________________
• ज्ञानयोगमीमांसा •
१२७९ ननु प्रातिभमपि श्रुतज्ञानमेव, अन्यथा षष्ठज्ञानप्रसङ्गात्तथा च कथं शास्त्राऽतिक्रान्तविषयत्वमस्येत्यत आह- तत् = प्रातिभं हि केवलाऽर्कतः = केवलज्ञानभानुमालिनः प्राच्यं = पूर्वकालीनं अरुणोदयकल्पम् ।।७।। एतदेव भावयतिरात्रेर्दिनादपि पृथग्यथा नो वाऽरुणोदयः । श्रुताच्च केवलज्ञानात्तथेदमपि भाव्यताम् ।।८।। दासीनशुद्धस्वात्मद्रव्यगोचराऽपरोक्षानुभूतिमात्रसंवेद्यत्वात् । तदुक्तं योगदृष्टिसमुच्चये → प्रातिभज्ञानसङ्गतः सामर्थ्ययोगोऽवाच्योऽस्ति सर्वज्ञत्वादिसाधनम् + (यो.दृ.स.८) इति ।
ननु सामर्थ्ययोगगमकं प्रातिभमपि श्रुतज्ञानमेव, अन्यथा = तस्य तत्राऽनन्तर्भावे षष्ठज्ञानप्रसङ्गात् । ततश्च → नाणं पंचविहं पन्नत्तं । तं जहा- आभिनिबोहियनाणं, सुयनाणं, ओहिनाणं, मणपज्जवनाणं, केवलनाणं ८ (नं.सू.७) इति नन्दिसूत्रप्रदर्शितज्ञानविभागव्याघातप्रसङ्गः स्यात्, न्यूनत्वदोषात् । न चैतदिष्टम् । न चैतत् केवलज्ञानं, तस्य प्रातिभगम्यसामर्थ्ययोगकार्यत्वात् । अतः तस्य श्रुतान्तर्भावः कार्यः । तथा च = सामर्थ्ययोगगमकस्य प्रातिभस्य श्रुताऽन्तःपातित्वे च कथं शास्त्राऽतिक्रान्तविषयत्वं = शास्त्राऽगम्यविषयकत्वं अस्य = सामर्थ्ययोगस्य स्यात् ? इत्यत आह- प्रातिभं हि ज्ञानयोगाऽपराभिधानं केवलज्ञानभानुमालिनः पूर्वकालीनं = इतरकारणाऽपेक्षया आसन्नतमपूर्वकालिकं अरुणोदयकल्पं कैवल्यमनुत्पाद्य नोपरमति, श्रुतज्ञानं त्वेकमपि पदं नाऽनुवर्तते । तदुक्तं अध्यात्मोपनिषदि → पदमात्रं हि नाऽन्वेति शास्त्रं दिग्दर्शनोत्तरम् । ज्ञानयोगो मुनेः पार्थमाकैवल्यं न मुञ्चति ।। - (अ.उप. २/३) इति । अत एव तस्याऽमोघत्वमुच्यते । एतेन → प्रातिभं जायते ज्ञानमविसंवादि तात्त्विकम् - (ब्र.सि.स.३८०) इति ब्रह्मसिद्धान्तसमुच्चयवचनमपि व्याख्यातं द्रष्टव्यम् ।।१९/७।।
योगदृष्टिसमुच्चयवृत्त्यनुसारेण एतदेव = प्रातिभस्याऽरुणोदयकल्पत्वमेव भावयति- 'रात्रे रिति । यथा = येन प्रकारेण अरुणोदयो रात्रेर्दिनादपि वा सर्वथा न पृथग् नो वा सर्वथाऽपृथग् । न पुनः
હ પ્રાતિજજ્ઞાનસ્વરૂપ વિશે મીમાંસા છે ननु. → मी मे प्रश्न थाय छ : 'प्रतिमान शास्त्रोत. पांय नमांथ. , शान छ ?' આ પ્રશ્નના પ્રત્યુત્તરમાં તેને શ્રુતજ્ઞાનસ્વરૂપ જ માનવું વધારે ઉચિત છે- એવું જણાય છે. કારણ કે તેવું માનવામાં ન આવે તો પ્રતિભજ્ઞાન મતિ-શ્રુત-અવધિ-મન:પર્યવ-કેવલજ્ઞાનથી ભિન્ન છઠ્ઠ જ્ઞાન માનવાની સમસ્યા સર્જાશે. આથી પ્રાતિજજ્ઞાનને શ્રુતજ્ઞાનરૂપે માનવું જો જરૂરી જ હોય તો પ્રાતિજજ્ઞાનગણ્ય સામર્થ્યયોગ વાસ્તવમાં શ્રુતજ્ઞાનગમ્ય = શાસ્ત્રવિષય જ છે-એવું સિદ્ધ થાય છે. તો સામર્થ્યયોગનો વિષય શાસ્ત્રાતીત છે - એવું કઈ રીતે કહી શકાય ? ૯ આવી કોઈ વ્યક્તિની શંકાનું નિરાકરણ કરવા માટે ગ્રંથકારશ્રી કહે છે કે પ્રાતિજજ્ઞાન કેવલજ્ઞાનસ્વરૂપ સૂર્યના આગમન પૂર્વે થનાર અરુણોદય સમાન छे. (१४/७)
આ જ વાતનું સમર્થન કરતાં ગ્રંથકારશ્રી કહે છે કે
ગાથાર્થ :- જેમ અરુણોદય રાત કે દિવસથી જુદો નથી તેમ પ્રતિભાન પણ શ્રુતજ્ઞાનથી કે उक्सानथी. सर्वथा शुटुं नथी - मा प्रभारी विया२j. (१८/८) १. हस्तादर्श ‘केला...' इति त्रुटितः पाठः । २. हस्तादर्श 'तथेदमिति...' इति पाठः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org