________________
१५४८
• अभिनिविष्टमनोजयोपायाऽऽवेदनम् • द्वात्रिंशिका-२२/३२ मोक्षसुखं इच्छता जेयं अस्यामेव भूमिकायां, अन्यदा जेतुमशक्यत्वात् । अत एवाऽनुवादपरोऽप्यागम इति योगाचार्या अयोग्यनियोगाऽसिद्धेरिति ।।३२।।
॥ इति तारादित्रयद्वात्रिंशिका ।।२२।। आद्ययोगदृष्टित्रितयावस्थायां अचरमावर्ते वा तदयोगेन जेतुमशक्यत्वात् ।
अत एव = ग्रन्थिभेदकारिप्रवर्धमानाऽऽत्मवीर्योल्लासस्याऽस्यां व्यावर्णितस्वरूपायां भूमिकायां स्वसामग्र्युपहितत्वादेव तदा आगमोऽपि अनुवादपरः = तादृशयोगिसम्पादितपरिणाम-प्रवृत्त्याद्यनुवादमात्रपरायणः, न तु विधायकः न वा निषेधकः, तदानीं विधेयस्य विहितत्वात् निषेध्यस्य च परित्यक्तत्वादेव इति ध्यानाऽध्ययनयोगाऽभ्यासरसोपहिताऽनुभवैकगम्योऽयं पन्था इति योगाचार्याः, अयोग्यनियोगाऽसिद्धेः = शास्त्रीयनियोगानहस्य शास्त्रनियोज्यत्वाऽसम्भवात् । भवाभिनन्दिनामसिद्धिभावात् परमानन्दकामनाऽनुविद्धदीप्रायामवेद्यसंवेद्यपदविजयपरायणस्य स्वयमेवोत्साहपरतया च विनाऽप्युपदेशमासन्नतमतत्सिद्धिभावात् । तदुक्तं आचाराङ्गे 'उद्देसो पासगस्स नत्थि' (आचा.१/२/३/८२) इति । यो हि विदितस्वकर्तव्यतया स्वकर्तव्यकरणैकनिष्ठो यथावसरं यथाविधेयं स्वत एव विधत्ते तस्य सदसत्कर्तव्याऽकर्तव्यादेशो नैवाहतीत्यत्राऽऽशयः । → आत्मानन्दरसज्ञानामलं शास्त्राऽवलोकनम् । भक्षितव्या अपूपाः किं गण्यानि सुषिराणि किम् ?।। (लो.मु.२२) इति लोकोक्तिमुक्तावलीवचनमप्यत्र स्मर्तव्यम् ।
दीप्रायामवस्थितस्याऽपि क्लिष्टकर्मोदयपारवश्येन योगदृष्टिप्रतिपातकाले तादृशवीर्योल्लासस्याऽसम्भवात् ‘परमानन्दमिच्छता' इत्युक्तं ग्रन्थकृद्भिः दीप्रायोगिविशेषणविधयेति ध्येयम् ।
प्रकृते → अवेद्यसंवेद्यपदमान्ध्यं दुर्गतिपातकृत् । सत्सङ्गाऽऽगमयोगेन जेयमेतन्महात्मभिः ।। (यो.दृ.स. ८५) इति योगदृष्टिसमुच्चयकारिकाऽनुसन्धया । गणेशगीतायामपि → अतिदुःखं च वैराग्यं भोगाद्वैतृष्ण्यमेव च । गुरुप्रसादः सत्सङ्ग उपायास्तज्जये अमी - (ग.गी.५/२२) इत्यादिना सत्सङ्गमादेरभिनिविष्टमनोजयोपायत्वमावेदितमित्यवधेयम् । अवेद्यसंवेद्यपदलक्षणमनोमलस्य विजय एव पौरुषफलमुच्यते । इदमेवाऽभिप्रेत्य अध्यात्मतत्त्वालोके → अशुद्धमन्तःकरणं भ्रमाय, विशुद्धमन्तःकरणं शिवाय । मनोमलानां प्रतिघात एव महत्तमं पौरुषमामनन्ति ।। - (अ.तत्त्वा.१ ६८) इत्युक्तं न्यायविजयेन इति विभावनीयम् । प्रकृते च → कुणमाणो वि निवित्तिं परिच्चयंतो वि सयण-धण-भोए । दितो वि दुहस्स उरं मिच्छदिट्ठी न सिज्झई उ।। तम्हा कम्माऽणीयं जेउमणो दंसणंमि पयइज्जा । दंसणवओ हि सफलाणि हुंति तव-नाण-चरणाई ।।
6 (आ.नि. २२०-२२१) इति आचाराङ्गनियुक्तिगाथे अपि विभावनीये । अवेद्यसंवेद्यपदविजयोत्तरकालमपि महताऽऽदरेण सत्सङ्गादिर्न मोक्तव्यः कदापि, अन्यथा पार्श्वनाथतीर्थकरसदुपदेशादिलब्धश्रावकधर्मस्य सोमिलस्य शुक्राभिधानमहाग्रहजीवस्येव मणिकारश्रेष्ठिन इव वा सम्यग्दर्शनादेः पाઅવસ્થામાં જીતવું જોઈએ. કારણ કે અન્ય અવસ્થામાં અન્યત્ર = અકર્મભૂમિમાં અવેદ્યસંવેદ્ય પદ જીતાવું શક્ય નથી.
માટે જ આગમ-શાસ્ત્રો પણ અનુવાદમાત્ર કરવામાં તત્પર છે. કેમ કે અયોગ્યનો નિયોગ-આજ્ઞા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org