________________
१४४८
• विधिशुद्धप्रसन्नतातः कर्मनिर्जरा • द्वात्रिंशिका-२१/१४ पुरस्सरं (= श्लाघनाद्यसदाशंसापरिहारपुरस्सरं) वैयावृत्त्यं च व्यापृतभावलक्षणमाहारादिदानेन विधिना = सूत्रोक्तन्यायेन तेषु = भावयोगिष्वाचार्येषु आशयविशेषतः = चित्तोत्साहाऽतिशयात् योगबीजम् ।।१४।।
सूत्रोक्तन्यायेन = इहैव सम्यग्दृष्टिद्वात्रिंशिकायां(द्वा.द्वा.१५/६ भाग-४, पृ.१०१३) → 'पुरिसं तस्सुवयारं अवयारं चप्पणो य णाऊणं । कुज्जा वेयावडियं आणं काउं निरासंसो ।।' 6 (उ.पद.२३७) इत्येवं उपदेशपदसंवादतो दर्शितेन । ततश्च स्थानाङ्गसूत्रे → नवविधे पुन्ने पन्नत्ते । तं जहा (१) अन्नपुन्ने, (२) पाणपुन्ने, (३) वत्थपुन्ने, (४) लेणपुन्ने, (५) सयणपुत्रे, (६) मणपुन्ने, (७) वतिपुन्ने, (८) कायपुन्ने, (९) नमोक्कारपुन्ने ८ (स्था. ९/सू.६७६) इत्येवं यन्नवविधं पुण्यमुपदर्शितं तदपीत एवारभ्य प्रकृष्यति विशुद्धयति च । इदमेवाऽभिप्रेत्य ग्रन्थकृदाह- चित्तोत्साहातिशयात = शुद्धचित्तवीर्योल्लासप्रबन्धविशेषतः । तत एव योगसिद्धेः । तदुक्तं योगबिन्दौ → उत्साहात् निश्चयाद् धैर्यात् सन्तोषात्तत्त्वदर्शनात् । मुनेर्जनपदत्यागात् षड्भिर्योगः प्रसिध्यति ।। - (यो.बि.४११) इति। विवेचयिष्यते चेयं कारिकाऽग्रे (द्वा.द्वा.२२/१८ भाग-५, पृ.१५१२) । तत्तद्योगावलम्बने विधिविशुद्धचित्तप्रसन्नतात एव कर्मनिर्जराऽवगन्तव्या, → जो सो मणप्पसादो जायइ, सो निज्जरं कुणदि ( (व्य.सू.भा ६/ १९०) इति व्यवहारसूत्रभाष्यवचनप्रामाण्यादित्यवधेयम् ।। ___ योगबीजं संशुद्धमित्यावर्तते । तदुक्तं योगदृष्टिसमुच्चये → आचार्यादिष्वपि ह्येतद् विशुद्धं भावयोगिषु । वैयावृत्त्यञ्च विधिवच्छुद्धाऽऽशयविशेषतः ।। - (यो.दृ.स.२६) इति । वैयावृत्त्यञ्चाऽतिगहनो धर्मः प्रोक्तः। तदुक्तं नीतिशतके भर्तृहरिणा → सेवाधर्मः परमगहनो योगिनामप्यगम्यः ८ (नी.श.५८) इति । न च वैयावृत्त्यस्य सम्यग्दर्शनलिङ्गत्वात्कथं मित्रायां दृष्टौ तत्सम्भव इति वाच्यम्, कार्यस्य कारणाऽनुरूपत्वनियमेन सम्यग्दृष्टिलिङ्गतयोक्तस्य वैयावृत्त्यस्य मित्रायामप्यंशत आवश्यकत्वात् । → गुरूण विस्सामणाइए विविहे । अंगीकारो नियमो वेयावच्चे जहासत्ती - (सम्य.स. १६) इति सम्यक्त्वसप्ततिकावचनात्सम्यग्दृष्टावुत्सर्गाऽपवादाभ्यामभिग्रहसहितं वैयावृत्त्यं, मित्रायान्तु शुद्धं सदपि तन्न तथेति विशेषः । क्रमशोऽधिकतरं विशुद्ध्यमानं सदेतदऽप्रतिपाति सम्पद्यते 'सव्वं किर पडिवाइ, वेयावच्चं अपडिवाइ' (ओ.नि.५३२, पु.मा.४१९) इति ओघनिर्युक्तौ भद्रबाहुस्वामिवचनात् पुष्पमालायां च श्रीहेमचन्द्रसूरिवचनात् । तदुक्तं उपदेशपदेऽपि → वेयावच्चं न पडति अणुबंधेल्लं ति 6 (उप.प.२३५) इति । ___ यद्यपि विध्यादरादिपरिकलितस्य तस्य ग्रन्थिभेदोत्तरं जिननामकर्माऽऽक्षेपकत्वं → वेयावच्चेणं तित्थयरनामगोत्तं कम्मं निबंधइ + (उत्तरा.२९/४४) इति उत्तराध्ययनवचनात्प्रसिद्धमेव । तथापि मित्रायां तस्य योगान्तरायनिवर्तकत्वं योगसाधनोपधायकपुण्यनिर्वर्तकत्वञ्चाऽनाविलमेव । वैयावृत्त्यफलप्रतिपादिका → गुणपरिणामो सद्धा वच्छल्लं भत्ती पत्तलंभो य । संधाण तव पूया अव्वोच्छित्ती समाधी य।। - (भ.आ.३११) इति भगवती आराधना अपि यथागममत्राऽनुयोज्याऽऽगमविशारदैः । સેવાના કામમાં લાગ્યા રહેવું, પરોવાયેલા રહેવું તે વૈયાવચ્ચ કહેવાય. આવી વૈયાવચ્ચ સંશુદ્ધ યોગબીજ तरी मोगली य. (२१/१४)
વિશેષાર્થ - વૈયાવચ્ચ સંશુદ્ધ યોગબીજ બને તેની ચાર શરત ઉપર જણાવેલી છે. (૧) વૈયાવચ્ચ ભાવયોગીની હોવી જોઈએ, દ્રવ્યયોગીની નહિ. (૨) વૈયાવચ્ચ કરવા દ્વારા પોતાની પ્રશંસા, માન१. हस्तादर्श .....वृत्त्ये' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org