________________
• परदर्शनेषु सामर्थ्ययोगोपवर्णनम् •
१२७५
अतिशक्तितः
=
=
शक्तिप्राबल्यात् तदतिक्रान्तविषयः शास्त्राऽतिक्रान्तगोचर: सामर्थ्याख्यो योग उच्यते ।। ५ ।। शास्त्राऽतिक्रान्तविषयत्वमस्य समर्थयन्नाह -
प्रत्येकमनन्तपर्यायोपेताः सम्यग्दर्शनादयो मोक्षस्य हेतुविशेषा न कार्त्स्न्येन तत्स्वरूपमवलम्ब्य परमार्थतो दर्शयितुं शक्यन्ते, अपि त्वतिस्वल्पतत्स्वरूपविशेषमवलम्ब्यैव तत्स्वरूपयोग्यताऽऽख्यहेतुतावच्छेदकधर्ममवलम्ब्यैव वेति ध्येयम् । प्रकृते अनिर्वाच्यं पदं वक्तुं न शक्यं तैः सुरैरपि। स्वात्मप्रकाशरूपं यो त . ७) इति योगतत्त्वोपनिषद्वचनं स्वात्मप्रकाशरूपं तत् निर्मलं शान्तं सर्वातीतं निरामयम् ।। ← ( यो. शि. ५ ) इति
(
तत् किं शास्त्रेण प्रकाश्यते ? ।। ← किं शास्त्रेण प्रकाश्यते ? । निष्कलं च योगशिखोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् ।
शक्तिप्राबल्यात् = निष्कपटं शास्त्रोपदर्शितदिशा सदा यथाशक्ति प्रवर्तनद्वारा प्राप्याद् आत्मसामर्थ्योद्रेकात् शास्त्राऽतिक्रान्तगोचरः = शास्त्र - शास्त्रयोगोभयाऽगम्याऽनुभवमार्गविषयः सामर्थ्याख्यो योग उच्यते । तदुक्तं योगदृष्टिसमुच्चये शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः । शक्त्युद्रेकाद् विशेषेण सामर्थ्याख्योऽयमुत्तमः ।। ← (यो. दृ.स. ५ ) इति । इयं कारिका ललितविस्तरायां कुतश्चिदुद्धृतत्वेनोपदर्शिता श्रीहरिभद्रसूरिभिरित्यवधेयम् । इमामनुसृत्य न्यायविजयेनापि अध्यात्मतत्त्वालोके → शास्त्रादुपायान् विदुषः तो यः शास्त्राऽप्रसाध्यानुभवैकगम्यः । उत्कृष्टसामर्थ्यतयाऽभ्युदेति सामर्थ्ययोगं तमुदाहरन्ति ।। ← (अ.त. ७/७) इत्युक्तम् । प्रकृते शास्त्रोक्तविधिमुल्लङ्घ्य विशेषेण शुभाऽऽशयात् । सामर्थ्ययोगोऽसावेव तीव्राऽवाच्यगुणोदयः ।। ← ( ब्र.सि.स. १९१ ) इति ब्रह्मसिद्धान्तसमुच्चयकारिकाऽप्यनुसन्धेया ।
तदुक्तं ज्ञानसारेऽपि व्यापारः सर्वशास्त्राणां दिक्प्रदर्शनमेव हि । पारं तु प्रापयत्येोऽनुभवो भववारिधेः ।। ← (ज्ञा.सा. २६ / २ ) । प्रकृतयोगत्रितयस्वरूपं स्याद्वादकल्पलतायां योगाचार्यमतानुरोधे पुनरिच्छा-शास्त्र- सामर्थ्ययोगा इष्यन्ते । तत्र ज्ञाताऽऽगमस्याऽपि प्रमादिनः कालादिवैकल्येन चैत्यवन्दनाद्यनुष्ठानमिच्छाप्राधान्यादिच्छायोगः । यथाशक्ति तीव्र श्रद्धया कालाद्यवैकल्येन तदनुष्ठानं च यथाशास्त्रमाचारात् शास्त्रयोगः । शास्त्रदर्शितोपाये शास्त्रदर्शितदिशाऽधिकतरवीर्यमुल्लासयतो मार्गानुसारिप्रकृष्टोहरूपस्वसंवेदनेन जाताऽधिकविवेकस्याऽनुष्ठानं सामर्थ्ययोगः ← (स्या. क. ९/२७ ) इत्येवमावेदितम्। सीतोपनिषदि अपि → इच्छा-ज्ञान-क्रियाशक्तित्रयं यद्भावसाधनम् । तद्ब्रह्मसत्तासामान्यं सीतातत्त्वमुपास्महे ।। ← (सीतो.१) इत्येवं शुद्धब्रह्मस्वरूपसाधनरूपेण इच्छा - शास्त्र-सामर्थ्ययोगानामेवोल्लेखो वर्तत इत्यवधेयं स्वपरतन्त्राऽन्वयकामैः ।।१९/५।।
આશય એ રહેલો છે કે સામાન્યથી શાસ્ત્ર ફળપર્યન્તનો ઉપદેશ આપે છે અને તે ફળની પ્રાપ્તિનો વિશિષ્ટ હેતુ મેળવવાની દિશાનું સૂચન, અવાન્તર હેતુ દેખાડવા દ્વારા શાસ્ત્ર કરે છે. (૧૯/૫)
વિશેષાર્થ :- મોક્ષશાસ્ર મોક્ષનું, મોક્ષના વિશિષ્ટ હેતુનું, અવાન્તર હેતુનું દિગ્દર્શન કરે છે. મોક્ષશાસ્ત્રના દિશાસૂચન મુજબ પુરુષાર્થ કરતાં-કરતાં જ્યારે આત્માનું સામર્થ્ય પ્રબળપણે ઉછળે અને શાસ્ત્રોક્ત વિષયને પણ કૂદીને આત્મા સ્વયંભૂ અખૂટ પ્રચંડ સામર્થ્યથી મોક્ષમાર્ગે આગળ વધે તેમાં આત્માનું સામર્થ્ય પ્રધાન હોવાથી તે સામર્થ્યયોગ કહેવાય છે. (૧૯/૫)
‘સામર્થ્યયોગનો વિષય શાસ્ત્રને ઓળંગી ગયેલ છે' આવું જે જણાવ્યું તેનું સમર્થન કરતાં ગ્રંથકારશ્રી જણાવે છે કે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org