SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ • संज्ञा-फलाभिसन्धिविरहे शुद्धयोगबीजग्रहणम् १४४१ 'उज्झितं (=प्रतिबन्धोज्झितं ) आहारादिसंज्ञोदयाऽभावात्, फलाऽभिसन्धिरहितत्वाच्च । तदुपात्तस्य तु स्वतः प्रतिबन्धसारत्वात् । अत एव उपादेयधिया अन्याऽपोहेनाऽऽदरणीयत्वबुद्धया शुद्धम् । तदुक्तं- “उपादेयधियात्यन्तं संज्ञाविष्कम्भणाऽन्वितम् । फलाऽभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् ।। ” ( यो दृ.स. २५) ।।९।। १. हस्तादर्शे 'उष्ठितं' इत्यशुद्धः पाठः । संशुद्धयोगबीजोपादानमचरमावर्तकाले नैव सम्भवति । तदुक्तं योगदृष्टिसमुच्चये → चरमे पुद्गला - Sवर्त्ते तथाभव्यत्वपाकतः । संशुद्धमेतन्नियमान्नान्यदापीति तद्विदः ।। ← ( यो दृ. स. २४ ) इति प्रागुक्तं (भाग-३, पृ.८८३) स्मर्तव्यम् । अनादिकालतः संज्ञा आहाराद्याः सर्वजीवानां पृष्ठे लग्नाः । सम्मतञ्चेदं परेषामपि । तदुक्तं शम्भुगीतायां आहारो मैथुनं निद्रा भयं ज्ञानं सुखैषणा । इमाः षड्वृत्तयः सन्त्यास्थावराज्जीवसङ्घतः ।। देवतोन्नतसृष्ट्यन्तं विद्यमानाः समानतः । कर्मजालेषु तान् सर्वानाऽऽबद्धान् कुर्वते च ताः ।। = ← (शं.गी.६/१३२-१३३) इति । ज्ञानपदेनौघसंज्ञा ग्राह्या, शिष्टं स्पष्टम् । प्रकृतमुच्यते- या जीवः चरमावर्त्ते प्रविश्याऽपुनर्बन्धकदशां प्राप्य मित्रायां दृष्टौ वर्तते तदाऽनादिकालप्रवृत्तानामाहारादिसंज्ञानां प्राबल्यमपगच्छति । अत एव योगबीजग्रहणादिकं संशुद्धं सम्पद्यत इति द्योतनार्थमाह- आसङ्गेन उज्झतं रहितं, आहारादिसंज्ञोदयाऽभावात् आहारादिदशविधसंज्ञोत्कटोदयविरहात् । इत्थमेव तत्संशुद्धत्वोपपत्तेः। तदुक्तं षोडशके दशसंज्ञाविष्कम्भणयोगे सत्यविकलं ह्यदो भवति। परहितनिरतस्य सदा गम्भीरोदाराऽऽशयस्य ।। ← ( षो. ५ / १०) इति । तदुपात्तस्य = आहारादिसंज्ञोदयेन भवान्तर्गतफलाऽभिसन्धिना गृहीतस्य तु स्वतः प्रतिबन्धसारत्वात् आसङ्गप्रधानत्वात् । अत एव प्रतिबन्धोज्झितत्वादेव अन्याऽपोहेन वीतरागेतरव्यावृत्त्या आदरणीयत्वबुद्ध्या शुद्धम् । योगबीजसंशुद्ध्यङ्गानामुपदर्शने योगदृष्टिसमुच्चयसंवादमाविष्करोति- ' उपादेयधिये 'ति । अस्य वृत्तिलेशस्त्वेवम् → उपादेयधिया = उपादेयबुद्ध्या अत्यन्तं सर्वाऽन्याऽपोहेन तथापरिपाकात् । सम्यग्ज्ञानपूर्वरूपत्वेन संज्ञाविष्कम्भणाऽन्वितं = क्षयोपशमवैचित्र्यादाहारादिसंज्ञोदयाऽभावयुक्तम् । संज्ञा आहारादिभेदेन दश । तथा चार्षम्- ‘कइविहा णं भन्ते सन्ना पन्नत्ता ? गोयमा ! दसविहा आहारसन्ना, भयसन्ना, मेहुणसन्ना, परिग्गहसन्ना, कोहसन्ना, माणसन्ना, मायासन्ना, लोभसन्ना, ओहसन्ना, लोगसन्ना' (प्रज्ञापना- ८/१४७) इति । एतत्सम्प्रयुक्ताऽऽशयाऽनुष्ठानं सुन्दरमप्यभ्युदयाय न निःश्रेयसाऽवाप्तये, परिशुद्ध्यभावात् । भवभोगनिःस्पृहाऽऽशयप्रभवमेतदिति योगिनः । फलाऽभिसन्धिरहितं भवाऽन्तर्गतफलाभिसन्ध्यभावेन । आहअसम्भव्येव संज्ञाविष्कम्भणे पूर्वोदितफलाऽभिसन्धिः । सत्यम् एतत् तद्भवाऽन्तर्गतफलमधिकृत्य, इह આહારાદિ સંજ્ઞા અને ફળકામનાથી ગ્રહણ કરેલા યોગબીજ તો સ્વતઃ આસક્તિપ્રધાન હોય છે. ચરમાવર્તકાલીન મિત્રાદૃષ્ટિમાં વર્તમાન એવા યોગી દ્વારા ગ્રહણ કરવામાં આવતા યોગબીજ શુદ્ધ હોય છે. કારણ કે તે યોગી સાંસારિક આસક્તિથી શૂન્ય હોવાના કારણે જ યોગબીજ સિવાય અન્ય તમામ ચીજની બાદબાકી કરીને આદરણીયપણાની બુદ્ધિથી વિવક્ષિત યોગબીજને ગ્રહણ કરે છે. માટે જ તે યોગબીજ સંશુદ્ધ બને છે. તેથી યોગદૃષ્ટિસમુચ્ચય ગ્રંથમાં શ્રીહરિભદ્રસૂરીશ્વરજી મહારાજે જણાવેલ છે કે ‘અત્યંત ઉપાદેયબુદ્ધિથી થતું, સંજ્ઞાના નિગ્રહથી યુક્ત અને ફળકામનાથી રહિત એવું જિનવિષયક કુશલચિત્ત વગેરે સંશુદ્ધ છે.’ (૨૧/૯) Jain Education International = = = = = · For Private & Personal Use Only = www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy