SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ • सामर्थ्ययोगस्य शास्त्रातिक्रान्तगोचरता • १२७७ भावात्, सर्वसिद्ध्युपायज्ञानस्य सार्वश्यव्याप्यत्वाच्च । तदिदमुक्तं- "सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा न तत्त्वतः । शास्त्रादेवावगम्यन्ते सर्वथैवेह योगिभिः ।। सर्वथा तत्परिच्छेदात्साक्षात्कारित्वयोगतः। तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाऽऽप्तितः ।।” (यो.दृ.स. ६-७) ।।६।। प्रकृत एव हेत्वन्तरमाह- सर्वसिद्ध्युपायज्ञानस्य व्यावर्णितस्वरूपस्य सार्वइयव्याप्यत्वाच्च = सर्वज्ञत्वनिष्ठव्यापकतानिरूपितव्याप्तिशालित्वाच्च । न ह्यसर्वज्ञस्य सर्वेषां सिद्धिहेतूनां सर्वथैव ज्ञानं सम्भवति, सम्भवे वाऽसर्वज्ञत्वव्याघाताऽऽपत्तेः, मुक्तिप्रसङ्गाच्च । अत्र कारिकायुगलेन योगदृष्टिसमुच्चयसंवादमाह- 'सिद्ध्याख्येति 'सर्वथेति च । श्रीहरिभद्रसूरिकृता तद्व्याख्यैवम् → सिद्धयाख्यपदसम्प्राप्तिहेतुभेदाः = मोक्षाऽभिधानपदसम्प्राप्तिकारणविशेषाः सम्यग्दर्शनादयः, “किम् ?' इत्याह न तत्त्वतः = न तत्त्वभावेन परमार्थतः शास्त्रादेवाऽवगम्यन्ते। न चैवमपि शास्त्रवैयर्थ्यमित्याह- सर्वथैवेह योगिभिः इति सर्वैरेव प्रकारैः इह लोके साधुभिः, अनन्तभेदत्वात्तेषामिति (यो.दृ.स.६ वृत्ति)। सर्वथा तत्परिच्छेदे शास्त्रादेवाऽभ्युपगम्यमाने दोषमाह- सर्वथा = सर्वैः प्रकारैः अक्षेपफलसाधकत्वादिभिः तत्परिच्छेदात् = शास्त्रादेव सिद्धयाख्यपदसम्प्राप्तिहेतुभेदपरिच्छेदात्, “किम् ?' इत्याह साक्षात्कारित्वयोगतः = केवलेनेव साक्षात्कारित्वेन योगात् कारणात् तत्सर्वज्ञत्वसंसिद्धेः = श्रोतृयोगिसर्वज्ञत्वसंसिद्धेः, अधिकृतभेदानामनेन सर्वथा परिच्छेदयोगात् । ततश्च तदा = श्रवणकाल एव सिद्धिपदाऽऽप्तितः = मुक्तिपदाऽऽप्तेः, अयोगिकेवलित्वस्याऽपि शास्त्रादेव सद्भावाऽवगतिप्रसङ्गादिति - (यो.दृ.स. ७ वृत्ति) । एतावता सामर्थ्ययोगस्य शास्त्रातीतगोचरत्वं समर्थितम् । यथोक्तं स्याद्वादकल्पलतायामपि → न हि शास्त्रादेव मोक्षोपायः कात्स्न्येनावगम्यते, तीव्ररुचेः श्रवणमात्रादेव मोक्षोपायलाभे योगाभ्यासवैयर्थ्यप्रसङ्गात्; उपायविशेषलाभार्थमेव तत्परिशीलनस्य सप्रयोजनत्वात् । न चायमज्ञातो लभ्यते । न च प्रत्यात्म शृङ्गग्राहिकया तद्बोधनाय शास्त्रं व्याप्रियते । न चैवमत्र शास्त्र-वैयर्थ्यम्, दिग्दर्शकत्वात् । इति सिद्धमस्य शास्त्राऽतिक्रान्तविषयत्वम् + (स्या.क.ल.९/२७, पृ.१३१) इति ।।१९/६।। સર્વજ્ઞપણાનું વ્યાપ્ય છે. તેથી “શાસ્ત્ર દ્વારા તમામ મોક્ષહેતનું સમ્યગુ જ્ઞાન જેને થઈ જાય તેને સર્વજ્ઞતા પ્રાપ્ત થયેલ છે' એવું માનવાની સમસ્યા અપરિહાર્ય બનશે. તેથી જ યોગદષ્ટિસમુચ્ચય ગ્રંથમાં શ્રીહરિભદ્રસૂરીશ્વરજી મહારાજાએ જણાવેલ છે કે મોક્ષ નામના પદની પ્રાપ્તિના હેતુના તમામ પ્રકારો યોગી પુરુષો દ્વારા પરમાર્થથી કેવળ શાસ્ત્રના નિમિત્તે જ સર્વથા જણાતા નથી. કારણ કે સર્વથા તેનો શાસ્ત્ર દ્વારા નિર્ણય થઈ જવાથી તેનો સાક્ષાત્કાર થવાના યોગે શાસ્ત્રને સાંભળનારા યોગી પુરુષોને वणाननी सिद्धि थ शे. सने त्यारे ४ भो१५४नी A 25 शे. 6 (१८/६) વિશેષાર્થ - મોક્ષે જવાના અમુક ઉપાયો લાંબા છે, અમુક ઉપાયો ટૂંકા છે, અમુક ઉપાયો તો અતિ ટૂંકા છે. મોક્ષે જતાં પહેલાં અને કેવળજ્ઞાનની પ્રાપ્તિની પૂર્વ ક્ષણે જે કારણ હાજર હોય તેનું જ્ઞાન પણ જો માત્ર શાસ્ત્રશ્રવણથી જ થઈ જતું હોય તો શાસ્ત્ર શ્રવણ કરવાથી જ તેનું જ્ઞાન થઈ જવાથી १. मुद्रितप्रतौ ..प्राप्तेर्हेतु...' इति पाठोऽशुद्धः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy