________________
• बलायां विचारणा- सम्यग्वाक्समवतारः •
उप्यमाने तरौ पयः सेकेन पीनता दृष्टा, तद्वदिहाप्यक्षेपेणैवमतिपीनत्वलक्षणमुपायकौशलं स्यात्। 'अन्यथा पूर्णपयःसेकं विनोप्तस्य तरोरिव प्रकृताऽनुष्ठानस्य कार्श्यमेवाऽकौशललक्षणं स्याद तदुक्तं योगदृष्टिसमुच्चये शुभयोगसमारम्भे न क्षेपोऽस्यां कदाचन । उपायकौशलं चापि चारु तद्विषयं भवेत् ।। ← (यो. दृ.स.५५ ) इति । अत एव पूर्वं (द्वाद्वा.२०/२७, पृ.१४०१) संन्यासगीतासंवादेनोद्दिष्टा सप्तविध-कर्मयोगगता शास्त्र - सज्जनसम्पर्क - वैराग्याऽभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ।। ← (रा.गी. ७/६ ) इति रामगीताव्यावर्णितस्वरूपा विचारणाभिधाना द्वितीया कर्मयोगभूमिका बलायामस्खलद्वृत्त्या सम्भवतीत्यवधेयम् । एतेन उक्तलक्षणैव महोपनिषदुपदर्शिता (महो. ५/२८) अन्नपूर्णोपनिषदुक्ता (अन्न. ५ / ८२ ) वराहोपनिषदुपवर्णिता ( वरा. ४/४) च विचारणाख्या ज्ञानयोगभूमिकाऽपि प्रकृते समवतारिता द्रष्टव्या ।
इहापि = बलायामपि दृष्टौ अक्षेपेण = अन्यत्र मनोन्यासाऽभावेन एवं = दर्शितरीत्या उत्तरोत्तरं अतिपीनत्वलक्षणं कण्टक-ज्वरस्थानीयविघ्नद्वितयाऽप्रतिबध्यत्वप्रयोजकं उपायकौशलं = योगाङ्गेषु नैपुण्यं स्यात् । एतेनाऽत्र सम्यग्वाग् बुद्धोक्ताऽष्टाङ्ग्ङ्गिकमार्गगता लब्धावकाशेत्यावेदितम् । तत्स्वरूपन्तु मज्झिमनिकाये च अर्पणकसूत्रे सन्तं येव खो पन परं लोकं 'अत्थि परो लोको ति वाचं भासति, सास्स होति सम्मावाचा । सन्तं येव खो पन परं लोकं 'अत्थि परो लोको'ति आह ये ते अरहन्तो परलोकविदुनो तेसमयं न पच्चनीकं करोति । सन्तं येव खो पन परं लोकं 'अत्थि परो लोको 'ति परं सञ्ञपेति, सास्स होति सद्धम्मसञ्ञत्ति ← (म.नि. २।१।१० | ९६ - पृ. ७३ ) इत्येवं सामान्यतो दर्शितम् । विशेषतश्च तत्स्वरूपं दीघनिकाये मज्झिमनिकाये च महास्मृतिप्रस्थानसूत्रे → कतमा च, भिक्खवे, सम्मावाचा ? मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्प्फप्पलापा वेरमणी । अयं वुच्चति, भिक्खवे, सम्मावाचा ← ( दी. नि. २।९।४०२, म.नि. भाग१/१/१०/१३५-पृ.९०, ३ | ४ | ११ | ३१५ ) इत्येवमावेदितम् । इयञ्चेह साश्रवा बोध्या । तदुक्तं मज्झिमनिकाये महाचत्वारिंशत्कसूत्रे → मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी-अयं भिक्खवे ! सम्मावाचा सासवा पुञ्ञभागिया उपधिवेपक्का ← (म.नि. ३।२।७।१३८) इति । अग्रेतनदृष्टिषु चेयमधिकारिभेदेन विशुध्यति । निराश्रवा सम्यग्वाक् तु ग्रन्थिभेदोत्तरमेवाऽवगन्तव्या । इह तु क्षेपदोषनिराकरणप्रत्यला साश्रवा सम्यग्वागवगन्तव्या । युक्ततरञ्चैतत्, मृषा-पिशुन-परुषवागादिप्रवृत्तौ चाऽक्षेपस्य स्वरूपमेव दुर्लभं स्यात् । इत्थञ्च सम्यग्वागादिप्रयुक्ताऽक्षेपसहकारेणोक्तोपायवैचक्षण्यमुपपद्यतेतराम् । अन्यथा = परुषवागादिना शुभयोगसमारम्भाऽवसरेऽन्यत्र मनोन्यासे तु पूर्णपयःसेकं = अपेक्षितपरिपूर्णजलसिञ्चनं विना उप्तस्य तरोः कार्थ्यमिव प्रकृताऽनुष्ठानस्य પ્રવીણતા પ્રાપ્ત થાય છે. કારણ કે ક્ષેપ દોષ ન હોવાના લીધે યોગસાધનાની ઉત્તરોત્તર અત્યંત વૃદ્ધિ થાય છે. જેમ વૃક્ષની વાવણી થતી હોય ત્યારે પાણી સિંચવાથી પુષ્ટતા દેખાય છે તેમ બલાષ્ટિમાં પણ અક્ષેપના કારણે ઉપરોક્ત રીતે ધર્મસાધનકુશળતા સ્વરૂપ અતિપુષ્ટતા પ્રગટે છે. બાકી તો પૂરતું પાણી ન સિંચવાના કારણે જેમ વાવેલું પણ વૃક્ષ કરમાઈ જાય છે તેમ ક્ષેપદોષના લીધે, ક્ષેપવિરહ १. हस्तादर्शे 'अन्य पू...' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
१५०३
www.jainelibrary.org