________________
१२७६
• सर्वसिद्धिहेतूनां शास्त्रगोचरत्वाऽसम्भवः . द्वात्रिंशिका-१९/६ शास्त्रादेव न बुध्यन्ते सर्वथा सिद्धिहेतवः । अन्यथा श्रवणादेव सर्वज्ञत्वं प्रसज्यते ।।६।।
शास्त्रादिति । सिद्धिहेतवः सर्वे सर्वथा = सर्वैः प्रकारैः शास्त्रादेव न बुध्यन्ते । अन्यथा = शास्त्रादेव सर्वसिद्धिहेतूनां बोधे सर्वज्ञत्वं प्रसज्यते श्रवणादेव, सर्वसिद्धिहेतुज्ञाने सार्वज्ञ्यसिद्ध्युपधायकोत्कृष्टहेतुज्ञानस्याप्यावश्यकत्वात्, तदुपलम्भाऽऽख्यस्वरूपाऽऽचरणरूपचारित्रस्याऽपि विलम्बाऽ
सर्वसिद्धिहेतुज्ञाने = मोक्षत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छिन्नवृत्तयो याः स्वरूपयोग्यता-फलोपधायकता-सहकारियोग्यता-समुचितयोग्यतोपादानत्व-निमित्तत्वाऽन्तरङ्गत्व-बहिरङ्गत्वौत्सर्गिकत्वाऽऽपवादिकत्व-सव्यापारत्व-निर्व्यापारत्व-नैश्चयिकत्व-व्यावहारिकत्व-सापेक्षत्व-निरपेक्षत्व-समनन्तरत्व-द्वारत्वकारकत्वाद्याख्याऽखिलहेतुतास्तदवच्छेदकावच्छिन्नप्रकारताकावबोधे प्रामाणिके सति सार्वभ्यसिद्ध्युपधायकोत्कृष्टहेतुज्ञानस्याऽपि = स्वाऽव्यवहितोत्तरक्षणावच्छेदेन कैवल्यनिष्पत्तिकारका ये काष्ठाप्राप्तकारणताऽऽलिङ्गितास्तदवबोधस्याऽपि आवश्यकत्वात् = अवश्यक्तृप्तत्वात्, प्रमाणसिद्धत्वात्, प्रमाणसिद्धावश्यम्भावादिति यावत् ।
ननु ज्ञानादेव न केवलान्मुक्तिः, क्रियाया अपि तत्कारणत्वात् । तदुक्तं क्रियावादिभिः → क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्री-भक्ष्य-भोगज्ञो न ज्ञानात् सुखितो भवेत् ।। - (नयोपदेश१२९) इति । वस्तुतो ज्ञान-चारित्रयोरुभयोरेव सम्मीलितयोः तत्कारणत्वम् । ततश्च सार्वइयसिद्ध्युपधायकोत्कृष्टहेतुज्ञाने सत्यपि चारित्रविरहान्न सर्वज्ञत्वप्रसङ्ग इति चेत्? मैवम्, शास्त्रादेव सर्वथैव सर्वसिद्धिहेतुज्ञाने कैवल्यनिष्पत्त्युपधायकोत्कृष्टहेतुज्ञाने च सति तदुपलम्भाख्यस्वरूपाऽऽचरणरूपचारित्रस्याऽपि = कैवल्यसिद्ध्युपधायकोत्कृष्टहेतुसंवेदनाभिधानस्वरूपरमणतात्मकस्य नैश्चयिकस्य सम्यक्चारित्रस्यापि विलम्बाऽभावात् = कालक्षेपाऽसम्भवात्, अपिशब्देन तत्सम्प्रत्ययाख्यश्रद्धारूपसम्यग्दर्शनमाक्षिप्तम् । अयमत्राशयः- कैवल्यफलोपधायकोत्कृष्टहेतो येऽध्यवसायविशेषाः तेषां सर्वेषामेव शृङ्गग्राहिकयोपलम्भः शास्त्रादेवाऽभ्युपगम्येत तदा सोऽपरोक्षसंवेदनात्मक एव स्यात्, तेषामध्यवसायानामात्मवेद्यत्वात्। तदेव तु स्वरूपाऽऽचरणात्मकमुत्कृष्टं नैश्चयिकं चारित्रम् । तदा स ह्यात्मज्ञानी निजनिर्विकल्पसहज-ध्रुवपूर्ण-शुद्ध-चिदानन्दस्वरूप एव रमते, तदितरनिरपेक्षत्वात् । इत्थं चारित्रविलम्बस्याऽसिद्धत्वात्तदा सर्वज्ञत्वनिष्पत्तिप्रसक्तिरव्याहतप्रसरैव ।
ગાથાર્થ - મોક્ષના હેતુઓ શાસથી જ સર્વથા જણાતા નથી. બાકી તો શાસ્ત્રને સાંભળવા માત્રથી सर्वश५j मावी य. (१८/६)
જ મોક્ષોપાય સર્વથા શાસ્ત્રગમ્ય નથી ટીકાર્ય - તમામ મોક્ષહેતુઓ સર્વથા = એકાંતે = સર્વ પ્રકારે શાસ્ત્રથી જ જણાતા નથી. મોક્ષના તમામ હેતુનું શાસ્ત્રથી જ ભાન થઈ જાય તો બધાને શાસ્ત્રશ્રવણમાત્રથી સર્વજ્ઞપણું પ્રાપ્ત થઈ જવાની સમસ્યા ઊભી થાય. કારણ કે મોક્ષના બધા જ હેતુઓનું શાસ્ત્રશ્રવણથી જ જ્ઞાન થઈ જાય તો (૧) શાસ્ત્રશ્રવણથી કેવલજ્ઞાનને અવશ્ય અનન્તર (= બીજા જ) સમયે ઉત્પન્ન કરે તેવા ઉત્કૃષ્ટ હેતુનું જ્ઞાન પણ થવું આવશ્યક છે. (૨) વળી, મોક્ષઆક્ષેપક ઉત્કૃષ્ટ હેતુનું જ્ઞાન = સંવેદન કરવા રૂપ સ્વરૂપદમણનાત્મક ચારિત્રની પ્રાપ્તિમાં પણ કોઈ વિલંબ થવાની સંભાવના નથી. તથા (૩) મોક્ષના તમામ ઉપાયનું જ્ઞાન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org