________________
• शास्त्रयोगप्राप्त्युपायोपदर्शनम् .
१२७३ यथाशक्तीति । यथाशक्ति = स्वशक्त्यनतिक्रमेण अप्रमत्तस्य = विकथादिप्रमादरहितस्य, तीव्रौ= 'तथाविधमोहापगमात् पटुतरौ यौ श्रद्धाऽवबोधौ जिनप्रवचनास्तिक्य-तत्त्वपरिच्छेदौ ततः (तीव्रश्रद्धावबोधतः) अखण्डाऽर्थाऽराधनात् = कालाद्यविकलवचनानुष्ठानात् तु शास्त्रयोग उपदिश्यते।।४।। प्रभृतिसामर्थ्याऽनुल्लङ्घनेन । अनेन तथाविधस्थविरकल्पिनोऽपि शास्त्रयोगः सूचितः, निजशक्त्यतिक्रमेणाऽनुष्ठानप्रवृत्तस्य शिवभूत्यादेर्बहिर्भावश्च । तथाविधाप्रमत्तताया अखण्डार्थाराधनाप्रयोजकत्वमत्रावसेयम् । तथाविधमोहाऽपगमात् = उच्चतरसंयमस्थानाध्यवसायकण्डकप्रापकात् मोहनीयक्षयोपशमविशेषात् पटुतरौ = अनुष्ठानगताऽतिक्रमव्यतिक्रमादिसूक्ष्मदोष-परिणतिगतकर्तृत्वभावादिलक्षणाऽतिसूक्ष्मदोषाऽऽभोगनिपुणौ जिनप्रवचनाऽऽस्तिक्य-तत्त्वपरिच्छेदौ = सार्वदिक-सार्वत्रिक-सार्वजनीनतीर्थकराज्ञा-प्रज्ञापनागोचरसम्प्रत्ययात्मकाऽभ्युपगम-नैश्चयिकव्यावहारिकनवतत्त्वगोचरयथावस्थितसंवेदनात्मकनिश्चयौ योगगतशास्त्रप्राधान्यप्रयोजकौ । शिष्टं स्पष्टम् । अत्र ह्यर्थतः स्वशक्त्यतिरेक-तन्निगृहनाऽश्रद्धा-मन्दश्रद्धाऽज्ञान-सन्देह-विपर्ययाऽपटुसद्बोध-विकथादिप्रमाद-कालाद्यङ्गवैकल्ये प्रीत्यनुष्ठान-भक्त्यनुष्ठानादिपरिकलितत्वे वा शास्त्रयोगो व्यवच्छिद्यत इत्यवधेयम् । अध्यात्मतत्त्वालोकेऽपि → श्रद्धान-बोधौ दधतः प्रशस्तौ प्रमादवर्जस्य यथाऽऽत्मशक्ति । यो धर्मयोगो वचनानुसारी स शास्त्रयोगः परिवेदितव्यः ।। 6 (अ.तत्त्वा.७/६) इत्युक्तम् । यथोक्तं ब्रह्मसिद्धान्तसमुच्चये हरिभद्रसूरिभिः अपि → शास्त्रयोगः पुन यो यथाशास्त्रं स एव हि । कायादिसंयमोपेतः अव्याक्षिप्तस्य भावतः ।। (ब्र.सि.स.१९०) 6 इति ।। योगदृष्टिसमुच्चयेऽपि तैरेव → शास्त्रयोगस्त्विह ज्ञेयो यथाशक्त्यप्रमादिनः । श्राद्धस्य तीव्रबोधेन वचसाऽविकलस्तथा ।। - (यो.दृ. स.४) इत्यावेदितमिति पूर्वोक्तं(पृ.१७४) स्मर्तव्यम् । इयं कारिका ललितविस्तरायामप्युद्धृता । __शास्त्रयोगजिघृक्षुणा तु सामान्यतः सिद्धर्षिगणिदर्शितरीत्या → प्रथममेव प्रष्टव्या गुरवः, सम्यगनुष्ठेयस्तदुपदेशः, विधेयाऽऽहिताग्निनेवाग्नेस्तदुपचर्या, कर्तव्यं धर्मशास्त्रपारगमनं, विमर्शनीयस्तात्पर्येण तद्भावार्थः, जनयितव्यस्तेन चेतसोऽवष्टम्भः, अनुशीलनीया धर्मशास्त्रे यथोक्ताः क्रियाः, पर्युपासनीयाः सन्तः, परिवर्जनीयाः सततमसन्तः, रक्षणीयाः स्वरूपोपमया सर्वजन्तवः, भाषितव्यं सत्यं सर्वभूतहितमपरुषमनतिकाले परीक्ष्य वचनं, न ग्राह्यमणीयोऽपि परधनमदत्तं, विधेयं सर्वासामस्मरणमसङ्कल्पनमप्रार्थनमनिरीक्षणमनभिभाषणं च स्त्रीणां, कर्तव्यो बहिरङ्गान्तरङ्गसङ्गत्यागः, धारणीयः संयमोपकारी महायतिवेषः, यापनीयं नवकोटीविशुद्धेनाहारोपधिशय्यादिनाऽऽत्मशरीरं, विहर्तव्यमनियतविहारेण, न दातव्यस्तन्द्रा-निद्राऽऽलस्य-विषादादीनामवकाशः, न मूर्छितव्यं मृदुस्पशेषु, न गर्धितव्यं स्वादुरसेषु, न मोहितव्यं सुरभिगन्धेषु, नाध्युपपत्तव्यं कमनीयरूपेषु, नाऽभिकाङ्क्षितव्यं कलध्वानेषु, नोद्वेजितव्यं कर्कशशब्देभ्यः, न जुगुप्सनीयानि बीभत्सरूपाणि, न द्वेष्टव्यममनोज्ञरसेषु, न निन्दितव्या दुरभिगन्धाः, न
ટીકાર્ય - પોતાની શક્તિ છૂપાવ્યા વિના કે શક્તિનું ઉલ્લંઘન કર્યા વિના વિકથાદિ પ્રમાદથી રહિત એવો સાધક અમુક કક્ષાનો મલિન મોહ દૂર થવાના લીધે અત્યંત પટુ-કુશળ એવી જિનવચનશ્રદ્ધા અને પટુ એવા તત્ત્વનિશ્ચયનું અવલંબન લઈને કાલ વગેરેથી અવિકલ | અખંડ એવું જે વચનાનુષ્ઠાન ३३. ते शस्त्रयोग डेवाय छे. (१८/४) १. मुद्रितप्रतौ 'तथात्रिध...' इत्यशुद्धः पाठः । २. हस्तादर्श ‘पटुतमो' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org