________________
• मीन - मकर - मरालोदाहरणविचारः •
द्वात्रिंशिका -२२/२९
भवाभिनन्दिनां क्षुद्रत्वादिदोषवतां जन्तूनां (= भवाभिनन्दिजन्तूनां ) पापं सानुबन्धकम् अनुबन्धसहितं स्यात्, रागद्वेषादिप्राबल्यस्य तदनुबन्धाऽवन्ध्यबीजत्वात् ।।२९।। परोपतापविरतिः परानुग्रह एव च । स्वचित्तदमनं चैव पुण्यं पुण्यानुबन्ध्यदः ।। ← (उप.क. प्रस्ताव४/पृ. ४०७,पंचसूत्रवृत्ति-पृ. १७) इति उपमितिभवप्रपञ्चायां कथायां विमर्शमुखेन सिद्धर्षिगणिदर्शितरीत्या, → गुरुदेवादिशुश्रूषा वैराग्यं प्राणिनां दया । पुण्यं पुण्याऽनुबन्ध्येतच्छीलवृत्तिश्च निर्मला ।।
सन्तापशान्तिरन्येषां विश्वाऽनुग्रह एव च । दमनं च स्वचित्तस्य पुण्यं पुण्यानुबन्ध्यदः । । ← (वै.क.ल.५/९५०-९५१ ) इति वैराग्यकल्पलतायां च प्रकृतग्रन्थकृदुक्तरीत्या, दीप्रादावपि पापानुबन्धावन्ध्यबीजभूतरागादिप्राबल्यविरहेण पापभीरुता - प्रशान्तवाहितालाभ- जीवदया स्वभूमिकोचितसंवेगतत्त्वश्रवण-गुरुभक्त्यादितः पुण्यं पुण्यानुबन्धि सुवर्णघटतुल्यं बध्यतेऽपि तथापि ग्रन्थिभेदोत्तरकालीनप्रबलतरप्रशस्ताऽनुबन्धाऽपेक्षया तस्याऽल्पत्वेन निरनुबन्धत्वोक्तिः प्रकृते सङ्गच्छत एव । न हि कार्षापणमात्रेण ' धनवानिति व्यपदिश्यते इति नयमतभेदेन योजनाऽत्र कार्या सुधिया ।
केचित्तु 'ग्रन्थिभेदोत्तरं पुण्यं नियमेन पुण्यानुबन्ध्येव तत्पूर्वं तु मेघकुमारादेरिव कस्यचित् पुण्यं पुण्याबन्धि, कस्यचिच्च तत् निरनुबन्धि पापानुबन्धि वा' इत्याहुः ।
अवेद्यसंवेद्यपदस्थितानामप्याद्यगुणस्थानबहिर्वर्तिनां भवाभिनन्दिनां पापं अनुबन्धसहितं = पापानुबन्धोपेतं, राग-द्वेषादिप्राबल्यस्य तदनुबन्धाऽवन्ध्यबीजत्वात् = पापानुबन्धाऽमोघकारणत्वात् । अत एव तेषामवेद्यसंवेद्यपदमपदमेव । इदमेवाभिप्रेत्य योगदृष्टिसमुच्चये अवेद्यसंवेद्यपदमपदं परमार्थतः ← ( यो दृ.स.७२)भवाभिनन्दिविषयं समारोपसमाकुलम् ← (यो. दृ.स.७५ ) इत्युक्तम् । अभव्यभवाभिनन्द्यादीनां धर्मक्रियाजनितं पुण्यं पापानुबन्धि निरनुबन्धि वा मृण्मयघटतुल्यम्, गुरुलाघवादिज्ञानमैत्र्यादिभावसंवेदन-शुद्धाज्ञाबहुमानादिशून्यत्वात् । तदुक्तं उपदेशपदे किरियामेत्तं तु इहं जायति लद्धादवेक्खयाऽवि । गुरुलाघवादिसन्नाणवज्जियं पायमियरेसिं । एत्तो उ निरणुबंधं मिम्मयघडसरिसमो फलं णेयं । कुलडादिदाणाइसु जहा तहा हंत एयं पि ।। ← (उप.प. २४१/४२) इति पूर्वोक्तं (पृ. ९८६) स्मर्तव्यम् ।
१५४०
=
अनुबन्धः अनुगमः
=
अनुबन्धस्वरूपञ्च उपदेशपदवृत्तौ अव्यवच्छेदः ← (उप.प. २३५) 'तादात्विककार्यसिद्धौ अपि उत्तरोत्तरफलरूपः' (उप.पद.गा. १६७ वृत्ति) इत्येवमुपदर्शितम् । इदञ्चात्राऽवधेयम्- यथा मीनः सागरे निमज्जितुं तरितुं च समर्थः परं स्थले न स्वैरं विहर्तुं क्षमः, मकरस्तूभयत्र शक्तोऽपि गगने डयितुं न प्रत्यलः । हंसश्च सर्वत्र प्रवणः । प्रकृते मीनस्थानीयोSभव्यः भवाभिनंदी वा, मकरसमोऽपुनर्बन्धकः, हंससदृशश्च स्थिरादिगतो भिन्नग्रन्थिः । सागरतुल्यञ्चाऽवेद्यसंवेद्यपदं, निमज्जनं अनन्तभवभ्रमणवर्धनं, तरणं ग्रन्थिदेश- सम्यक्त्व- चारित्रादिसमीपाऽऽगमनं,
=
=
ટીકાર્થ :- અવેઘસંવેદ્યપદમાં બંધાતું પુણ્ય કર્મ પાપના કે પુણ્યના અનુબંધ વિનાનું હોય છે. જો ક્યારેક પુણ્ય પાપાનુબંધી ન હોય તો તે પુણ્ય નિરનુબંધ પુણ્યના કે પાપના અનુબંધથી રહિત હોય- એમ સમજવું. અવેઘસંવેદ્યપદમાં પુણ્યાનુબંધી પુણ્ય બંધાતું નથી. તેનું કારણ એ છે કે તે જીવે ગ્રંથિભેદ કરેલો નથી. પુણ્યાનુબંધી પુણ્યના બંધમાં તો ગ્રંથિભેદ નિયામક છે.
જો અવેદ્યસંવેદ્યપદમાં રહેલ જીવ ભવાભિનંદી હોય તો પૂર્વોક્ત (દ્વા.દ્વા.૧૦/૫, પૃ.૬૮૮) ક્ષુદ્રતા વગેરે આઠ દોષના કારણે તે પાપાનુબંધી જ પાપ બાંધે. કારણ કે રાગ-દ્વેષ વગેરેની પ્રબળતા પાપના અનુબંધના અમોઘ કારણછે.(૨૨/૨૯)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org