SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ • इषुलक्ष्यक्रियोपमैदम्पर्यम् • द्वात्रिंशिका -२१/२० = योगेति । साधुभ्यः = साधूनाश्रित्य योग क्रिया-फलाऽऽख्यं' अवञ्चकत्रयं = योगाऽवञ्चकक्रियाऽवञ्चक-फलाऽवञ्चकलक्षणं अव्यक्तः समाधिः श्रुतः, तदधिकारे पाठात् । इषुलक्ष्यक्रियोपमः शरशरव्यक्रियासदृशः । यथा शरस्य शरव्यक्रिया तदविसंवादिन्येव, अन्यथा तत्क्रियात्वाऽयो - गात्, तथा सद्योगाऽवञ्चकादिकमपि सद्योगाद्यविसंवाद्येवेति भावः । । १९ ।। हेतुरत्राऽन्तरङ्गश्च तथाभावमलाल्पता । ज्योत्स्नादाविव रत्नादिमलाऽपगम उच्यते ।। २० ।। हेतुरिति । अत्र = ' सत्प्रणामादौ अन्तरङ्गश्च हेतुः 'तथाभावमलस्य कर्मसम्बन्धयोग्यतालक्षणअवञ्चकोदयत इत्युक्तमित्यधुना तद्भेदानेवाऽऽह - 'योगे 'ति । पूर्वं योगविवेकद्वात्रिंशिकायां (द्वा.द्वा.१९/ २९-३०, भाग-५, पृ.१३१७- १३१९) एते त्रयो भेदा व्याख्याता एवेहाऽनुसन्धेयाः । तदधिकारे = अव्यक्तसमाध्यधिकारे पाठात् = योगाऽवञ्चकादीनां भणनात्। आद्याऽवञ्चकयोगलभ्या साधुसङ्गतिः मित्रायां हितोत्कर्षनिदानं भवति । तदुक्तं न्यायविजयेन अध्यात्मतत्त्वालोके दुर्बोधधर्मे विपुलोऽम्बुवाहो दुर्वर्त्तनद्रौ निशितः कुठारः । सत्सङ्गतिर्या विबुधैर्न्यगादि तत्प्राप्तिरत्र प्रगतेर्निदानम् ।। ← (अ.तत्त्वा.३/८५)। यथा लक्ष्यवेधधनुर्धरप्रयुक्तस्य शरस्य शरव्यक्रिया लक्ष्यक्रिया तत्परतया तदविसंवादिन्येव लक्ष्याऽवेधलक्षणविसंवादरहितैव भवति, अन्यथा = तद्विसंवादे तत्क्रियात्वाऽयोगात् = शरव्यक्रियात्वाऽसम्भवात् तथा सद्योगाऽवञ्चकादिकमपि सद्योगाद्यविसंवाद्येव । साधूनाश्रित्य योगाऽवञ्चकः तद्योगाविसंवादी । एवं तद्वन्दनादिक्रियां तत्फलं चाऽऽश्रित्य एष एवमेव द्रव्यत इति व्यक्तं योगक्रियाफलाऽऽख्यं यत् श्रूयतेऽवञ्चकत्रयम् । साधूनाश्रित्य परममिषुलक्ष्यक्रियोपमम् ।। ← ( यो दृ.स. ३४ ) इति योगदृष्टिसमुच्चयकारिकाया वृत्तौ । अत एव तत्राऽरुचिर्न कार्येति ध्वन्यते । तदुक्तं जैनगीतायां अरुचिर्न कदा कार्या साधूनां दर्शने जनैः । अश्रद्धा न कदा कार्या सूरि-वाचक- साधुषु ।। ← (जै. गी . २२९) इषुलक्ष्यक्रियोपमोपदर्शनेन तथाविधात्मशुद्धि-गुणरुचि-लक्ष्याऽसंमोहाऽप्रमत्ततादिगर्भा तन्मयताऽत्राऽमोघत्वोपधायकतयोपदर्शयितुमभिप्रेता । प्रकृते धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ।। ← ( रु.ह.३८) इति रुद्रहृदयोपनिषवचनं स्मर्तव्यम् ।।२१ / १९।। છે. બાણની વેધ કરવા લાયક સ્થળ તરફ ગતિ થાય તેવી ઉપમા અવંચકયોગને આપવામાં આવેલ છે. જેમ અમોઘ બાણની વેધ કરવા યોગ્ય સ્થાન તરફ ગતિ અવિસંવાદી અમોઘ હોય છે. બાકી તો તે વેક્રિયા જ ન બની શકે. તેમ સદ્યોગાવંચક વગેરે યોગો પણ સદ્યોગ વગેરેના અવિસંવાદી अरस ४ होय छे. जेवो नहीं आशय छे. (२१/१८) વિશેષાર્થ :- અર્જુન બાણ ફેંકે અને લક્ષ વિંધાય નહિ તેવું ન બને. તેમ અવંચકયોગ પણ સાધુના યોગ વગેરેને નિષ્ફળ જવા દેતો નથી. ૧૯મી બત્રીસીના ૨૯-૩૦ શ્લોકમાં અવંચક યોગ કહેલ છે.(૨૧/૧૯) १४५८ = = = ગાથાર્થ :- અહીં તથાવિધ ભાવમલની અલ્પતા એ આંતરિક હેતુ છે. જેમ રત્નની કાંતિ વગેરેમાં રત્ન વગેરેના મેલની નિવૃત્તિ અંતરંગ કારણ કહેવાય છે તેમ ઉપરોક્ત વાત સમજવી. (૨૧/૨૦) ટીકાર્થ :- સજ્જનોને -સાધુ-સંતોને પ્રણામ વગેરે કરવામાં આંતરિક હેતુ છે તથાવિધ કર્મસંબંધની १. हस्तादर्शे '...फलख्यावंय.' इति पाठः । स चार्यतः शुद्धोऽपि मूलानुसारेणाऽशुद्धः । २ हस्तादर्शे 'शया' इत्यशुद्धः त्रुटितश्च पाठः । ३. हस्तादर्शे 'सत्प्रण्य...' इत्यशुद्धः पाठः । ४. हस्तादर्शे ' तथाभव...' इत्यशुद्धः पाठो मूलानुसारेण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy