SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ • अस्तेय-ब्रह्मचर्यादिफलम् • १४३३ अस्तेयाऽभ्यासवतश्च रत्नोपस्थानं = तत्प्रकर्षान्निरभिलाषस्याऽपि सर्वतो दिव्यानि रत्नान्युपतिष्ठन्त इत्यर्थः । ब्रह्मचर्याऽभ्यासवतश्च सतो निरतिशयस्य वीर्यस्य लाभः (= रत्नोपस्थानसद्वीर्यलाभः) । वीर्यनिरोधो हि ब्रह्मचर्यं तस्य प्रकर्षाच्च वीर्यं शरीरेन्द्रियमनःसु प्रकर्षमागच्छतीति । ङ्मात्रेण दाता, तस्य भावः = तत्त्वं (= क्रियाफलाश्रयत्वं ) भवति । यथा 'धार्मिको भूया' इत्युक्ते भवति धार्मिकः । ‘स्वर्गमाप्नुही'त्युक्तिमात्रादधार्मिकोऽपि तथैव भवतीत्यर्थः ← (यो.सू.२ / ३६ म.प्र.) इति वर्तते । तस्य वाग् अमोघा भवतीति भावः । नास्त्यप्राप्यं सत्यवताम् ← (चा.सू.१४९) इति चाणक्यसूत्रमपि प्रकृते भावनीयम् । अस्तेयाऽभ्यासवतश्च तत्सिद्धौ सत्यां निरभिलाषस्याऽपि सर्वतः सर्वदिग्भ्यो दिव्यानि रत्नानि स्वयमेव उपतिष्ठन्त इति । तदुक्तं योगसूत्रे 'अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्' (यो.सू.२/३७ ) इति । अस्तेयस्थैर्ये तस्मै स्वयमेव सर्वरत्नान्युपतिष्ठन्ते' (भा.ग.२/३७ ) इति भावागणेशः । ' अस्तेयस्थैर्ये तद्वचनमात्रेण सर्वदिग्भ्यः सर्वरत्नान्युपतिष्ठन्ते' (ना.भ.२ / ३७ ) इति नागोजीभट्टः । ‘अचौर्यदार्थे सति सर्वेषां दिव्यरत्नानामस्य सङ्कल्पमात्रेण प्राप्तिर्भवतीति (म. प्र.२ / ३७) मणिप्रभायां रामानन्दः । 'दिव्यानि रत्नानि योगिनः पुरत उपस्थितानि भवन्तीति ( यो. सुधा. २ / ३७ ) योगसुधाकरे सदाशिवेन्द्रः । ‘ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभ:' (यो.सू.२ / ३८ ) इति योगसूत्रे पतञ्जलिः । अस्य राजमार्तण्डव्याख्यानुसारेण ग्रन्थकृदाह- ब्रह्मचर्याभ्यासवत इत्यादि । योगसूत्रभाष्ये व्यासस्तु यस्य (वीर्यस्य) लाभादप्रतिघातान् गुणानुत्कर्षयति, सिद्धश्च विनेयेषु ज्ञानमाधातुं समर्थो भवतीति ← (यो.सू.२/३८ भा.) आह । भावागणेशस्तु ब्रह्मचर्यस्थैर्ये सति वीर्यलाभः = सामर्थ्यविशेषो भवति, येन स्वयं ज्ञानक्रियाशक्तिमान् भूत्वा परेषु पुरुषः क्षमते ← (यो. सू. २ / ३८ भावा.) इत्याचष्टे । ‘वीर्यनिरोधो हि ब्रह्मचर्यं, तत्सिद्धौ निरतिशयं सामर्थ्यं भवति, येनाऽणिमाद्युपस्थितिर्भवति । शिष्येषूपदेशः सद्यः फलतीति भावः' (यो.सू. २ / ३८ मणि) इति तु मणिप्रभाकृत् । योगसुधाकरेऽपि वीर्यनिरोधो हि ब्रह्मचर्यम् । तत्सिद्धौ निरतिशयं सामर्थ्यं भवति । निरतिशयसामर्थ्यशालिना योगिना कृतः शिष्येषूपदेशः सद्यः फलतीति भावः ← (यो.सू. २ / ३८ योगसु.) इत्युक्तम् । राजमार्तण्डानुसारेणऽपरिग्रहसिद्धिफलप्रतिपिपादयिषयाऽऽह - 'अपरिग्रहे 'ति । 'पूर्वजन्मनि को हमासम् ? (૩) અચૌર્યયમનો અભ્યાસ કરનાર જ્યારે અચૌર્યને સિદ્ધ કરે ત્યારે કશું પણ નહિ ચોરવાના પરિણામનો પ્રકર્ષ થવાથી અભિલાષા ન કરવા છતાં પણ સર્વ દિશાઓમાંથી દિવ્ય રત્નો હાજર થાય છે. (૪) બ્રહ્મચર્ય પાળવાનો ખરા દિલથી અભ્યાસ કરનાર યોગીને બ્રહ્મચર્ય સિદ્ધ થાય ત્યારે અજોડ વીર્યનો શક્તિનો લાભ થાય છે. વીર્યસ્ખલન થતું અટકાવવું તે બ્રહ્મચર્ય કહેવાય છે. તે બ્રહ્મચર્યના પ્રકર્ષથી શરીર, ઈન્દ્રિય અને મનમાં વીર્યશક્તિ પ્રકર્ષને પામે છે. (અર્થાત્ બ્રહ્મચર્યને સિદ્ધ કરનાર યોગી પુરુષનું શરીર, ઈન્દ્રિય અને મન અજબ-ગજબની મૌલિક શક્તિને ધરાવે છે. સ્વપ્રદોષ વગેરેમાંથી તે યોગી મુક્તિ મેળવે છે.) (૫) અપરિગ્રહનો અભ્યાસ કરનાર યોગીને અપરિગ્રહ યમ સિદ્ધ થાય તો જ્યારે તેને ‘હું પૂર્વ જન્મમાં १. मुद्रितप्रतौ 'दिक्कालानि' इत्यशुद्धः पाठः 1 Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy