________________
१४३४
• जातिस्मरणलाभविचारः • द्वात्रिंशिका-२१/६ अपरिग्रहाऽभ्यासवतश्च जनुष उपस्थितिः (= जनुरनुस्मृतिः) “कोऽहमासं ? कीदृशः ? किंकार्यकारी" इति जिज्ञासायां 'सर्वमेव सम्यग्जानातीत्यर्थः । न केवलं भोगसाधनपरिग्रह एव परिग्रहः । किं त्वात्मनः शरीरपरिग्रहोऽपि, तथाभोगसाधनत्वाच्छरीरस्य । तस्मिन् सति रागानुबन्धाद् बहिर्मुखायामेव प्रवृत्तौ न तात्त्विकज्ञानप्रादुर्भावः । यदा पुनः शरीरादिपरिग्रहनैरपेक्ष्येण' *माध्यस्थ्यमवलम्बते तदा. मध्यस्थस्य रागादित्यागात् सम्यग्ज्ञानहेतुर्भवत्येव पूर्वापरजन्मसम्बोध इति । तदाह- “जन्मकथन्तासम्बोधः” इति (यो.सू. २-३९) ।।६।। कीदृशः अहमतिष्ठम् ? कथमहमासम् ? किंस्विदिदं ? कथंस्विदिदं ? के वा भविष्यामः ? कथं वा भविष्यामः ? किं कार्यकारी ? इति जिज्ञासायां सत्यां सर्वमेव सम्यग् जानातीत्यर्थः । शरीरपरिग्रहोऽपि परिग्रह एव, शरीरस्य तथाभोगसाधनत्वात् = विषयेन्द्रिय-सुखादिसंविल्लक्षणभोगसाधनत्वात् । प्रवृत्ती = चित्तप्रवृत्तौ । प्रकृते योगसूत्रसंवादमाह- 'जन्मेति । 'अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः' (यो.सू.२/ ३९) इति सम्पूर्ण सूत्रम् । अत्र मणिप्रभावृत्तिः → अपरिग्रहशीलस्य तत्स्थैर्ये सति अतीत-वर्तमानभाविजन्मनां या कथन्ता = किंप्रकारता तस्याः सम्यग्बोधो जिज्ञासापूर्वको भवतीत्यर्थः । 'किंरूपं जन्म? किंप्रकारकं ? किंहेतुकं ? किंफलकं ? किमवसानम् ?' इति शरीरपरिग्रहविरोधिनी जिज्ञासा भवति । ततः कार्यकारणसम्बन्धः 'पुरुषस्याऽजस्य जन्म नर-देव-तिर्यक्त्वप्रकारं क्लेशकर्महेतुकं दुःखैकफलकं पुरुषतत्त्वसम्बोधाऽवसानमि'त्याचार्याऽऽगमतो निश्चित्याऽशरीरः सन्नपरिग्रहकाष्ठामनुभवतीति भावः - (यो.सू.२/३९ मणि.) इत्येवं वर्तते । ___ 'अपूर्वेण देहेन्द्रियादिसङ्घातेन ज्ञानहेतुः संयोगः = जन्म, तस्य कथन्ता च किंप्रकारता । तयोः सम्बोधः = साक्षात्कारः = जातिस्मरणं भवतीति (भा.ग.२/३९) भावागणेशः । अत्र वाचस्पतिमिश्रस्तु → निकायविशिष्टैर्देहेन्द्रियादिभिः सम्बन्धः = जन्म । तस्य कथन्ता = किंप्रकारता, तस्याः सम्बोधः = साक्षात्कारः = सप्रकाराऽतीन्द्रियशान्तोदिताऽव्यपदेश्यजन्मपरिज्ञानमिति यावत् + (यो.सू.२/३९ त.वै.) इत्याह तत्त्ववैशारद्याम् ।।
यथोक्तं ब्रह्मसिद्धान्तसमुच्चये हरिभद्रसूरिभिः अपि → કોણ હતો? કેવો હતો? મેં પૂર્વ જન્મમાં શું કાર્ય કરેલા છે?” ઈત્યાદિ જિજ્ઞાસા થાય ત્યારે તેને પૂર્વજન્મનું સાચી રીતે સ્મરણ થઈ શકે છે. માત્ર ભોગસુખના સાધન સ્વરૂપ કંચન, કામિની વગેરે જ પરિગ્રહ છે- એવું નથી. પરંતુ શરીરને ધારણ કરવું તે પણ પરિગ્રહ જ છે. કારણ કે શરીર તથાવિધ ભોગસુખનું સાધન જ છે. તે શરીર હોય ત્યારે તેના પ્રત્યે રાગના તીવ્ર અનુબંધથી ચિત્તની પ્રવૃત્તિ બહિર્મુખ જ રહેવાના કારણે તાત્ત્વિક જ્ઞાન જ પ્રગટ થઈ શકતું નથી. પરંતુ જ્યારે શરીરાદિ પરિગ્રહથી નિરપેક્ષ થઈને મધ્યસ્થભાવનું આલંબન લેવામાં આવે છે ત્યારે મધ્યસ્થ બનેલા યોગીને રાગાદિનો પરિત્યાગ થવાથી સમ્યજ્ઞાનમાં કારણ બને તે પ્રકારનું પૂર્વઅપરજન્મનું જ્ઞાન થાય જ છે. તેથી જ યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે “અપરિગ્રહ યમ स्थिर थाय तो न्म या २नो हतो? त्याहि संधि सायुं शान थाय छे.' (२१/६)
१.मुद्रितप्रतौ 'सर्वमेव' इति पाठो नास्ति । २.हस्तादर्श 'ग्रहापेक्ष्येण' इति पाठः। ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति। Jain Education International For Private & Personal Use Only
www.jainelibrary.org