________________
वैयावृत्त्यस्य नानादृष्टिषु नानास्वरूपम् •
१४४९
भवादुद्विग्नता शुद्धौषधदानाद्यभिग्रहः । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ।। १५ ।। यद्यपि षोडशके एवं गुरुसेवादि च काले सद्योगविघ्नवर्जनया । इत्यादिकृत्यकरणं लोकोत्तरतत्त्वसम्प्राप्तिः ।। ← ( षोड . ५/१५ ) इत्येवं वैयावृत्त्यस्य लोकोत्तरतत्त्वसम्प्राप्त्यन्तर्भाव आवेदितः तथापि तस्य मित्रायां मार्गाभिमुखभूमिकोचितयोगौपयिकविशुद्धलौकिकतत्त्वाऽन्तर्भावोऽवसेयः । तारायां दृष्टौ तु तस्य मार्गपतितभूमिकोचित-योगोपायभूतविशुद्धलौकिकतत्त्वान्तर्भावः, बलायां प्राथमिकमार्गानुसारिभूमिकोचित-योगहेतु-विशुद्धतरलौकिकतत्त्वान्तर्भावः, दीप्रायाञ्च दृष्टौ काष्ठाप्राप्तमार्गानुसारिभूमिकोचित-भावयोगाऽऽक्षेपकविशुद्धतमलौकिकतत्त्वाऽन्तर्भावः कार्यः । ग्रन्थिभेदोत्तरञ्च तस्य लोकोत्तरतत्त्वान्तर्भावो विज्ञेय इति यथागममग्रेऽपि सर्वत्र विभावनीयं पर्युपासितगुरुकुलैः । इत्थञ्च प्रकृते विशुद्धवैयावृत्त्यस्य योगबीजत्वं सङ्गच्छतेतराम् ।
•
आचार्यादिवैयावृत्त्यकरणाऽवसरे च स्वभूमिकामपि सेव्याऽनुमेयां विचारपदवीमसावारोपयति स्वचेतसि। अतः पूर्वं (द्वाद्वा.२०/२७ भाग - ५ पृ. १४०१ ) संन्यासगीतासंवादेनोद्दिष्टा सप्तविधकर्मयोगगता स्थितः किं मूढ एवाऽस्मि प्रेक्ष्योऽहं शास्त्र - सज्जनैः । वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः । । ← (रा.गी. ७/५, वरा.४/३) इति रामगीता-वराहोपनिषद्व्यावर्णितस्वरूपा शुभेच्छाभिधाना प्रथमा भूमिकाऽत्र तारायाञ्चाऽविगानेन सम्भवतीत्यवधेयम् । एतेन स्थितः किं मूढ एवाऽऽस्मि प्रेक्ष्येऽहं शास्त्र - सज्जनैः ← ( महो. ५/ २७) इत्यादिरूपेण महोपनिषदि दर्शिता प्रथमा ज्ञानभूमिकाऽपि समवतारिता । एवमेव शास्त्रसज्जनसम्पर्कवैराग्याभ्यासरूपिणी । प्रथमा भूमिकैषोक्ता मुमुक्षुत्वप्रदायिनी ।। ← ( अन्न. ५ / ८१ ) इति अन्नपूर्णोपनिषदुक्ताऽऽद्या भूमिकाऽप्यत्र तारायाञ्च दृष्टौ समवतारिता द्रष्टव्या । याऽपि अक्ष्युपनिषदि विरागमुपयात्यन्तर्वासनास्वनुवासरम् । क्रियासुदाररूपासु क्रमते मोदतेऽन्वहम् ।। ग्राम्यासु जडचेष्टासु सततं विचिकित्सते । नोदाहरति मर्माणि पुण्यकर्माणि सेवते ।। अनन्योद्वेगकारीणि मृदुकर्माणि सेवते । पापाद् बिभेति सततं न च भोगमपेक्षते ।। स्नेह-प्रणयगर्भाणि पेशलान्युचितानि च । देश - कालोपपन्नानि वचनान्यभिभाषते ।। मनसा कर्मणा वाचा सज्जनानुपसेवते । यतः कुतश्चिदानीय नित्यं शास्त्राण्यवेक्षते ।। तदासौ प्रथमामेकां प्राप्तो भवति भूमिकां । एवं विचारवान् यः स्यात् संसारोत्तारणं प्रति ।। स भूमिकावानित्युक्तः शेषस्त्वार्य इति स्मृतः । ← (अक्ष्यु. ५-११) इत्येवं विस्तरेण प्रथमा भूमिका सोपाया दर्शिता साऽपीह तारायाञ्च दृष्टौ यथागममनुयोज्या स्व-परतन्त्रसमवतारकुशलैः ।।२१/१४।। સન્માનની સ્પૃહા વગેરે ન રહેવી જોઈએ. (૩) શાસ્ત્રોક્ત વિધિ-યતના-મર્યાદા સચવાય તે રીતે વૈયાવચ્ચ થવી જોઈએ. (૪) ચિત્તના ઉત્સાહ સાથે વૈયાવચ્ચ થવી જોઈએ. પરાણે, મનને બગાડીને બીજાના દબાણથી, દુભાતા દિલથી નહિ. આ ચાર શરત પાળવાથી વેયાવચ્ચ શુદ્ધ યોગબીજ બને.(૨૧/૧૪) * ભવવૈરાગ્યાદિ યોગબીજની ઓળખાણ
ગાથાર્થ :- સંસારથી ઉદ્વિગ્નતા, શુદ્ધ ઔષધ વગેરેના દાનનો અભિગ્રહ તથા સિદ્ધાન્તને ઉદ્દેશીને વિધિપૂર્વક લેખન વગેરે યોગબીજ જાણવા. (૨૧/૧૫)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org