SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ • सुगतसमये आकाशानन्त्यसमापत्तिभावना • १४९७ सम्बन्धः। यदा यदा 'आसनं बघ्नामी'ति इच्छां करोति, प्रयत्नशैथिल्येऽपि अक्लेशेनैव तदा तदाऽऽसनं सम्पद्यते । यदा चाऽऽकाशादिगते आनन्त्ये चेतसः समापत्तिः क्रियते = अवधानेन तादात्म्यमापाद्यते तदा देहाऽहङ्काराऽभावान्नाऽऽसनं दुःखजनकं भवति । अस्मिंश्चाऽऽसनजये सति समाध्यन्तरायभूता न प्रभवन्ति अङ्गमेजयत्वादयः ( (रा.मा.२/४७) इति । योगसुधाकरे सदाशिवेन्द्रस्तु → तस्य च प्रयत्नशैथिल्यं लौकिक उपायः । गमन-गृहकृत्यतीर्थस्नानादिविषयो यः प्रयत्नः = मानस उत्साहः तस्य शैथिल्यम्, अन्यथा उत्साहो बलाद् देहमुत्थाप्य यत्र क्वापि प्रेरयति । फणसहस्रेण धरणी धारयित्वा स्थैर्येणाऽवस्थितो ‘योऽयमनन्तः स एवाऽहमस्मीति ध्यानं चित्तस्याऽनन्ते समापत्तिः तया यथोक्ताऽऽसनसम्पादकमदृष्टं निष्पद्यते । अतः ताभ्यामासनं सिध्यतीत्यर्थः - (यो.सुधा.२/४७) इत्याह । बौद्धमते तु कामभोगाऽकुशलधर्मादिभ्यः प्रविविच्य निर्जने देशे प्रयत्नशैथिल्येन ऋजुकं स्थित्वा चतुर्विधध्यानोत्तरं रूपसंज्ञाद्यतिक्रमणादिना आकाशानन्त्यसमापत्तिरुपजायते । तदुक्तं मज्झिमनिकाये अनुपदसूत्रे → भिक्खवे सारिपुत्तो सब्बसो रूपसज्ञानं समतिक्कमा पटिघसानं अत्थङ्गमा नानत्तसञानं अमनसिकारा 'अनन्तो आकासो'ति आकासानञ्चायतनं उपसम्पज्ज विहरति । ये च आकासानञ्चायतने धम्माआकासानञ्चायतनसञा च चित्तेकग्गता य फस्सो वेदना सञ्जा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारोत्यास्स धम्मा अनुपदववत्थिता होन्ति । त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति । सो एवं पजानाति- “एवं किर मे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्तीति । सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुतो विमरियादीकतेन चेतसा विहरति । सो 'अत्थि उत्तरि निस्सरण'न्ति पजानाति । तब्बहुलीकारा अस्थि त्वेवस्स होति - (म.नि.३।२।९५, पृ.७६) इति । सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञाया अस्तङ्गमनात् नानात्मसंज्ञातः चित्तवृत्तिपरिहारात् आकाशाऽऽनन्त्यसमापत्तिलाभः । आकाशाऽऽनन्त्याऽऽयतनसमापत्तौ आकाशानन्त्यचित्तैकाग्रता-स्पर्श-वेदना-संज्ञा-चेतना-चित्त-छन्दाऽधिमोक्ष-वीर्य-स्मृत्युपेक्षा-मनस्कारा अनुपदव्यवस्थिता भवन्ति, विदिताः सन्त उत्पद्यन्ते, विदिताः सन्त उपतिष्ठन्ति, विदिताः सन्तोऽस्तं यान्ति। स चैवं प्रजानाति- ‘एवं किल इमे धर्मा अभूत्वा सम्भवन्ति, भूत्वा प्रतिवेद्यन्ते'। स तेषु उत्पाद-व्ययाऽऽलम्बनप्रत्ययमुक्तोऽनुपायोऽनपायोऽनिश्रितोऽप्रतिबद्धो विप्रमुक्तो विसंयुतो विमर्यादेन चेतसा निर्वाणमार्गे विहरति । स 'अस्ति इत उत्तरमपि भवनिःसरणोपाय' इति प्रजानाति। निसरणोपायाभ्यासबाहुल्येन ‘अस्ति' इति निश्चयः सम्पद्यते इति सुगताशयोऽपि यथागममत्राऽनुयोज्यः स्वपरतन्त्रविशारदैः ।।२२/११।। વિશેષાર્થ:- આસનને સિદ્ધ કરવાના ચાર ઉપાય પ્રસ્તુત શ્લોકમાં બતાવેલ છે. (૧) ધન વગેરેની ખોટી તૃષ્ણાના લીધે જીવ બધે ભટક-ભટક કરે રાખે છે. જીવનનિર્વાહથી અતિરિક્ત ધનાદિવિષયક તૃષ્ણા ત્રીજી દષ્ટિમાં નથી હોતી. તેથી અવશપણે બાહ્ય દોડધામ કરવાની વૃત્તિ શાંત થાય છે અને જીવમાં સ્થિરતા આવે છે. તેથી તે યોગસાધના કરવા બેસે તો સ્થિરતાથી લાંબા સમય સુધી બેસી શકે છે. (૨) યોગસાધના સિવાયના બીજા કાર્યોની ઉત્સુક્તા-ઉતાવળના લીધે પણ મન ક્ષુબ્ધ બનવાથી શરીર સ્થિરતાપૂર્વક લાંબા સમય સુધી પદ્માસનાદિપૂર્વક ચોક્કસ પ્રકારની જાપ વગેરે સાધનામાં સ્વસ્થતાથી ટકી શકતું નથી. બલા દષ્ટિમાં પ્રવેશ કરનાર યોગી પુરુષની અમુક પ્રકારની આત્મશુદ્ધિ થઈ ગઈ હોવાથી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy