________________
१४३८
मित्रायां मनोयोगवृत्तिनिरूपणम्
द्वात्रिंशिका - २१/८
माह । तन्नमस्कार एव जिननमस्कार एव च तथामनोयोगप्रेरितः, इत्यनेन वाग्योगवृत्तिं । प्रणामादि च पञ्चाङ्गादिलक्षणं, आदिशब्दाद् १ मण्डलादिग्रहः । संशुद्धं अशुद्धव्यवच्छेदार्थमेतत्, जन्मनां जिनोक्ततत्त्वद्वेषे सति त्वोघसंज्ञया जिनेषु विभूषितजिनबिम्बेषु जिनालयेषु वा प्रीत्यादिमच्चित्तं नैव योगबीजरूपेण बोध्यम्, तस्य केवलौघदृष्टिप्रयुक्तत्वात् । जिनोक्ततत्त्वगोचरद्वेषादिविलये सि जैनेतरकुललब्धजन्मनामपि स्वेष्टदेवेषु वीतरागत्वादिरूपेण प्रीत्यादिमच्चित्तं तत्त्वतो जिनेष्वेव कुशलचित्तमिति योगबीजमेवाऽवसेयं मध्यस्थैः । न हि नामाऽऽकारादौ बहिस्तत्त्वे विवदन्ते महात्मानः । इदञ्च प्रधानं योगबीजमित्यादावुपन्यस्तम्, तन्मूलत्वादन्ययोगबीजानाम् । तदसत्त्वे तु बहिर्वृत्त्या सतामप्यन्येषां योगबीजानां बीजाऽऽभासत्वमेव, तात्त्विकयोगबीजसामग्र्यनुपहितत्वात् । अनेन = जिनगोचरकुशलचित्तप्रतिपादनेन मित्रायामवस्थितस्य योगिनो 'विचित्रोऽयं संसारो यत्राऽनन्ताऽऽपद्भाजनं खलु प्राणिनः अभिभूता महामोहेन न पश्यन्ति परमार्थं, न शृण्वन्ति कल्याणमित्राणां सुभाषितानि, प्रवर्तन्तेऽनवरतमात्माऽ हितेषु, बध्नन्ति तीव्राऽशुभविपाककर्माणि, विडम्ब्यन्ते तैरनिशं सर्वत्र, न मुच्यन्तेऽखिलपूर्वदुष्कृतेभ्यो विना वी - तरागवचनकरणेन । न हि भवव्याधिभिषग्वरा इमे वीतरागा अनुपकृतपरहितनिरताः कदापि द्वेष्याः, अहितसमाचरणनिवारणपरा अपि । प्रत्युताऽऽशिविषभुजङ्गम- कान्तार- चारक-सागर- दावानल-महारोगादिस्थानीयदुरन्तसंसारनिस्तारकत्वादिमे एव पूज्यतमा' इत्यादिलक्षणां मनोयोगवृत्तिं ग्रन्थकार आह 1 'नमोऽर्हद्भ्यः, नमोऽस्तु परमदेवेभ्यः, सर्वज्ञेभ्यो नमः' इत्यादिरूपेण जिननमस्कार एव च तथामनोयोगप्रेरितः परमोपास्यतावच्छेदकीभूतवीतरागत्वाद्यवच्छिन्ननमस्कार्यताप्रणिधानगर्भप्रीत्यादिमच्चि
=
त्तवृत्तिसञ्जनितः । उपलक्षणाज्जिनस्तवन- स्तुत्यादेरप्यत्र ग्रहणं कार्यम् । अनेन निरुक्तजिननमस्कारप्रतिपादनेन मित्रायां स्थितस्य योगिनो वाग्योगवृत्तिं ग्रन्थकार आह । केवलकुशलचित्ताऽपेक्षया तत्प्रयुक्तवाग्नमस्कारस्य बलाऽधिकत्वमवसेयम् । जिनगोचरकुशलचित्तमन्तरेण केवलं बाह्यवृत्त्या ‘नमो अरिहंताणं’ इति वाग्नमस्कारस्तु बीजाऽऽभासतया योगबीजगणनायामेव नाऽवतरति, निह्नवकृतजिननमस्कारादिवत् । तथा जिनेषु एव पञ्चाङ्गादिलक्षणं = भूमिन्यस्तशिरो- जानुद्वय-करयुगलादिस्वरूपं पञ्चाङ्गप्रणिपाताद्यपराभिधानं, आदिशब्दात् मण्डलादिग्रहः प्रदक्षिणाऽभ्युत्थानादिपरिग्रहः । इदमपि तथामनोयोगादिप्रेरितमवसेयम् । जिननमस्कारतोऽपि जिनप्रणामादि बलवद् योगबीजम्, योगत्रिकाऽनुविद्धत्वात् । संशुद्धं, तदन्यसर्वाऽपोहेनाऽऽदरबुद्ध्युपहितत्वात् । प्रणामादिगता संशुद्धिश्च चरमयथाप्रवृत्तकरणभागभाविक्षयोपशमविशेषप्रयुक्तत्वस्वरूपा विज्ञेया, न तु कायादिव्यापारविशेषप्रयुक्तत्वलक्षणा । तेन नाऽभव्यादिकृते जिनप्रणामादावतिव्याप्तिः, न वाऽल्पवीर्यतया सम्यक्प्रयोगकालं यावत्पटुस्मृतिविरहेऽपि मित्रादृष्टिसम्पन्नयोगिकृते विकले जिनप्रणामादावशुद्धत्वापत्तिः । मित्रायां प्रणामादि यदा भवेत् तदा संशुद्धमेव भवेदित्याशयः ।
केचित्तु अहिंसादियमवत् संशुद्धप्रणामादिकमपि मित्रायामिच्छादिभेदभिन्नमवसेयमिति वदन्ति । संशुद्धજિનેશ્વર ભગવંતોને જ નમસ્કાર કરવો તે સર્વશ્રેષ્ઠ યોગબીજ છે. આનાથી તેવા જીવની વચનયોગની પ્રવૃત્તિ જણાવી. તથા પંચાંગપ્રણિપાતાદિ સ્વરૂપ પ્રણામ આદિ જિનેશ્વર ભગવંતોને કરવા તે પણ શ્રેષ્ઠ યોગબીજ છે. ‘આદિ’શબ્દ દ્વારા પ્રદક્ષિણા વગેરે કાયિક પ્રવૃત્તિ સમજી લેવી. પ્રણામ વગેરેના વિશેષણ તરીકે સંશુદ્ધનું ગ્રહણ કરેલ છે. તેનાથી અશુદ્ધ પ્રણામ વગેરેની બાદબાકી સમજી લેવી. અર્થાત્ જિનેશ્વર १. हस्तादर्शे 'मंझला...' इत्यशुद्धः पाठः ।
Jain Education International
=
=
For Private & Personal Use Only
=
www.jainelibrary.org