SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ १४९१ • तत्त्वजिज्ञासा कर्मप्रकृतिमोक्षणी • दुःखोच्छेदार्थिनां = संसारक्लेशजिहासूनां चित्रे = नानाविधेपरिश्रमे = तत्तन्नीतिप्रसिद्धिक्रियायोगे कथन्ताधीः = कथम्भावबुद्धिः । कथं नानाविधा मुमुक्षुप्रवृत्तिः कार्येन ज्ञातुं शक्यते ? इति । तदाह- “दुःखरूपो भवः सर्व उच्छेदोऽस्य कुतः कथम् । चित्रा सतां प्रवृत्तिश्च साऽशेषा ज्ञायते कथम् ।।” (यो.दृ.४७) ।।८।। १६-१७) इति योगसारप्राभृतवचनतः → जम्मदुक्खं जरादुक्खं रोगा य मरणाणि य । अहो दुक्खो हु संसारो जत्थ कीसंति जंतुणो ।। 6 (उत्त.१९/१५, वै.श.३३) इति उत्तराध्ययनसूत्र-वैराग्यशतकवचनादितः स्वानुभवतश्च निखिलः संसारो दुःखात्मक इति निश्चित्य संसारक्लेशजिहासूनां नानाविधे तत्तत्रीतिप्रसिद्धक्रियायोगे = अनेकतन्त्रसिद्ध चैत्यवन्दनादौ क्रियायोगे सति कथं = केन प्रकारेण नानाविधा मुमुक्षुप्रवृत्तिः कात्स्ये न ज्ञातुं शक्यते? इति कथन्ताधीरत्र वर्तते। प्रकृते → कोऽहं कथमिदं किं वा कथं मरणजन्मनी?। विचारयान्तरे वेत्थं महत् तत्फलमेष्यसि ।। (अन्न.१/४०) इति अन्नपूर्णोपनिषद्वचनमपि तत्त्वजिज्ञासोत्थापकतयाऽवसेयम् ।। __तदाह श्रीहरिभद्रसूरिः योगदृष्टिसमुच्चये 'दुःखेति। तवृत्तिश्चैवम् → दुःखरूपो भवः सर्वः, जन्म-जरादिरूपत्वात् । उच्छेदोऽस्य भवस्य कुतो हेतोः क्षान्त्यादेः कथं = केन प्रकारेण ? चित्रा सतां = मुनीनां प्रवृत्तिः चैत्यकर्मादिना प्रकारेण साऽशेषा ज्ञायते कथम् ? तदन्याऽपोहतः - (यो.दृ.स.४७ वृत्ति) इति । इयञ्च तत्त्वजिज्ञासा कदाग्रहशून्या भावतः तत्त्वप्रतिपत्तिरूपैवाऽवसेया । सा च सम्यक्त्वहेतुत्वात् महाकल्याणनिबन्धना सर्वदर्शनेषूच्यते । इदमेवाभिप्रेत्य हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये → किं तत्त्वमिति जिज्ञासा या सर्वत्राऽऽग्रहं विना । सौधात् तद्भावतस्तत्त्वप्रतिपत्तिः सतां मता ।। सम्यक्त्वजननी सैषा लोकसंज्ञाऽचलाऽशनिः । दिदृक्षा चलनावस्था सैषा प्रकृतिमोक्षणी ।। मारक्षोभकरी सेयं प्रणिधानक्रिया परा । लोकोत्तरपदाऽऽकाङ्क्षा सेयं प्रमुदिताऽऽस्पदम् ।।। ब्रह्मसङ्गकरी चैव तथा भवपलायनी । कल्याणधेनुः परमा सर्वसम्पत्करीति च ।। प्रथमा गीयतेऽवस्था मुक्तिसाधनवादिभिः । दुरापा पापसत्त्वानामवन्ध्या मुक्तिसिद्धये ।। समयाख्याऽत्र दीक्षाऽस्य तद् ब्रूयाद् यस्य तात्त्विकी । सद्रत्नशुद्धिप्राप्तिवन्निरर्गला नियोगिनः ।। 6 (ब्र.सि.स.५६-६१) इत्युक्तमिति गम्भीरधिया भावनीयं पूर्वाऽपराऽनुसन्धाननिपुणैः (द्वा.द्वा.२१।३ पृष्ठ.१४२६ दृश्यताम्) ।।२२/८ ।। સંસારના ક્લેશસ્વરૂપ દુઃખનો ઉચ્છેદ કરવાની ઈચ્છાવાળા યોગી પુરુષોના વિવિધ પ્રકારના તે-તે શાસ્ત્રોમાં પ્રસિદ્ધ સાધનાપરિશ્રમને વિશે કથંભાવની બુદ્ધિ હોય છે. મતલબ કે “મુમુક્ષુઓની અનેક પ્રકારની સાધનાપદ્ધતિ કઈ રીતે સંપૂર્ણપણે ઓળખી શકાય ?” આવી જિજ્ઞાસાબુદ્ધિ બીજીયોગદષ્ટિવાળા જીવમાં હોય છે. તેથીજ યોગદૃષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે “સંસાર દુઃખરૂપ છે. સંસારનો સંપૂર્ણ નાશ કયા સાધનથી થાય અને કેવી રીતે થાય ? તથા ધર્મસાધનામાં મહાત્માઓની પ્રવૃત્તિ જુદી-જુદી દેખાય छे. ते तमाम प्रवृत्ति ते 0 शय ?' मापुंजीष्टिवाणो १ वियारे छे. (२२/८) વિશેષાર્થ :- પોતાના કરતાં ઊંચી ભૂમિકામાં રહેલા આચાર્ય વગેરે ભાવયોગીઓની ધ્યાનાદિ ઊંચી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy