वाविशेषेण = दिनपूर्वरूपता-निशान्त्यरूपतयोस्तुल्यतया उभयभागसम्भवात् = रात्रिंदिवोभयांऽशसम्भवात् । न चाऽरुणोदयस्य दिवसपूर्वकालीनतया दिवसांशतैव सतीति वक्तुं शक्यते, विनिगमकविरहेण निशोत्तरकालीनतया रात्र्यंशरूपतैव सती तत्रेत्यस्याऽपि प्रत्याख्यातुमशक्यत्वात् । न हि दिनपूर्वरूपतायामस्ति निशान्त्यरूपतायाः सकाशात् कश्चिद् विशेषो येनाऽरुणोदये दिनांशरूपतैव प्रामाणिकीति वक्तुं पार्यते। अत एवाऽरुणोदयो न सर्वथा रात्रि-दिवाऽतिरिक्तो, न वा सर्वथैव तयोरेक एव । तथा = तेनैव प्रकारेण प्रातिभमपि ज्ञानं श्रुतात् केवलज्ञानाच्च न सर्वथा पृथक् न वा सर्वथैवाऽपृथगिति विद्वद्भिः भाव्यताम् । तथाहि- तत्काल एव = क्षपकश्रेणिप्रारम्भकाल एव तथाविधक्षयोपशमभाविनः = तथाविधशास्त्राऽभ्यासमन्तरेणाऽपि उल्बणक्षयोपशमविशेषजनितस्य तस्य = प्रातिभज्ञानस्य श्रुतत्वेन तत्त्वतः = परमार्थतः असंव्यवहार्यतया = सार्वलौकिकस्वारसिकव्यवहाराऽनर्हतया श्रुताद् विभिनत्वात् = अपृथग्भावविरहात् । न च तर्हि केवलज्ञानमेव तदस्तु इति वाच्यम्, अशेषद्रव्य-पर्यायाऽविषयत्वेन = कृत्स्नद्रव्य-गुण-पर्यायाऽनवगाहितया क्षायोपशमिकत्वेन = क्षयोपशमविशेषजन्यत्वेन च तस्य केवलज्ञानात् विभिन्नत्वात् = अपृथग्भावविरहात् । न चैवं षष्ठज्ञानप्रसङ्गः प्रागुक्तोऽनिवारितप्रसर एव स्यादिति शङ्कनीयम्, केवल-श्रुतपूर्वाऽपरकोटिव्यवस्थितत्वेन = केवलज्ञानपूर्वकोटौ श्रुतज्ञानाऽन्त्यकोटौ ટીકાર્થ:- જેમ અરુણોદય રાત્રિથી કે દિવસથી પણ સર્વથા ભિન્ન નથી કે સર્વથા અભિન્ન નથી. ખરેખર અરુણોદયમાં ફક્ત રાતરૂપતા કાંઈ દિવસાત્મકતાથી જુદી પાડી શકાતી નથી કે અરુણોદયગત દિવસાત્મકતા કાંઈ રાતરૂપતાથી જુદી કરીને દેખાડી શકાતી નથી. કારણ કે દિવસની પૂર્વમાં હોવાથી જેમ અરુણોદયમાં દિવસનો અંશ સંભવે છે તેમ રાત્રિના અંતે અરુણોદય થવાના કારણે તેમાં રાત્રિનો ભાગ પણ સંભવે છે. દિવસ પૂર્વતા કે રાત્રિની ઉત્તરકાલીનતા-આ બે ગુણધર્મોમાં કોઈ એવો ફરક નથી કે અરુણોદયને એક સ્વરૂપ માની શકાય અને બીજા સ્વરૂપે માની ન શકાય-આ બાબતમાં વિચારણા કરવી. ક્ષપકશ્રેણિના સમયે જ તથાવિધ ક્ષયોપશમ પ્રગટવાથી ઉત્પન્ન થનાર પ્રતિભજ્ઞાન પરમાર્થથી શ્રુતજ્ઞાન તરીકે વ્યવહાર કરવા લાયક નથી. તેથી તે શ્રુતજ્ઞાનથી ભિન્ન છે. તે જ રીતે તમામ દ્રવ્ય-પર્યાયને પોતાનો વિષય ન બનાવવાના કારણે તથા ક્ષાયોપથમિક હોવાના કારણે તે પ્રાતિજજ્ઞાન કેવલજ્ઞાનથી ભિન્ન છે. તેમ છતાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy