SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ • इच्छायोगस्य व्याख्याद्वैविध्यम् • १२६९ श्रुतागमस्य,' अर्थ्यतेऽनेन तत्त्वमिति कृत्वा, अर्थशब्दस्याऽऽगमवचनत्वात् । ज्ञानिनोऽपि अवगतानुष्ठेयतत्त्वार्थस्याऽपि प्रमादिन विकथादिप्रमादवतः (कालादिविकलः = ) कालादिना = असम्पूर्णः योगः चैत्यवन्दनादिव्यापार इच्छायोग उदाहृतः प्रतिपादितः || २ | मिच्छायोगोत्कर्षाधायकमवगन्तव्यम् । द्रव्य-क्षेत्र - काल-विधि-यतनोत्सर्गापवादादिना अवगताऽनुष्ठेयतत्त्वार्थस्य | अनुष्ठातुरिदं तृतीयं विशेषणमिच्छायोगशुद्धयुत्कर्षकाष्ठाप्रयोजकमवसेयम् । अपिः विशेषद्योतने । तमेव द्योतयति- विकथादिप्रमादवतः विकथा-निद्रा-विषय-कषायादिप्रमाद = विकलः = = = ग्रस्तस्य । कर्तुरिदं विशेषणं शास्त्रोपसर्जनभावेन योगगतेच्छाप्राधान्यप्रयोजकम् । कर्तुः प्रकृतविशेषणविरहे त्वयं योगो वर्धमानविशुद्ध्या शास्त्रयोगमुपस्पृशेदपि । = कालादिना = समुचितकाल - मुद्राऽऽसन- सूत्राऽर्थोपयोगादिना असम्पूर्णः, शङ्का-काङ्क्षा-विचिकित्सादृष्टिमूढतादिदूषितो वा चैत्यवन्दनादिव्यापारः इच्छायोगः प्रतिपादितः योगशास्त्रविशारदैः । एवमेव कालविनय बहुमानोपधानानिह्नव-व्यञ्जनार्थोपयोगादिविकलः पञ्चविधः स्वाध्यायोऽपीच्छायोगे एवान्तर्भावनीयः । इच्छाप्रधानत्वञ्चास्याऽकालादावपि करणात् । ततश्च समुचितकाल-विधि-यतनाऽऽदरोपयोगादिवैकल्येन निर्दम्भं विधीयमानो धर्मव्यापार इच्छायोग इति तल्लक्षणं फलितम् । 'इच्छैव योग' इति विग्रहेण प्रमादादाऽऽचारवैकल्येऽपि तदभिलाषस्यैव सद्द्बोधादिजनितस्य कालान्तरीयसाधनविधिसम्पादकस्याऽत्रेच्छायोगत्वमिति न्यायविजयाभिप्रायः इच्छा च शास्त्रं च समर्थता चेत्येषोऽपि योगो मत आदिमोऽत्र । प्रमादभाजोऽपि सुबोधभाजो यो योग्यधर्माऽऽचरणेऽभिलाषः ।। ← ( अ.त. ७/५ ) इति अध्यात्मतत्त्वालोकवचनादवसीयते । इदञ्चात्रावधेयम्- गृहीतप्रव्रज्याणामपि संयमातिचारपरिहारौपयिकयतनाविशेषे सत्येव वक्ष्यमाणशास्त्रयोगसम्भवः । स च यतनाविशेषो यतनावरणीयकर्मक्षयोपशमविशेषलभ्यः । तदुक्तं भगवत्यां गोयमा ! जस्स णं जयणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा णं केवलिस्स वा जाव केवलेणं संजमेणं संजमेज्जा, जस्स णं जयणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ से णं असोच्चा केवलिस्स जाव केवलेणं संजमेणं नो संजमेज्जा ← (भग. ९ / ४ / सूत्र - ३६५ ) इति । अत्र કાલ વગેરેથી વિકલ ખામીયુક્ત હોય તો તે ઇચ્છાયોગ કહેવાયેલ છે. ‘શ્રુતાર્થસ્ય’ પદમાં જે ‘અર્થ’ શબ્દ છે તેનો અર્થ આગમ થાય છે. કારણ કે ‘અર્થાતે તત્ત્વ અનેન’ આ વ્યુત્પત્તિ મુજબ ‘જેના દ્વારા તત્ત્વ ઇચ્છાય તે અર્થ' આ પ્રમાણે તેનું સ્વરૂપ જણાય છે. આગમ દ્વારા તત્ત્વ જાણવાની ઇચ્છા થાય छे. भाटे अर्थ = आगम. (१८/२) વિશેષાર્થ :- જે કાળે જે આરાધના કરવાની હોય તે આરાધના તે સમયે ન કરવામાં આવે પણ આગળ-પાછળના સમયે કરવામાં આવે તો તે આરાધનાયોગ કાલવિકલ કહેવાય. દા.ત. અકાળે કાળવેળાએ કે અસ્વાધ્યાયસમયે કરવામાં આવતો સ્વાધ્યાય. તે જ રીતે ગુરુવિનય કર્યા વિના થતો = Jain Education International = १. हस्तप्रती मुद्रितप्रतौ च 'अर्यत' इत्यशुद्धः पाठः । परमग्रेतनव्याख्यानुसारेण योगदृष्टिसमुच्चयवृत्त्यनुसारेण च शुद्धः पाठोऽत्राऽस्माभिर्गृहीतः । २ 'तत्त्वा' इत्यशुद्धः पाठो मुद्रितप्रतौ । For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy