SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ • मित्रायां क्रियावादित्वस्थानीया सम्यग्दृष्टिः • १४३७ उक्तयोगबीजमेवाऽऽहजिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ।।८।। जिनेष्विति। जिनेषु = अर्हत्सु कुशलं = द्वेषाद्यभावेन प्रीत्यादिमत्' चित्तम्। अनेन मनोयोगवृत्ति२/७/१३६) इति महाचत्वारिंशत्कसूत्रं, → सम्मादिट्ठिको खो पन होति अविपरीतदस्सनो- ‘अत्थि दिन्नं, अत्थि यिटुं, अत्थि हुत्तं, अत्थि सुकत-दुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिजा सच्छिकत्वा पवेदेन्तीति - (म.नि.१/ ५/१/४४१ पृ.३६२,२/४४६पृ.३६७) इति शालेयकसूत्रं वेरञ्जसूत्रं च मित्रायां दृष्टौ सङ्गच्छते । आदीनवं = दोषं, ओकासं = अवकाशं = च्छिद्रमिति यावत्, नेक्खम्मे = नैष्क्रम्ये प्रथमध्यानादौ आनिसंसं = आनृशंस्यं, शिष्टं स्पष्टम् । महाचत्वारिंशत्क-शालेयक-वेरञ्जकसूत्रोक्तः सम्यग्दृष्टि: जैनदर्शनपरिभाषाऽनुसारेण क्रियावादीत्युच्यत इत्यप्यवधेयम् । तत्स्वरूपञ्च प्राक् (द्वा.द्वा.१४/५ भाग-४ पृ.९४३) दशाश्रुतस्कन्धसूत्रसंवादप्रदर्शनावसरे द्योतितमेवेति स्मृतिप्रबोधनपरतया भाव्यमासन्नभव्यैः। अक्रियावादित्वाऽपराभिधानमिथ्याप्रतिप्रत्तिसत्त्वे न्याय्यकुशलधर्माराधकत्वं नैव सम्भवतीत्यवधेयम् । प्रकृते → गिही वा हि माणव ! पब्बजितो वा मिच्छापटिपन्नो मिच्छापटिपत्ताधिकरणहेतु न आराधको होति जायं धम्म कुसलं - (म.नि.२ ।५।९।४६३) इति मज्झिमनिकायोक्तिर्यथागमं योज्या बहुश्रुतैः । इत्थञ्च तथास्वाभाव्यात् = आध्यात्मिकसुखाऽऽस्वादाभिमुखस्वभावाविर्भावप्रभावात् पारमेश्वरप्रवचनप्रतिपादिताऽमोघयोगबीजोपादानमत्र सङ्गच्छतेतराम् । तदुक्तं योगदृष्टिसमुच्चये → करोति योगबीजानामुपादानमिह स्थितः । अवन्ध्यमोक्षहेतूनामिति योगविदो विदुः ।। (यो.दृ.स.२२) इति ।।२१/७।। ___योगदृष्टिसमुच्चय(यो.दृ.स.२३)कारिकासंवादेन उक्तयोगबीजमेव ग्रन्थकृद् आह- 'जिनेषु' इति । योगदृष्टिसमुच्चयवृत्त्यनुसारेणैव व्याख्यानयति- जिनेषु = अर्हत्सु इत्यादि । द्वेषाद्यभावेन = कुदेवादिगोचरदृष्टिरागप्रयुक्तो यो जिनोक्ततत्त्वगोचरद्वेष-जिनविषयकमात्सर्यादिः तद्विरहेण । अनेनाऽऽभिसंस्कारिकविकल्पोद्रेकविरहो द्योतितः । यद्वा रागादिजेतृगोचरद्वेषोपनायकवैषयिकरागाद्याऽऽसङ्गप्राबल्यविरहप्रयुक्तेन जिनगोचरद्वेष-मत्सरादिविरहेण । अनेन सहजकुविकल्पोद्रेकाऽभावो विद्योतितः संशुद्धयोगबीजोपादानाऽवसरे मित्रायां दृष्टौ । तेन कारणेन प्रीत्यादिमत् = प्रीति-भक्ति-श्रद्धा-बहुमानादियुक्तं चित्तम् । जैनकुललब्ध४९॥वेदा योगपीठाने पोताना भात्मभूमिमां पावे छे. (२१/७) જ શુદ્ધ યોગબીજનો પરિચય છે જિનાગમમાં જણાવેલા યોગબીજોને ગ્રંથકારશ્રી બતાવે છે. ગાથાર્થ - જિનેશ્વર વિશે કુશલ ચિત્ત, તેમને સંશુદ્ધ નમસ્કાર અને તેઓને સંશુદ્ધ પ્રણામાદિ सर्वोत्कृष्ट योगणी छे. (२१/८) ટીકાર્થ :- અરિહંત જિનેશ્વર ભગવંતો વિશે દ્વેષ વગેરે ન હોવાથી પ્રીતિ વગેરેથી યુક્ત ચિત્ત શ્રેષ્ઠ યોગબીજ છે. આના દ્વારા મિત્રાદષ્ટિવાળા જીવની મનોવૃત્તિ જણાવી. તથાવિધ મનોયોગથી પ્રેરાઈને १. हस्तादर्श ....मत् चित्तं' इति पाठो नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy