________________
• सम्यग्दृशोऽपि विषयेषु तत्त्वधीः •
१५४९ तोऽपि स्यादिति । तदुक्तं पुष्पिकायां → तए णं से सोमिले माहणे अन्नया कयाइ असाहुदंसणेण य अपज्जुवासणयाए य मिच्छतपज्जवेहि-परिवड्ढमाणेहिं परिवड्ढमाणेहिं सम्मत्तपज्जवेहिं परिहायमाणेहिं परिहायमाणेहिं मिच्छत्तं च पडिवन्ने - (पु.प्फि.व.३/पृ.२३) इति । नन्दमणिकारश्रेष्ठिभ्रंशप्रसङ्गस्तु ज्ञाताधर्मकथाङ्गसूत्रे → तए णं से नंदे मणियारसेट्ठी अण्णया कयाइ असाहुदंसणेण य अपज्जुवासणाए य अणणुसासणाए य असुस्सूसणाए य सम्मत्तपज्जवेहि परिहायमाणेहि परिहायमाणेहिं मिच्छत्तपज्जवेहिं परिवड्ढमाणेहिं - परिवड्ढमाणेहिं मिच्छत्तं विप्पडिवण्णे जाए यावि होत्था - (ज्ञाता.१ ।१३।१३) इत्येवमावेदितः। विशिष्टशिष्टसङ्गमस्तु तत्त्वश्रवणादिनिमित्तीभवन् मोक्षमार्गमभिसर्पयत्येव मुमुक्षुम् । एतेन → महतां दर्शनञ्चाऽत्र ब्रह्मश्रवणकारणम् - (रा.गी.९/३०) इति रामगीतावचनमपि व्याख्यातम् । इदमेवाऽभिप्रेत्य स्वसंवेद्योपनिषदि → साधकैरात्मस्वरूपं वेदितुमिच्छद्भिः जीवन्मुमुक्षुभिः सन्तः सेव्याः - (स्व.सं.३/२) इत्युक्तम् ।। ___ न च सत्सङ्गविरहेऽपि सम्यग्दृशः कथं विषयेषु तत्त्वबुद्धिः स्यादिति शङ्कनीयम्, तस्याऽपि प्रथमदशायामधिगमसम्यक्त्वशुद्धिविरहेण तादृशाऽऽशयसम्भवात् । तदुक्तं वैराग्यकल्पलतायां ग्रन्थकृतैव → व्यवहारश्रुतलाभेऽप्यधिगमसम्यक्त्वशुद्ध्यभावेन । प्रथमदशायां सम्यग्दृशोऽपि न च नैष सम्भवति ।। - (वै.क.ल. २।१०९) इति । तदुक्तं वैराग्यरतौ अपि → व्यवहारश्रुतलाभेऽप्यधिगमसम्यक्त्वशुद्ध्यभावेन । प्रथमदशायां सम्यग्दृशोऽपि भवतीदृशी बुद्धिः ।। - (वै.र.स. १/१०९) इति । प्रकृते → अज्ञानोपास्तिरज्ञानं, ज्ञानं ज्ञानिसमाश्रयः । ददाति यत्तु यस्याऽस्ति सुप्रसिद्धमिदं वचः ।। 6 (इष्टो.२३) इति इष्टोपदेशवचोऽप्यवधेयं वेद्यसंवेद्यपदयोग-क्षेमकामिभिः । इदञ्च व्यवहारनयमतमवलम्ब्योक्तम् ।
निश्चयनयतस्तु मिथ्यात्वमन्दतायां स्वयमेवाऽभिलषति सत्सङ्गं परिहरति च तमुत्कटमिथ्यात्वोदये कुविकल्पादिभिः । इदमेवाऽभिप्रेत्य वैराग्यकल्पलतायां → तदयमलीकविकल्पैरासीद् गुरुसङ्गवर्जनैकरतः । भिन्नग्रन्थिरपि द्रागुदयान्मिथ्यात्वपुञ्जस्य ।। (वै.क.ल. २/९१) इत्युक्तम् । गीतार्थगुरुसमागमेनाऽऽभिसंस्कारिककुविकल्पविलयेऽपि, कालान्तरे स्वाध्याय-त्यागादिकुशलानुष्ठानसाचिव्यतोऽधिगमसम्यक्त्वलाभेनाऽनभिशङ्कनीयशङ्कादिसहजकुविकल्पविशेषविगमेऽपि परिपक्वभेदविज्ञानाऽनुविद्धाऽसङ्गसाक्षिभावाऽवलम्बनकप्रबलाऽन्तरङ्गसत्पुरुषार्थवैकल्ये तु विषयमूर्छादिसाम्राज्यं नैव मूलतो निवर्तते । इदमेवाभिप्रेत्य ग्रन्थकृताऽपि वैराग्यकल्पलतायां वैराग्यरतौ च → अभिसंस्कारप्रभवाः कुविकल्पास्तस्य कुसमयोल्लसिताः । चण्डपवनात् घना इव गुरुसङ्गादेव परिगलिताः ।। ययुरधिगमसम्यक्त्वात् सहजाश्चाऽशङ्कनीयशङ्काद्याः । धनविषयादिषु मूर्छा, दिङ्मोहसमा तु न निवृत्ता ।। यद्वशगोऽयं जीवः, शास्त्राऽर्थज्ञोऽपि मूर्खतां भजते । पश्यन्नपि च न पश्यति, कर्तुं शक्नोति न निवृत्तिम् ।। કરવામાં કોઈ તાત્ત્વિક ફળની સિદ્ધિ થતી નથી. (૨૨/૩૨)
વિશેષાર્થ - કર્મભૂમિવર્તી યોગની ૪ થી દષ્ટિમાં આવેલો જીવ જ અવેદ્યસંવેદ્યપદ જીતી શકે છે. પ્રથમ ત્રણ દૃષ્ટિમાં અવેદ્યસંવેદ્ય પદ જીતી શકાતું નથી. માટે અહીં તેને જીતવાનો ઉપદેશ આપ્યો. દીપ્રાદષ્ટિમાં રહેલો જીવ અદ્યસંવેદ્યપદને જીતવાનો આ વાત નિશ્ચિત છે. માટે આગમ શાસ્ત્ર આ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org