SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ • तारायां ध्यानादौ सस्पृहा जिज्ञासा • द्वात्रिंशिका - २२/८ = स्वकृत्य इति । स्वकृत्ये स्वाचारे कायोत्सर्गकरणादौ विकले विधिहीने त्रासो 'हा 'विराधकोऽह'मित्याशयलक्षणः अधिके = स्वभूमिकापेक्षयोत्कृष्टे आचार्यादिकृत्ये जिज्ञासा 'कथमेतदेवं स्यादिति' सस्पृहा अभिलाषसहिता । १४९० = = विधिहीने = विधि-यतनादिबाह्याऽङ्गवैकल्ये, न तूपयोग - प्रणिधानादिहीने, तथाविधक्षयोपशमविरहात् । स्वकृत्यवैकल्ये त्रासो हि पापभीरुता-धर्माचारगोचरतीव्ररुच्योः कार्यम् । अणुमात्राऽवद्ये भयदर्शित्वलक्षणा पापभीरुता बौद्धदर्शने शुक्लधर्मतयाऽभ्युपगम्यते । तदुक्तं अङ्गुत्तरनिकायसूत्रे “द्वेमे, भिक्खवे, धम्मा सुक्का । कतमे द्वे? हिरी च ओत्तप्पञ्च । इमे खो, भिक्खवे, द्वे धम्मा सुक्का "ति ← (अंगु.१-२-८, पृ.६७) । 'हिरी लज्जा’, ‘ओत्तप्पं = पापभीतिः' इत्यवधेयम् । एतेन अणुमत्तेसु वज्जेसु भयदस्साविनो ← (म.नि. आकांक्ष्यसूत्र - १ ।१ ।६ ६४ पृ. ४१ ) इति मज्झिमनिकायवचनं व्याख्यातम्। आचार्यादिकृत्ये ध्यानादौ । तदुक्तं योगदृष्टिसमुच्चये कृत्येऽधिकेऽधिकगते जिज्ञासा लालसाऽन्विता । तुल्ये निजे तु विकले सन्त्रासो द्वेषवर्जितः ।। ← ( यो दृ.स. ४६ ) । जिज्ञासा अभिलाषसहिता चिकीर्षान्विता आचार्यादिप्रशंसायुता च । इयं च मोक्षबीजम् । तदुक्तं ग्रन्थकृतैव वैराग्यकल्पलतायां → दृष्ट्वा सदाचारपरान् जनान् या शुद्धप्रशंसाऽन्विततच्चिकीर्षा । सद्धर्मरागः स हि मोक्षबीजं, न धर्ममात्रप्रणिधानरूपः ।। बाह्यान्युदाराणि जिनेन्द्रयात्रास्नात्रादिकर्माण्यत एव भक्त्या । बुधैः समालोकनलोकबीजाधानाऽऽवहत्त्वादुपबृंहितानि ।। ← (वै.क.ल. १ । ४४-४५) इति । इदञ्चात्रावधेयम्- ‘स्वकृत्ये विकले त्रास' इत्यस्याऽनन्तरं जिज्ञासाया दर्शितत्वात् स्वकर्तव्यपालनगोचरपरिपक्वाऽभिरुचि-दृढपालनाद्युत्तरमेव व्यापकधर्मविषयिणी तात्त्विकजिज्ञासा सम्भवतीति द्योतितम् । सम्मतञ्चेदं परेषामपि । तदुक्तं शम्भुगीतायाम् → धर्मात्मा वै यदा धर्मं विशेषं पालयन् मुहुः । नूनमस्य पराकाष्ठां धर्मस्य लभते हिताम् ।। साधारणस्य धर्मस्य निखिलव्यापकं तदा I स्वरूपं ज्ञातुमीष्टेऽसौ सर्वजीवहितप्रदम् ।। तदन्तिके तदा सर्व्वे धर्ममार्गा भजन्त्यहो ! । वात्सल्यं हि यथा पुत्राः पौत्राश्च सन्निधौ पितुः । । ← (शं.गी.१/१३७-१३९) इति । यद्वा प्रागुक्तरीत्या ( द्वा. द्वा.२०/२७, पृ. १४००) षोडशकवृत्त्यनुसारेणाऽत्राऽद्वेषपूर्विका विशुद्धात्मादितत्त्वगोचरज्ञानविषयिणीच्छा जिज्ञासापदेनावगन्तव्या । सम्भवति चाऽस्यां → एष वाव जिज्ञासितव्योऽन्वेष्टव्यः सर्वभूतेभ्योऽभयं दत्त्वाऽरण्यं गत्वाऽथ बहिः कृत्वेन्द्रियार्थान् स्वाच्छरीरादुपलभेतैनम् ← (मैत्रा. ७/८ ) इति मैत्रायण्युपनिषदाद्युक्ता शुद्धात्मतत्त्वज्ञानेच्छेति यथातन्त्रं परममाध्यस्थ्येन भावनीयम् । - = तथा → चित्तभ्रमकरस्तीव्रराग-द्वेषादिवेदनः । संसारोऽयं महाव्याधिर्नानाजन्मादिविक्रियः ।। अनादिरात्मनोऽमुख्यो भूरिकर्मनिदानकः । यथानुभवसिद्धात्मा सर्वप्राणभृतामयम् ।। ← ( यो. सा. प्रा. ८/ ટીકાર્થ :- કાયોત્સર્ગ કરવો વગેરે પોતાના આચારમાં વિધિની ખામી થાય ત્યારે ‘હાય ! હું વિરાધક છું.’ આવા પ્રકારના આશયરૂપ ત્રાસને બીજી દૃષ્ટિવાળા જીવ અનુભવે છે. પોતાની ભૂમિકાની અપેક્ષાએ ઊંચી ભૂમિકા ઉપર આરૂઢ થયેલા આચાર્ય ભગવંત વગેરેના કર્તવ્ય વિશે બીજી દૃષ્ટિવાળા જીવને અભિલાષયુક્ત જિજ્ઞાસા હોય છે કે ‘આ કાર્ય આ પ્રમાણે કેમ છે ? આમ કઈ રીતે થાય ?' તથા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy