________________
आसनस्थैर्योपायोपदर्शनम्
द्वात्रिंशिका - २२/११
=
असदिति । असत्तृष्णायाः ' असुन्दरलालसायाः त्वरायाश्चाऽन्याऽन्यफलौत्सुक्यलक्षणाया अभावात् (=असत्तृष्णात्वराऽभावात् ) स्थिरं सुखं चाऽऽसनं भवति । प्रयत्नस्य श्लथता = 'अक्लेशेनैवासनं बध्नामी'तीच्छायामङ्गलाघवेन तन्निबन्धः, आनन्त्ये चाऽऽकाशादिगते समापत्तिः = अवधानेन मनस्तादात्म्याऽऽपादनं दुःखहेतुदेहाऽहंकाराऽभावफलं तद्बलात् (= प्रयत्नश्लथताऽऽनन्त्यसमापत्तिबलात्) इह बलायां दृष्टौ भवति । यथोक्तं- “ प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्यां ” ( यो. सू. २-४७) ।।११।। बलायामासनयोगसिद्धिः कस्माद् भवति ? इत्याशङ्कायामाह - 'असदिति । असुन्दरलालसायाः अप्रशस्तोद्देश्यकलिप्सायाः अन्याऽन्यफलोत्सुक्यलक्षणायाश्च = जीवननिर्वाहनिबन्धनाऽतिरिक्तप्रधानाऽप्रधानविविधफलगोचराऽऽकाङ्क्षास्वरूपायाश्च त्वराया विशिष्टशुद्धियोगेन अभावात् सर्वत्र देहचलनराहित्यलक्षणं स्थिरं सुखञ्च = देहावयवव्यथाऽनुत्पत्तिस्वरूपञ्च आसनं मनः प्रणिधानपूर्वकं स्वभ्यस्तं भवति । तदुक्तं योगदृष्टिसमुच्चये
१४९६
=
=
•
नाऽस्यां सत्यामसत्तृष्णा प्रकृत्यैव प्रवर्तते । तदभावाच्च सर्वत्र स्थितमेव सुखासनम् ।। अत्वरापूर्वकं सर्वं गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ।। ← (यो. दृ.स. ५०/५१ ) इति । तदुक्तं अध्यात्मतत्त्वालोकेऽपि
यत्राऽऽसनं योगतृतीयकाङ्गं दृष्टिर्बला सा विदिता तृतीया । दृढञ्च काष्ठाग्निकणप्रकाशोपमं भवेद् दर्शनमत्र दृष्टौ । । महांश्च तत्त्वश्रवणाभिलाषः क्षेपो न योगस्य पथि प्रयाणे । असाधुतृष्णात्वरयोरभावात् स्थिरं सुखं चासनमाविरस्ति ।। इहान्तरायाः शममाप्नुवन्ति द्वन्द्वाभिघातो न च सम्भविष्णुः । अपायदूरीभवनेन कृत्यं भवेत् समस्तं प्रणिधानपूर्वम् ।। ← (अ.त.३/९४-९६) इति । अङ्गलाघवेन हस्त-पादाद्यवयवलाघवेन तन्निबन्ध: = आसनसम्पादनम् । आकाशादिगते आदिपदेन शेषनागादिग्रहणम् । अवधानेन = सावधानतया तात्स्थ्येन वा मनस्तादात्म्याऽऽपादनं = चेतसः तदञ्जनतालक्षणैकीकरणसम्पादनम् । तद्बलात् = तयोः प्रयत्नशैथिल्याऽऽनन्त्यसमापत्त्योः सामर्थ्याद् इह बलायां आसनजयो भवति । अत्र योगसूत्रसंवादमाह - 'प्रयत्ने 'ति । अत्र राजमार्तण्डव्याख्यैवम् तद् आसनं प्रयत्नशैथिल्येन आनन्त्यसमापत्त्या च स्थिरसुखं भवतीति * આસનયના કારણોને ઓળખીએ :
•
=
Jain Education International
ટીકાર્થ :- ખરાબ લાલસા તથા નવા-નવા ફળની ઉત્સુકતા સ્વરૂપ ઉતાવળ ન હોવાના કારણે આસન સ્થિર અને સુખાકારી બને છે. ‘તકલીફ વિના પદ્માસન-સિદ્ધાસન વગેરે આસનને હું કરું' આ પ્રકારની ઈચ્છા હોય ત્યારે પ્રયત્નની શિથિલતા = હાથ-પગ વગેરે અંગોની હળવાશથી આસન જમાવવું તે આસનજય કરવામાં સહાયક છે. તથા આકાશ વગેરે વ્યાપક પદાર્થના આનન્ય વિશે સાવધાનીથી-એકાગ્રતાથી મનને તદ્રુપ કરી દેવું તે આનન્ત્યસમાપત્તિ કહેવાય. દુઃખનું કારણ શરીરમાં અહંકારબુદ્ધિ છે. આનન્ત્યસમાપત્તિ દ્વારા તે અહંકારબુદ્ધિ ૨વાના થાય છે. તે કારણે આનન્યસમાપત્તિના બળથી પણ બલાદિષ્ટમાં આસનજય થાય છે. જેમ કે યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે ‘પ્રયત્નની શિથિલતા અને આનન્ત્યસમાપત્તિ દ્વારા આસનસિદ્ધ થાય છે.’ (૨૨/૧૧)
१. हस्तादर्श ... तृष्णा अ' इति त्रुटितः पाठः । २ हस्तादर्शे 'श्लघधता' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'श्लघता ' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ '...रबाधनेन...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org