________________
• सत्सङ्गमाहात्म्यद्योतनम् •
१४५७ योग-क्रिया-फलाऽऽख्यं च साधुभ्योऽवञ्चकत्रयम्। श्रुतः समाधिरव्यक्त इषुलक्ष्यक्रियोपमः।।१९।। प्रकृते → संसर्गः सदाचारैः - (ध.बिं.१।३०) इति धर्मबिन्दुवचनं, → गुणवदाश्रयान्निर्गुणोऽपि गुणी भवति — (चा.सू.१७६) इति चाणक्यसूत्रं, → संसर्गजा गुणाः - (स्क.पु.मा.को.४५/२५) इति स्कन्दपुराणवचनं, → सतां सङ्गो हि भेषजम् (हितो.४/१०) इति हितोपदेशवचनं, → साधोः सङ्गमनाद् लोके न किञ्चिद् दुर्लभं भवेत् । बहुजन्मसु न प्राप्ता बोधिर्येनाऽधिगम्यते ।। (प.पु.१३/१०१) इति पद्मपुराणवचनं, → सूरि-वाचक-साधूनां साध्वीनां दर्शनं शुभम् । दुर्बुद्धिनाशकं शीघ्रं सर्वमङ्गलकारणम् ।। - (जै.गी.२२८) इति जैनगीतावचनं च संवदति । सद्योगफलं महावीरचरिते → तमांसि ध्वंसन्ते परिणमति भूयानुपशमः, सकृत्संवादेऽपि प्रथत इह चामुत्र च शुभम् । अथ प्रत्यासङ्गः कमपि महिमानं वितरति, प्रसन्नानां वाचः फलमपरिमेयं प्रसुवते ।। - (म.च.१/१२) इति, आदिपुराणे → धुनोति दवथु स्वान्तात्तनोत्यानंदधुं परम् । धिनोति च मनोवृत्तिमहो साधुसमागमः ।। - (आ.पु.९/१६०) इति, बृहन्नारदीयपुराणे → जडोऽपि याति पूज्यत्वं सत्सङ्गात् जगतीतले । (बृ.ना.पु.८/५) इति, नीतिशतके → जाड्यं धियो हरति सिञ्चन्ति वाचि सत्यं, मानोन्नतं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्ति, सत्सङ्गतिः कथय किन्न करोति पुंसाम् ?।। (नी.श.२२) इति, पापताडितके → गुणवान् खलु गुणवतां सन्निकर्षः 6 (पा.ता.पृ.३१) इति, सुभाषितनीव्यां → महान्तं पुरुषं प्राप्य कञ्चित्सत्त्वप्रवर्तकम् । प्रतिबुद्धो जनस्तेन परमं साम्यमश्नुते ।। - (सु.नी.८/८) इति, हितोपदेशे → कीटोऽपि सुमनःसङ्गाद् आरोहति सतां शिरः । अश्माऽपि याति देवत्वं महद्भिः सुप्रतिष्ठितः ।। - (हितो.२१) इति, भामिनीविलासे → दूरीकरोति कुमतिं विमलीकरोति चेतश्चिरन्तनमघं चुलुकीकरोति । भूतेषु किं च करुणां बहुलीकरोति सङ्गः सतां किमु न मङ्गलमातनोति ।। - (भा.वि.१/११९) इति, पञ्चतन्त्रे → महाजनस्य सम्पर्कः कस्य नोन्नतिकारकः । पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ।। - (पञ्च.३/५९) इति, सुवृत्ततिलके च → आत्मशुद्धिजननी गङ्गेव सत्सङ्गतिः ।। - (सु.ति.१६८) इति दर्शितमित्यवधेयम् । प्रकृते च ‘एवंविधस्य जीवस्य' (यो.दृ.स.३३) इत्यादिरूपेण पूर्वं (द्वा.१९/२९,पृ.१३१८) दर्शिता योगदृष्टिसमुच्चयकारिकाऽनुसन्धया । मित्रादिदृष्टिचतुष्केऽवञ्चकयोगो हेतुतः स्थिरादिषु च हेतु-स्वरूपाऽनुबन्धतो विज्ञेयो यद्वा निश्चयनयाऽभिप्रायेण मित्रादिचतुष्टयेऽवञ्चकोदयो द्रव्यतः स्थिरादिषु च भावत इति ।।२१/१८ ।।
વિશેષાર્થ :- પરપીડાપરિહારી કલ્યાણકારી ભદ્રકમૂર્તિ પ્રથમદષ્ટિવાળા જીવને પ્રણામ વગેરે યોગબીજનું નિમિત્ત મળે છે. તેને મળનારા નિમિત્તના સંયોગો પ્રાયઃ શુભ જ હોય છે. પોતે બીજાને સારું નિમિત્ત બને તો જે નિમિત્તો પોતાને મળે તે સારા જ બને અથવા સારા નિમિત્ત જ પોતાને મળે.(૨૧/૧૮)
- मयऽयोग समाधिविशेषस्व३५ छ. . ગાથાર્થ- સાધુને આશ્રયીને યોગ, ક્રિયા અને ફળ નામે ત્રણ અવંચક યોગ અવ્યક્ત સમાધિરૂપે સંભળાય છે. બાણની લક્ષ્ય તરફની ક્રિયા સમાન આ અવંચક યોગ છે. (૨૧/૧૯)
ટીકાર્થ :- સાધુ ભગવંતોને આશ્રયીને યોગાવંચક, ક્રિયાવંચક અને ફલાવંચક યોગ સ્વરૂપ ત્રણ યોગ અવ્યક્ત સમાધિસ્વરૂપ સંભળાય છે. કારણ કે અવ્યક્ત સમાધિના પ્રકરણમાં તે જણાવવામાં આવેલ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org