SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ • पुण्यानुबन्धिपुण्योपायप्रदर्शनम् • १५३९ अवेद्यसंवेद्यपदे पुण्यं निरनुबन्धकम् । भवाभिनन्दिजन्तूनां पापं स्यात्सानुबन्धकम् ।।२९।। ___अवेद्येति । अवेद्यसंवेद्यपदे पुण्यं निरनुबन्धकम् = अनुबन्धरहितं स्यात्, यदि कदाचिन्न स्यात् पापानुबन्धि । सानुबन्धे तत्र ग्रन्थिभेदस्य नियामकत्वात् । योगप्रवृत्तिः न मोक्षयोजकाऽऽत्मव्यापारसाधनी । आद्यदृष्टिचतुष्के वर्तमानानां योगिनां योगप्रवृत्तिस्तु न ग्रन्थिभेदोत्तरकालीनोत्तरोत्तराऽनन्तगुणकर्मनिर्जरादिप्रयोजननिष्पादिका इति यावत् तात्पर्यम् ।।२२/२८ ।। प्रकृत एवाऽधिकमाह- ‘अवेद्येति । अवेद्यसंवेद्यपदे चरमावर्तकालीने गुणस्थानाऽभ्यन्तरवर्तिनि मित्रादिदृष्टिचतुष्टयानुविद्धे बध्यमानं पुण्यं अनुबन्धरहितं = पुण्यानुबन्धशून्यं स्यात् । किं सर्वदैव तन्निरनुबन्धं स्यात् ? इत्याशङ्कायामाह- यदि कदाचित् पापानुबन्धि न स्यादिति । यदि तत्र तदा बध्यमानं पुण्यं मित्रादिदृष्टिकालीनसद्गुरुपारतन्त्र्य-सन्तोषादिप्रभावतः पापानुबन्धि न स्यात् तर्हि निरनुबन्धकं मृण्मयघटतुल्यं स्यादिति भावः । कस्मात् ? इत्याशङ्कायामाह- सानुबन्धे = पुण्यानुबन्धिनि तत्र = पुण्ये ग्रन्थिभेदस्य नियामकत्वात् = प्रयोजकत्वात् । निरनुबन्धकार्यस्य तत्त्वतोऽकार्यत्वादिति (उप.प. १८२) व्यक्तं उपदेशपदवृत्ती । अत्र शाखाचन्द्रन्यायेन ग्रन्थिभेदस्य पुण्यानुबन्धनियामकत्वमुक्तम् । वस्तुतो ग्रन्थिभेदोपलक्षित-तथाविधप्रशम-गुरुभक्त्यादि-प्रणिधानाऽऽगमश्रद्धानादिगर्भवैराग्योत्कर्षस्यैव तथात्वमिति सङ्क्लेशप्रकर्षेण हीयमानपरिणामत्वात् पाताऽभिमुखस्य सम्यग्दृशः पुण्यानुबन्धाऽनुपधानेऽपि न काचित क्षतिरिति ध्येयम् । यद्यपि मुक्त्यद्वेषादपि कुशलानुबन्धसन्ततिः पूर्वसेवाद्वात्रिंशिकायां (द्वा.द्वा.१२/३० भाग-३, पृ.८८३) दर्शिता । योगबिन्दौ श्रीहरिभद्रसूरिभिः अपि → शुभानुबन्धिपुण्याच्च विशिष्टमतिसङ्गतः - (यो.बि.१९३) इत्येवं अपुनर्बन्धके पुण्यानुबन्धिपुण्यवशाद् मार्गानुसारिप्रौढप्रज्ञोपदर्शिता । उत्तराध्ययनबृहद्वृत्ति (उत्त. २९/२३ वृ.) दर्शितरीत्या आगमिष्यद्भद्रतयाऽपि मित्रा-तारादिदृष्टिचतुष्के पुण्यानुबन्धिपुण्यार्जनमनपलपनीयमेव । न ह्यपुनर्बन्धकद्वात्रिंशिकोक्तपद्धत्या (द्वा.द्वा.१४/१५ भाग-४, पृ.९६३) प्रतिश्रोतोऽनुगामित्वेन प्रत्यहं शुभपरिणामवृद्धितः शुद्धनिश्चयानुसारितत्त्वमीमांसातश्च (द्वा.द्वा.१४/१३ भाग-४ पृ.९६१) अपुनर्बन्धकदशाविशेषवतां मित्रा-तारादिदृष्टिमतां पुण्यानुबन्धार्जने कोऽपि बाधः सम्भवति । किञ्च → दया भूतेषु संवेगो विधिवद् गुरुपूजनम् । विशुद्धा शीलवृत्तिश्च पुण्यं पुण्यानुबन्ध्यदः ।। વિશેષાર્થ:- મોહગર્ભવૈરાગ્ય એટલે મોહમૂલકવૈરાગ્ય, મોહસંસ્કારયુક્ત વૈરાગ્ય.કારણ જેવું હોય તેવું કાર્ય થાય. આ નિયમ મુજબ મોહજન્યયોગપ્રવૃત્તિ પણ મોહના જ સંસ્કારને દઢ કરે છે. પરંતુ ગ્રંથકારશ્રીએ એક બહુ મહત્ત્વનો શબ્દ मह प्रयोलोछे. तेछ 'सद्गुरुपारतन्त्र्याभावे' अर्थात् सङ्गुरुर्नु पारतन्त्र्यनीयतो मोडाभराय४न्य योगप्रवृत्ति મોહના સંસ્કારને ઉત્પન્ન કરે. એનો અર્થ એ થયો કે મિત્રા, તારા વગેરે યોગદષ્ટિમાં પ્રવિષ્ટજીવ જો સદ્ગુરુને સમર્પિત હોય તો અવેદ્યસંવેદ્યપદ હોવાછતાં તેમજ મોહગર્ભવૈરાગ્ય હોય છતાં પણ તેનાથી મોહના સંસ્કાર પડતા નથી. આથી પાપના अनुप तेवा पने धर्मप्रवृत्ति द्वारा न ५ - भेदुनिश्चित थायछे. (२२/२८) હ ભવાભિનંદીનું પાપ પાપાનુબંધી જ ગાથાર્થ :- અવેધસંવેદ્યપદમાં પુણ્ય નિરનુબંધી હોય છે. જ્યારે અવેદ્યસંવેદ્યપદવાળા ભવાભિનંદી पोर्नु ५।५ पायानुबंधी बने. (२२/२८) १. हस्ताद” 'निरनुबंधकं' नास्ति । २. हस्तादर्श 'अवेद्यसंवेद्यसंवेद्यपदे' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy