SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ १२७४ • शास्त्रस्य दिग्मात्रदर्शकत्वम् • द्वात्रिंशिका-१९/५ शास्त्रेण दर्शितोपायः फलपर्यवसायिना । तदतिक्रान्तविषयः सामर्थ्याख्योऽतिशक्तितः ।।५।। शास्त्रेणेति । फलपर्यवसायिना = मोक्षपर्यन्तोपदेशेन' •शास्त्रेण दर्शितः = सामान्यतो ज्ञापित उपायो यस्य स तथा (= दर्शितोपायः), सामान्यतः फलपर्यवसानत्वाच्छास्त्रस्य द्वारमात्रबोधनेन विशेषहेतुदिक्प्रदर्शकत्वात् । गर्हणीयमकान्तस्पर्शेषु, प्रतिक्षणं क्षालनीयो विशुद्धभावनयाऽऽत्मा, भवितव्यं सदा सन्तुष्टचित्तेन, समाचरणीयं विचित्रं तपश्चरणं, विधातव्योऽनवरतं पञ्चविधः स्वाध्यायः, प्रणिधेयं परमेश्वरे सततमन्तःकरणं, वर्तितव्यं समितिगुप्तिपरिपूतेन मार्गेण, परिसोढव्याः क्षुत्पिपासादयः परीषहाः, तितिक्षितव्या दिव्याधुपसर्गाः, अभ्यसनीयं धी-धृति-स्मृतिबलाऽऽधानं, यतितव्यमसपत्नयोगेषु (उपमितिभवप्रपञ्चा कथा- प्रस्ता.६/पृ.१३४ उत्तम प्रति सिद्धान्तोक्तिः) इत्येवं वर्तितव्यम् ।।१९/४।। ___ अवसरसङ्गतिप्राप्तं सामर्थ्ययोगं निरूपयति- 'शास्त्रेणे'ति । मोक्षपर्यन्तोपदेशेन = मोक्षात्मकचरमफलपर्यवसानोपदेशदायिना शास्त्रेण सर्वज्ञोपदिष्टेन सामान्यतः = अभिलाप्यकतिपयधर्मपुरस्कारतो ज्ञापितः = आवेदित उपायः = अवन्ध्यहेतुः यस्य स तथा । न च कथं न शास्त्रस्य विशिष्य तज्ज्ञापकत्वम्? इति शङ्कनीयम्, सामान्यतः = सामान्यधर्ममाश्रित्य फलपर्यवसानत्वात् = मोक्षपर्यन्तोपदेशकत्वात् शास्त्रस्य । न चैतदपि कुतः ? इति शङ्कनीयम्, शास्त्रस्य द्वारमात्रबोधनेन = केवलमभिलाप्यकतिपयधर्माभिमुखस्वरूपसंसूचनद्वारा विशेषहेतुदिक्प्रदर्शकत्वात् = मोक्षोत्पादकानां हेतुविशेषाणां शाखाचन्द्रन्यायेन योग-क्षेम-वृद्ध्यादिसम्बन्धिन्या दिश एव ताटस्थ्येन लक्षकत्वात् मार्गदर्शकफलकवत् । अयमत्राशयः - इह द्विविधा भावा अभिलाप्या अनभिलाप्याश्च । तत्र येऽनभिलाप्या तेऽभिधातुं न शक्यन्त इति न शास्त्रनिबद्धाः। तेषामनन्तभागेऽभिलाप्या भावाः । तेषामपि केवलमनन्तभाग एव वचनपर्यायत्वेन श्रुतग्रथितः, अभिलाप्यभावानामप्यनन्तत्वाद्, आयुषः परिमितत्वाच्च । यथोक्तं विशेषावश्यकभाष्ये बृहत्कल्पभाष्ये निशीथभाष्ये च → पण्णवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं । पण्णवणिज्जाणं पुण अणंतभागो सुयनिबद्धो ।। ८ (वि.आ.भा.१४१, बृ.क.९६४, नि.भा.४८२३) इति । ततश्च ' વિશેષાર્થ - શક્તિને છૂપાવીને કે શક્તિનું અતિક્રમણ કરીને આરાધના થાય તે શાસ્ત્રયોગ ન બને. અશ્રદ્ધા કે મંદશ્રદ્ધા, અજ્ઞાન કે મંદજ્ઞાનથી જે આરાધના થાય તે પણ શાસ્ત્રયોગ ન બને. પ્રમાદી જે આરાધના કરે તે પણ શાસ્ત્રયોગ ન બને. પ્રીતિ-ભક્તિઅનુષ્ઠાનની પણ શાસ્ત્રયોગમાંથી બાદબાકી થઈ જાય છે. શક્તિગોપન વગેરે જે યોગમાં ન હોય તે યોગને શાસ્ત્રયોગ કહેવાય. (૧૯૪). જ સામર્થ્યયોગને ઉગાડીએ હ ગાથાર્થ - ફલપર્યન્ત ઉપદેશ દેનાર શાસ્ત્ર વડે જેનો ઉપાય બતાવેલ છે તથા શક્તિની પ્રબળતાથી શાસ્ત્રવિષયનું પણ જે અતિક્રમણ કરનાર હોય તે યોગ સામર્થ્ય નામે કહેવાય છે. (૧૯૫) ટીકાર્ય - મોક્ષ સ્વરૂપ ફળ સુધીનો ઉપદેશ કરનાર શાસ્ત્ર વડે જેનો ઉપાય સામાન્યથી જણાવેલ છે તથા શક્તિની પ્રબળતાના લીધે શાસ્ત્રના વિષયને પણ જે ટપી ગયેલ છે તે સામર્થ્ય નામનો યોગ કહેવાય છે. સામર્થ્યયોગનો ઉપાય મોક્ષશાસ્ત્ર દ્વારા સામાન્યરૂપે બતાવાયેલ છે. એવું કહેવાની પાછળ ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. हस्तादर्श ....देशेन न' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy