________________
• मोहमूलप्रवृत्तेः मोहजनकता •
द्वात्रिंशिका - २२/२८
सद्गुरुपारतन्त्र्याऽभावे अपायजननीमुत्तरां मोहवासनां प्रसूते, मोहमूलाऽनुष्ठानस्य मोहवासना - वन्ध्यबीजत्वात् । अतोऽत्र योगप्रवृत्तिरप्यकिञ्चित्करीति भावः ।। २८ ।।
१५३८
गाथोत्तरार्धगतं पदं अत्र = इह गाथायां अनुषज्यते = आकृष्यते । ततश्चाऽयमर्थः तत्र = अवेद्यसंवेद्यपदे मोहगर्भतो वैराग्यात् = मोहगर्भवैराग्यमवलम्ब्य जायमाना दुष्करस्याऽपि मासक्षपणादिलक्षणस्य योगस्य प्रवृत्तिरपि सद्गुरुपारतन्त्र्याऽभावे सति अपायजननीं नरकाद्यपायहेत्वासेवनकारिणीं उत्तरां स्वोत्तरकालीनां मोहवासनां मिथ्यामोहाऽनुविद्धाऽविद्यां प्रसूते जनयति । पारतन्त्र्याऽभावव्यङ्ग्यप्राबल्योपेतमोहाऽनुवेधेनैव वैराग्यफलनाशोऽत्राऽवसेयः, प्रबलमोहस्य सत्कार्यनाशकत्वात् । तदुक्तं उद्योत - नसूरिभिः कुवलयमालायां मोहो कज्जविणासो, मोहो मित्तं पणासए खिप्पं । मोहो सुगई रुंभइ मोहो सव्वं विणासेइ ।। ← ( कु. मा. पृ. १३९) इति । न च सद्गुरुपारतन्त्र्यविरहोऽस्य कथमिति शङ्कनीयम्, स्वच्छन्दताया मोहगर्भवैराग्यलक्षणत्वात् । तदुक्तं अध्यात्मसारे
कुशास्त्राऽर्थेषु दक्षत्वं शास्त्राऽर्थेषु विपर्ययः । स्वच्छन्दता कुतर्कश्च गुणवत्संस्तवोज्झनम् ।। आत्मोत्कर्षः परद्रोहः कलहो दम्भजीवनम् । आश्रवाऽऽच्छादनं शक्त्युल्लङ्घनेन क्रियाऽऽदरः ।। गुणानुरागवैधुर्यमुपकारस्य विस्मृतिः । अनुबन्धाद्यचिन्ता च प्रणिधानस्य विच्युतिः ।। श्रद्धामृदुत्वमौद्धत्यमधैर्यमविवेकिता I वैराग्यस्य द्वितीयस्य स्मृतेयं लक्षणाऽऽवली । ← (अ.सा. ६ / १२-१५) इति । द्वितीयस्य = मोहगर्भस्य । प्रागुक्ताः (द्वाद्वा.६ / २३ भाग - २, पृ.४३०) अपि मन्दमतीनामुपकाराय वैराग्यगतमोहगर्भत्वपरिहारनिश्चयदार्याय च पुनरुपदर्शिता इमाः कारिका इति न पौनरुक्त्यमुद्भावनीयम् । तदुक्तं यजुर्वेदीयोव्वटभाष्ये → संस्कारोज्ज्वलनार्थं हितं च पथ्यं च पुनः । पुनरुपदिश्यमानं न दोषाय भवति ।। ← (य. उ.भा. १।२१ ) इति । सम्मतञ्चेदमस्माकमपि । तदुक्तं मरणविभक्तिप्रकीर्णके ण हु सा पुणरुत्तविही जा संवेगं करेइ भण्णंती ← ( म.वि. २०९) इति ।
इदञ्चात्राऽवधेयम् - योगप्रवृत्त्युपधायकस्य वैराग्यस्य मोहगर्भितत्वे सत्यपि सद्गुरुपारतन्त्र्यसत्त्वे तु नैव तदीययोगप्रवृत्तेर्मोहवासनाजनकता सम्भवति सति प्रतिबन्धके कार्योदयाऽयोगात् । एतावता सद्गुरुपरतन्त्रस्याऽवेद्यसंवेद्यपदवर्तिनोऽपि मोहगर्भवैराग्यप्रयुक्तयोगप्रवृत्तितो जायमाने पुण्ये पापानुबन्धित्वविरहो द्योतितः, अनाभिग्रहिक-सांशयिकाऽनाभोगिकाऽन्यतरमिथ्यात्वसम्भवेऽप्यस्याऽऽभिग्रहिकाऽऽभिनिवेशिकमिथ्यात्वयोः सद्गुरुपारतन्त्र्येण प्रच्यवादिति भावनीयम् ।
=
=
=
=
अतः = सद्गुरुपारतन्त्र्याऽपेतानां मोहगर्भवैराग्यप्रयुक्तयोगप्रवृत्तेर्मोहवासनाऽवन्ध्यबीजत्वात् अत्र = अवेद्यसंवेद्यपदे योगप्रवृत्तिरपि किमुत तदीयस्थूलबोध: ? इत्यपिशब्दार्थः, अकिञ्चित्करी = तथाविधकर्मनिर्जराद्यर्थाऽसाधिका । व्यवहारतोऽविकलाऽपि तादृशी योगप्रवृत्तिः संशुद्धयोगबीजतयाऽपि नैव परिणमति, कथञ्चित्कषायाऽप्रवृत्तिलक्षणलेश्याशुद्धावपि निरवधिभवभ्रमणयोग्यतालक्षणस्य सहजस्य भावमलस्य प्रभूतस्याऽद्यापि भावादिति (उप.प. २३३ वृ.) उपदेशपदवृत्तिकृत् । ततश्च प्रकृते भवाभिनन्दिजीवानां सूयन छे. तत्र = અવેઘસંવેદ્યપદમાં. તેથી અહીં અર્થ એ ફલિત થશે કે - અવેઘસંવેદ્યપદમાં મોહગર્ભિત વૈરાગ્યથી થતી યોગની પ્રવૃત્તિ પણ જો સદ્ગુરુનું પારતંત્ર્ય ન હોય તો ઉત્તરોત્તર અનર્થકારી મોહવાસનાને જન્માવે છે. કારણ કે મોહમૂલક અનુષ્ઠાન, મોહવાસનાનું જ અવંધ્ય કારણ છે. માટે અહીં યોગપ્રવૃત્તિ પણ કોઈ આધ્યાત્મિક લાભને કરતી નથી. આ પ્રમાણે કહેવાનો અહીં આશય છે. (૨૨/૨૮)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org