SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ • नानादर्शनेषु वैराग्यविचारः • १४५१ शुद्धो = निर्दोष औषधदानादेरभिग्रहः (=शुद्धौषधदानाद्यभिग्रहः), भावाऽभिग्रहस्य विशिष्टक्षयोपशमलक्षणस्य भिन्नग्रन्थेरेव भावेऽपि द्रव्याभिग्रहस्य 'स्वाशयशुद्धस्याऽन्यस्यापि सम्भवात् । तथा सिद्धान्तं = आर्षवचनं आश्रित्य, न तु कामादिशास्त्राणि । विधिना = न्यायाऽऽत्तधनसत्प्रयोगादिलक्षणेन कामा, ये च सम्परायिका कामा, या च दिट्ठधम्मिका कामसभा, या च सम्परायिका कामसञ्जाउभयमेनं मारधेय्यं, मारस्सेस विसयो, मारस्सेस निवायो, मारस्सेस गोचरो । एत्थेते पापका अकुसला मानसा अभिज्झापि ब्यापादापि सारम्भावि संवत्तन्ति - (म.नि.३।१।६।६६,पृ.४६) इति आनिञ्ज्यसम्प्रेयसूत्रस्य च परिणमनद्वाराऽपि सहजा भवोद्विग्नता तस्य सम्भवेत् । आदीनवः = दुष्परिणामः, मुसा = मिथ्या, दिट्ठधम्मिकाः = इहलौकिकाः, सम्परायिकाः = पारलौकिकाः, विषयः = वासस्थानं, निवायः = कूटजालं, गोचरः = लक्ष्यः, शिष्टं स्पष्टम् । ____ अथ स वैदिकादितन्त्रगतश्चेत्, तदा → संयोगा विप्रयोगान्ता जातानां प्राणिनां ध्रुवम् । बुबुदा इव तोयेषु भवन्ति न भवन्ति च ।। - (म.भा.शांतिपर्व-२७/३०) इति महाभारतादिवचनपरिणमनतोऽपि तस्य सहजा भवोद्विग्नता सम्भवेदित्यादिकं यथागमं स्व-परतन्त्ररहस्यवेदिभिरनुयोज्यमतिगम्भीरधिया । सहजैतादृशभवोद्विग्नतापरिकलितः सन् मित्रायामवस्थितो योगी भावतो मन्यते यदुत- महामोहो ह्युन्माद इव वर्तते, अखिलाऽकार्यप्रवृत्तिहेतुतया, ज्वर इव रागः सर्वाङ्गीणमहातापकारणतया, शूलमिव द्वेषो गाढहृदयवेदनानिमित्ततया, पामेव कामोऽतितीव्रविषयतृष्णाकण्डूकारितया, गलत्कुष्ठमिव भय-शोकाऽरतिसम्पाद्यं दैन्यं बहुजनजुगुप्साहेतुतया चित्तोद्वेगविधायितया च, नयनाऽऽमय इवाऽज्ञानं विवेकदृष्टिव्याबाधानिमित्ततया, जलोदरमिव प्रमादः सदनुष्ठानोत्साहविघटकतयेति । अत एवाऽस्याऽऽसन्नमुक्तिगामित्वमचरमावर्त्यपेक्षयाऽवगन्तव्यम् । तदुक्तं मरणसमाधिप्रकीर्णके → जह जह दोसोवरमो जह जह विसएसु होइ वेरग्गं । तह तह वियाणाहि आसन्नं से परमपयं ।। 6 (म.स. ६३२) इति। - विशिष्टक्षयोपशमलक्षणस्य = अनन्ताऽनुबन्ध्यादिकषायक्षयोपशमोपहितस्य भावाऽभिग्रहस्य निर्दोषौषधदानादिगोचरस्य भिन्नग्रन्थेरेव परमार्थतः भावेऽपि = सद्भावेऽपि मित्रायां द्रव्याभिग्रहस्य स्वाशयशुद्धस्य = सामानाधिकरण्यसम्बन्धेन स्वकीयान्तःकरणपरिणतिशुद्धिविशिष्टस्य अन्यस्याऽपि = अभिन्नग्रन्थेरपि तथाविधकालादिभावेन सम्भवात् । न्यायाऽऽत्तधनसत्प्रयोगादिलक्षणेनेति । धर्मबिन्दुवृत्तिकृन्मताऽनुसारतो न्यायेन = शुद्धमान तुलोचितતે જ રીતે ઔષધ-દવા સાધુઓને આપવાનો વિશુદ્ધ અભિગ્રહ કરવો તે પણ યોગબીજ છે. જો કે ભાવ અભિગ્રહ તો વિશિષ્ટ ક્ષયોપશમસ્વરૂપ હોવાથી ગ્રંથિભેદ કરનારા સમ્યમ્ દષ્ટિ જીવને જ હોય છે. તો પણ મિત્રાદષ્ટિમાં વર્તતા અભિન્નગ્રન્થિવાળા યોગીને પણ તથાવિધ દ્રવ્યાભિગ્રહ સંભવી શકે છે કે જે પોતાના અંતરંગ આશયથી વિશુદ્ધ થયેલો હોય. માટે વિશુદ્ધ દ્રવ્યાભિગ્રહ અથવા દ્રવ્યાભિગ્રહની વિશુદ્ધિ મિત્રાદેષ્ટિમાં અસંભવિત નથી. તથા કામશાસ્ત્ર, અર્થશાસ્ત્ર વગેરે ગ્રન્થને નહિ પરંતુ આર્થસિદ્ધાન્તપ્રતિપાદક શાસ્ત્રને આશ્રયીને ન્યાયોપાર્જિત સંપત્તિનો સુંદર વિનિયોગ-સદુપયોગ વગેરે १. मुद्रितप्रतौ 'स्वाश्रय...' इत्यशुद्धः पाठः । २. हस्तादर्श '..स्योपि' इत्यशुद्धा पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy