________________
• प्रधानस्येच्छायोगत्वेऽमस्यापीच्छायोगता •
१२७१ साङ्गमिति । साङ्गमपि = अङ्गसाकल्येनाऽविकलमपि एककं = स्वल्पं किञ्चित् कर्म प्रतिपन्ने = बहुकालव्यापिनि प्रधाने कर्मण्यादृते प्रमादिनः = प्रमादवतः 'नत्वेच्छायोगत' (यो.दृ.स.१) इति श्रवणादत्र = इच्छायोगे नि(?)मज्जति = निमग्नं भवति । अन्यथा हीच्छायोगाधिकारी भगवान् हरिभद्रसूरिोगदृष्टिसमुच्चयप्रकरणप्रारम्भे मृषावादपरिहारेण सर्वत्रौचित्याऽऽरम्भप्रदर्शनार्थं नत्वेच्छायोगतोऽयोगमि'त्यादि नाऽवक्ष्यत्', वाग्नमस्कारमात्रस्याऽल्पस्य विधिशुद्धस्यापि सम्भवात्।
ननु प्रमादिनोऽपि चारित्रिणो यत्किञ्चित्स्वल्पकालीनमनुष्ठानमविकलं सम्भवत्येव । तच्च कस्मिन् योगे समाविशति ? अत्रोच्यते, प्रधानस्य = दीर्घकालव्यापिनोऽनुष्ठानस्य स्वाऽङ्गीकृतस्य इच्छायोगत्वे = इच्छायोगान्तर्भूतत्वे तु तदङ्गस्याऽपि = प्रधानघटकस्याऽपि तथात्वं = इच्छायोगत्वं एव, न तु शास्त्रयोगत्वं इति दर्शयन् ग्रन्थकार आह- ‘साङ्गमि'ति । बहुकालव्यापिनि = दीर्घतरकालावच्छिन्नकर्तव्यताके प्रधाने = मुख्ये कर्मणि = देश-सर्वचारित्रादौ आदृते = स्वप्रतिपन्ने प्रमादवतः = प्रमाद्यतः तु प्रयोजनवशतः अङ्गसाकल्येन = स्वपरिकरकलापयुक्तत्वेन अविकलमपि = सम्पूर्णमपि स्वल्पं किञ्चित् नमस्कारादिकं कर्म = अनुष्ठानं इच्छायोगे एव निमग्नं भवति, 'नत्वेच्छायोगत' इति श्रवणात् = → 'नत्वेच्छायोगतोऽयोगं योगिगम्यं जिनोत्तमम्' 6 (यो.दृ.१) इत्येवं योगदृष्टिसमुच्चयप्रकरणप्रारम्भे उपलम्भात् । तद्वृत्तिलेशस्त्वेवम् → नत्वा = प्रणम्य वीरमिति योगः । कथमित्याह- इच्छायोगतः इति क्रियाविशेषणमाह ‘इच्छायोगेन' । शास्त्रयोग-सामर्थ्ययोगव्यवच्छेदार्थमेतत् । इष्टव्यवच्छेदश्चायं तदनधिकारित्वेन प्रकरणकारस्य मृषावादपरिहारेण सर्वत्रौचित्याऽऽरम्भप्रवृत्तिदर्शनार्थः - (यो.दृ.स. १ वृत्ति) इति । विपक्षदण्डमाह- अन्यथा = स्वप्रतिपन्नप्रधानाऽनुष्ठानगोचरप्रमादवता क्रियमाणस्याऽविकलस्य यस्य कस्यचित् स्वल्पकालीनस्यानुष्ठानविशेषस्य वक्ष्यमाणशास्त्रयोगान्तर्भावाऽभ्युपगमे 'ही'त्यादि स्पष्टम् । ग्रन्थारम्भे वाग्नमस्कारमात्रस्य = केवलवाचिकप्रणामस्य अल्पस्य = स्वल्पकाल-यत्नादिसम्पाद्यस्य विधिशुद्धस्याऽपि = विधि-यतनोपयोगाऽऽदराद्यविकलस्याऽपि सम्भवात् । न चैवं कालादिवैकल्यविरहात् कथं न तस्येच्छायोगसीमाऽतिक्रान्तत्वम् ? इति शङ्कनीयम्, यतः प्रकृतनमस्कारस्याऽपि = योगदृष्टिसमुच्चयप्रकरणप्रारम्भकालीनस्य श्रीहरिभद्रसूरिकृतस्य प्रणामस्याऽपि प्रतिपन्नस्वपर्यायान्तर्भूतत्वेन = श्रीहरिभद्रसूरि
મુખ્યયોગ ઇચ્છાયોગ તો શેષ યોગો પણ તેવા છે. ટીકાર્ય - દીર્ઘકાલવ્યાપી એવા મુખ્ય સ્વીકૃત યોગમાં પ્રમાદ કરનાર એવા સાધકનો એકાદ યોગ, તેના ઘટક અંગોથી સંપૂર્ણ હોવાના કારણે, અખંડ-અવિકલ હોય તો પણ તે અંગસહિત = સંપૂર્ણ યોગનો સમાવેશ ઈચ્છાયોગમાં થાય છે. કારણ કે યોગદૃષ્ટિસમુચ્ચયમાં “ઇચ્છાયોગથી નમસ્કાર કરીને...' ઇત્યાદિ સંભળાય છે. બાકી તો ઇચ્છાયોગના અધિકારી એવા ભગવાન શ્રી હરિભદ્રસૂરીશ્વરજી મહારાજે યોગદૃષ્ટિસમુચ્ચય પ્રકરણના પ્રારંભમાં “મૃષાવાદનો પરિહાર કરીને સર્વત્ર ઔચિત્યવાળી પ્રવૃત્તિ શરૂ કરવી જોઈએ' આવું દેખાડવા માટે “ઈચ્છાયોગથી નમસ્કાર કરીને...' ઇત્યાદિ કહ્યું ન હોત. કારણ કે માત્ર વચનયોગથી થતો નમસ્કાર તો અતિઅલ્પ પ્રવૃત્તિસ્વરૂપ હોવાથી વિધિવિશુદ્ધ પણ સંભવે છે. આમ પોતે સ્વીકારેલ સર્વવિરતિ
१. 'अवक्षत्' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org