________________
• विपर्ययस्य पञ्चविधत्वम् •
१५४३
पाउडा ← (आचा. १/२/२) इति आचाराङ्गोक्तेः ते मन्दत्वेनैवाऽवसेयाः । → आहारत्थी जहा बालो वहीं सप्पं च गेण्हती । तहा मूढो सुहऽत्थी तु पावमण्णं पकुव्वती ।। ← (ऋ.भा.१५/१४) इति ऋषिभाषितवचनमप्यत्र स्मर्तव्यम् । अब्रह्मचारी विभ्रमोद्भ्रान्तचित्तो विप्रकीर्णेन्द्रियो मदान्धो गज इव निरङ्कुशः शर्म नो लभते । मोहाभिभूतश्च कार्याऽकार्यानभिज्ञो न किञ्चिदकुशलं नाऽSरभते ← (त.सू. ७।४ भा.) इति तत्त्वार्थभाष्यमप्यत्राऽऽगमाऽनुसारेणाऽनुयोज्यम् । तमो - मोह - महामोह-तामिस्राऽन्धतामिस्रलक्षणपञ्चविधविपर्ययग्रस्तत्त्वादेव कुकृत्येषु भवाभिनन्दिनां बहुमानोऽवगन्तव्यः । तदुक्तं हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये →
तमो मोहो महामोहस्तामिस्रोऽन्ध एव च । विपर्ययो हि जीवानामतो भ्रान्तिर्भवार्णवे ।। श्रेयःप्रवृत्तिकामस्य तदन्यत्र प्रवर्तनम् । सिद्धान्ताऽनादराद् ह्येतत् तम आहुर्मनीषिणः ।। देहादिष्वात्मबुद्धिर्या मुक्तिमार्गोपरोधिनी । तत्राऽभिष्वङ्गभावेन सा मोह इति कीर्त्यते 11 बाह्येषु तु ममत्वं यद् देहभावेऽप्यभाविषु । केवलं भावसंसिद्ध्यै महामोहस्तदाहितम् ।। भाव्याभाव्येषु सर्वेषु नियमेन तथातथा । भवन् स्वात्माऽपकाराय क्रोधस्तामिस्र उच्यते ।। संसारे मरणं जन्तोर्नियमेन व्यवस्थितम् । तत् प्रतीत्य भयं ह्यन्धतामिस्रः परिकीर्तितः एवं विपर्ययादस्मादतत्त्वे तत्त्वबुद्धितः । कुकृत्येष्वपि मूढानां बहुमानः प्रवर्तते ।। ← (ब्र.सि. ६६-७२) इति । तीव्रमोहोदयः स्वाश्रयमेव निघ्नन्ति प्रथमम् । अत एव संयुक्तनिकाये कौशलसंयुक्ते पुरुषसूत्रे लोभो दोसो च मोहो च पुरिसं पापचेतसं । हिंसन्ति अत्तसम्भूता तचसारं व सम्फलं ।। ← ( सं . नि . १ ।१ ।३ ।२ ।११३ पृ. ८७) इत्युक्तम् । तचसारं कदलिवृक्षं, सम्फलं = स्वफलं शिष्टं स्पष्टम् । कच्छूकण्डूयकोदाहरणं तु योगदृष्टिसमुच्चयवृत्ती कस्यचित् कण्डूयकस्य कण्डूयनाऽतिरेकात् परिक्षीणनखस्य सिकताक्षितिनिवासात्कथञ्चिदनवाप्ततृणकण्डूविनोदकस्य भिक्षापुटिकाद्यैर्गृहीततृणपूलकेन वैद्यपथिकेन दर्शनं बभूव । स तेन तृणमेकं याचितो, दत्तं चाऽनेन तत्तस्मै । परितुष्टोऽसौ हृदयेन, चिन्तितं च ससन्तोषं “ अहो धन्यः खल्वयं यस्यैतावन्ति कण्डूयनानि', पृष्टश्च स क्व खल्वेतान्येवमतिप्रभूतान्यवाप्यन्ते ? तेनोक्तं- लाटदेशादौ, प्रयोजनं किञ्च तवैभिः ? तेनोक्तं ‘कच्छूकण्डूविनोदनम्' । पथिक आह- “ यद्येवं, ततः किमेभिः ? कच्छूमेव ते सप्तरात्रेणापनयामि, कुरूपयोगं त्रिफलायाः ” । स पुनराह - कच्छ्वपगमे कण्डूविनोदाऽभावे किं फलं जीवितस्य, तदलं त्रिफलया क्वैतान्यवाप्यन्त इत्येतदेव कथय ← इति ( यो दृ.स. ८१ वृत्ति) व्यावर्णितम् ।
त्वक्सारं
तत्त्वार्थभाष्ये अपि असुखे ह्यस्मिन् सुखाऽभिमानो मूढस्य । तद्यथा तीव्रया त्वक्-शोणितमांसाऽनुगतया कण्ड्वा परिगतात्मा काष्ठशकल- लोष्ट-शर्करा-नख- शुक्तिभिः विच्छिन्नगात्रो रुधिरार्द्रः कण्डूयमानो दुःखमेव सुखमिति मन्यते । तद्वन्मैथुनोपसेवी ← (त.सू. ७।५ भा.) इत्येवं मैथुनमधिकृत्य कच्छूकण्डूयकोदाहरणं दर्शितम् । न च कच्छूकण्डूयकः तत्सदृशश्च भवाभिनन्दी → लेढि भेषजवन्नित्यं यः पथ्यानि कटून्यपि । तदर्थं सेवते चाऽऽप्तान् कदाचिन्न स सीदति ।। ← (भ.का. १८।७) इति આ ખંજવાળના રોગીનું દૃષ્ટાંત
વિશેષાર્થ :- ખસ-ખંજવાળના રોગીનું ઉદાહરણ યોગદૃષ્ટિસમુચ્ચયની ૮૧ મી ગાથાની વ્યાખ્યામાં આ મુજબ ઉપલબ્ધ થાય છે કે- કોઈને ખસનો રોગ થયો. આથી તે ખસને નખથી ખણવા લાગ્યો. નખથી
Jain Education International
=
For Private & Personal Use Only
www.jainelibrary.org