SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ • अद्वेषस्वरूपवैविध्यम • १४१९ ____ मात्सर्यवीर्यबीजसद्भावेऽपि तद्भावाकुराऽनुदयात्तथाविधाऽनुष्ठानमधिकृत्य । अत्र स्थितस्य हि करुणांशबीजस्यैवेषत्स्फुरणमिति ।।१।। ‘परलोकयायिन आत्मन एव चिन्ता मुख्यतया कर्तव्या, न त्विहैव स्थास्नोः मलाऽऽविलस्य विपदावहस्य विपद्यशरणस्योपाधिरूपस्य शरीरस्य परस्य वा भोगनिमग्नस्ये'त्युत्पन्नाऽऽत्मबोधतया । तदुक्तं पद्मपुराणोत्तरायां शिवगीतायां → उत्पन्नाऽऽत्माऽवबोधस्य अद्वेष्टुत्वादयो गुणाः । अशेषतो भवन्त्यस्य ननु सन्धानरूपिणः ।। 6 (शि.गी.१/८) इति । वस्तुतस्तु चरमावर्तवर्तिनो मित्रायामागतस्याऽदेवकार्यादौ द्वेषोऽपि सम्भवत्येव केवलं शुद्धाऽऽत्मनि देवादौ वा तस्य द्वेषो न भवति । इत्थमेवाऽवशिष्ट-गुणाऽऽविर्भावसम्भवादित्यस्माकमाभाति । एतेन → सिध्येन्मानसमद्वेषाद् ब्रह्मणि प्रणिधानतः। तुष्टि-श्रद्धा-भावशुद्धि-धृति-मौनाऽऽस्तिकत्वतः ।। (सं.गी.३/१००) इति संन्यासगीतावचनमपि व्याख्यातम् । यद्वा → अन्यधर्मोपरि द्वेषः कर्तव्यो न प्रमादतः । विधर्मिणोऽपि मां यान्ति सर्वत्र साम्ययोगतः ।। 6 (म.गी. ५।४७) इति महावीरगीतावचनादद्वेषः परकीयधर्मादिषु बोध्यः । यद्वाऽद्वेषः सर्वजीवेषु बोध्यः । तदुक्तं भगवद्गीतायां → अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च (भ.गी. १२/१३) इति । ___ यद्वा → सर्वत्राऽद्वेषिणः - (द्वा.द्वा.१९/२२ पृ.१३०७) इति प्रागुक्तकुलयोगिलक्षणाऽनुसारेण प्रकृतेऽद्वेषः सर्वत्र बोध्यः। यद्वा अदेवकार्यादौ = स्वाभिमतभिन्नदेवादिकार्ये = परकीयदेवादिकार्ये यतःकुतश्चिदापतिते अद्वेष इति तावद् वयमवगच्छामः । तत्त्वं तु बहुश्रुतेभ्योऽवसेयम् ।। ___मुद्रितप्रत-हस्तादर्शादौ अनेकत्र 'तथातत्त्वाऽवेदितया' इति पाठः । स च यदि सम्यक् तर्हि पदार्थयोजनेत्थं कार्या- तथातत्त्वाऽवेदितया = सूक्ष्मविवेकदृष्टिगर्भ-यथावस्थितकृत्स्नहेयोपादेयादितत्त्वाऽवेदनेन मात्सर्यवीर्यबीजसद्भावेऽपि = द्वेषेाऽसहिष्णुतादिनिबन्धनयोग्यतायाः सत्त्वेऽपि तथाविधाऽनुष्ठानं = भवाभिनन्द्यादिकृतपापाचारादिकं अधिकृत्य = अपेक्ष्य तद्भावाऽकुराऽनुदयात् = द्वेषादिपरिणामाऽऽविर्भावविरहात् । ____ अत्र = मित्रायां दृष्टौ स्थितस्य = अवस्थितस्य योगिनो हि करुणांशबीजस्य एवेषत्स्फुरणं भवति, तद्विपाकाऽऽलोचनादिना । एवमेव शास्त्रसिद्धहेयोपादेयादिव्यवस्थालक्षणं तत्त्वमधिकृत्याऽप्यऽस्याऽद्वेषोऽवसेयः, आंशिकविवेकदृष्ट्याऽऽध्यात्मिकसुखाऽऽस्वादोपलम्भात् । मन्दमिथ्यात्वाऽनन्तानुबन्धिकषायादिसाचिव्येन तत्राऽप्रीतिसद्भावेऽप्यनिवर्तनीयपक्षपातकृताऽप्रीतिलक्षणो द्वेषस्त्वस्यामवस्थितस्य नैव सम्भवति, सम्भवे वाऽस्या भ्रंश एव स्यादिति भावनीयम् । प्रकृते च → मन्दञ्च मित्रादृशि दर्शनं स्याद् इहोपमानञ्च कणस्तृणाग्नेः। न भक्तिसेवादिषु खेदवृत्तिर्न वर्त्तनं द्वेषि पुनः परत्र ।। - (अ.तत्त्वा. ઈર્ષાભાવ-દ્વેષપરિણામ સ્વરૂપ અંકુરનો તે બીજમાંથી ઉદય ન થવાના કારણે મિત્રા દૃષ્ટિમાં રહેલા જીવને પાપી જીવોના દુરાચારો વગેરે પ્રવૃત્તિને ઉદેશીને કરુણાઅંશનું બીજ જ આંશિક રીતે સ્ફરે છે. (૨૧/૧) विशेषार्थ :- मित्रा दृष्टिमा हर्शन = पो५ = तत्त्वो५ (= मात्मा भने मात्मलित संधी જ્ઞાન) મંદ કક્ષામાં પ્રગટે છે. અત્યાર સુધી જીવ ઓઘ દૃષ્ટિમાં હતો તેનો ત્યાગ કરીને જીવ યોગદૃષ્ટિમાં પ્રવેશે છે. ઓઘદષ્ટિમાં આત્મભાન, આત્મસ્વીકાર, આત્મસ્વરૂપની સમજણ, આત્મગુણરુચિ વગેરે જરાય Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy