________________
१४५०
• सहजभववैराग्यप्रतिपादनम् • द्वात्रिंशिका-२१/१५ ____ भवादिति । भवात् = संसारात् उद्विग्नता = इष्टवियोगाद्यनिमित्तकसहजत्यागेच्छालक्षणा
बीजान्तरमप्याह- 'भवादिति । कामभोगाऽसारतादिप्रतिपादकस्य → हा ! असुइसमुप्पन्नया य निग्गया य तेण चेव बारेणं । सत्तया मोहपसत्तया रमंति तत्थेव असुइदारयम्मि ।। - (तं.वै.११९) इति तण्दुलवैचारिकप्रकीर्णकसूत्रस्य, → संझब्भरागसरिसे जलबुब्बुयसमाणो कुसग्गजलबिन्दुसण्णिभे, सुविणगदंसणोवमे, विज्जुलयाचंचले - (अनुत्त. ३।१५) इति अनुत्तरोपपातिकदशाङ्गसूत्रस्य, → देवा वि सइंदगा न तत्तिं न तुष्टुिं उवलभंति - (प्र.व्या. १।५।१९) इति प्रश्नव्याकरणसूत्रवचनस्य, → न हु सक्को तिप्पेउं जीवो संसारियसुहेहिं - (म.वि.२५०) इति मरणविभक्तिप्रकीर्णकवचनस्य, → सुट्ट वि मग्गिज्जंतो कत्थवि कयलीइ नत्थि जह सारो । इंदियविसएसु तहा नत्थि सुहं सुट्ट वि गविलृ ।। (भ.प.प्र.१४४, आ.प.७०१) इति भक्तपरिज्ञाऽऽराधनापताकाप्रकीर्णकयोः वचनस्य, → संभोगकाले य अतित्तिलाभो - (उत्त. ३२/४१) इति उत्तराध्ययनसूत्रस्य, → वपुहं धनं दाराः पुत्रा मित्राणि शत्रवः । सर्वथाऽन्यस्वभावानि मूढः स्वानि प्रपद्यते ।। दिग्देशेभ्यः खगा एत्य संवसन्ति नगे नगे । स्व-स्वकार्यवशाद् यान्ति देशे दिक्षु प्रगे प्रगे ।। आरम्भे तापकान् प्राप्तावतृप्तिप्रतिपादकान्। अन्ते सुदुस्त्यजान् कामान् कामं कः सेवते सुधीः? ।।
6 (इष्टो.८,९,१७) इति इष्टोपदेशकारिकात्रितयस्य, → गेहाः परिजनो वित्तं कलत्रं मित्रमेव च । स्वप्नेन्द्रजालसदृशमनायैव केवलम् ।। - (ब्र.सि.८०) इति ब्रह्मसिद्धान्तसमुच्चयवचनस्य चाऽविगानेनाऽन्तःप्रतिपत्त्या संसाराद् उद्विग्नता इष्टवियोगाद्यनिमित्तकसहजत्यागेच्छालक्षणा जायते, संसारस्य जन्मादिरूपत्वावगमात् । → न सा जाइ न सा जोणी न तं ठाणं न तं कुलं । न जाया न मुआ जत्थ सव्वे जीवा अणंतसो।। तं किंपि नत्थि ठाणं लोए वालग्गकोडिमित्तं पि। जत्थ न जीवा बहुसो सुहदुक्खपरंपरं पत्ता ।। सव्वाओ रिद्धीओ पत्ता सव्वे वि सयणसंबंधा। संसारे ता विरमसु तत्तो जइ मुणसि अप्पाणं ।। - (वै.श.२३,२४,२५) इति वैराग्यशतकाद्युक्तरीत्या संसारनिर्गुणताऽवगमात्सहजस्तस्य संसाराद्विरक्तभावः । इष्टवियोगादिनिमित्तको दुःखगर्भितो भवविरागस्तु तत्त्वत आर्तध्यानरूप एव, तदुक्तं 'प्रत्युत्पन्नात्तु दुःखाद् निर्वेदो द्वेष ईदृशः, न वैराग्यम्' (योगदृष्टिवृत्तौ उद्धृतः २७) इति ।
___ मित्रायामवस्थितो योगी बौद्धदर्शनगतश्चेत् तदा → अप्पस्सादा कामा वुत्ता भगवता बहुदुक्खा बहुपसाया, आदीनवो एत्थ भिय्यो । अढिकङ्कलूपमा कामा वुत्ता भगवता, मंसपेसूपमा कामा वुत्ता भगवता, निणुक्कूपमा... अङ्गारकासूपमा... सपिनकूपमा... योचितकूपमा... रुक्काफलूपमा... असिसूनूपमा... सत्तिसूलूपमा... सिप्पसिरूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्योति 6 (म.नि. १।२।२।२३४-पृष्ठ.१८३) इति मज्झिमनिकायगतस्य अलग पमसूत्रस्य → अनिच्चा, भिक्खवे ! कामा तुच्छा मुसा मोसधम्मा मायाकतमेतं, भिक्खवे बाललापनं । ये य दिट्ठधम्मिका 1 ટીકાર્ચ - ઈષ્ટવિયોગ, અનિષ્ટ સંયોગ વગેરે નિમિત્તોને પામ્યા વિના જ સહજ રીતે જ સંસારથી છૂટવાની ઈચ્છા જાગવી તે પણ યોગબીજ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org