________________
१४१८
• मित्रायां खेदाऽभावसमर्थनम् . द्वात्रिंशिका-२१/१ गुरुकार्यादिपरिग्रहः तथातथोपनतेऽस्मिंस्तथापरितोषान्न खेदः, अपि तु प्रवृत्तिरेव, शिरोगुरुत्वादिदोषभाक्त्वेऽपि भवाभिनन्दिनो भोगकार्यवत् । अद्वेषः च = अमत्सरश्च अन्यत्र त्वदेवकार्यादौ तथा तत्त्ववेदितया ।
तथा-तथोपनते = तथाविधद्रव्य-क्षेत्रादिनाऽऽभोगाऽनाभोग-सहसाकारादिरूपेण सम्प्राप्ते अस्मिन् = देवकार्य-गुरुकार्यादौ, न दृष्टिरागादिना, किन्तु यथावस्थितगुणानुराग-कृतज्ञतादिना तथापरितोषात् = निर्व्याजाऽकृत्रिम-सम्भ्रमादिगर्भपरितोषमवलम्ब्य न खेदः उत्तरकालीन-देवकार्यादिप्रतिबन्धकव्याकुलतामानसदुःखाऽनुबन्धिक्लमादिलक्षणः पूर्वं (द्वा.द्वा.१८/१३ भाग-४ पृ.१२३९) व्यावर्णितस्वरूपः चित्तदोषः; अपि तु देवगुरुकार्यादौ अस्खलवृत्त्या सहर्षं प्रवृत्तिरेव सम्भवति । औपनिषदिकोऽपि मित्रायां वर्तमानो योगी → देव-पितृकार्याभ्यां न प्रमदितव्यम् - (तै.उप.१/११/२) इति पूर्वोक्तं(पृ.८३६) तैत्तिरीयोपनिषदादिवचनमवलम्ब्य देवकार्यादौ कष्टसाध्येऽपि समोदं प्रवर्तत एव । → साधु वाऽसाधु वा कर्म यस्य यद् विहितं पुरा । तदेव तेन कर्तव्यमापद्यपि कथञ्चन ।। (ब्र.पु.३ १२३ १७६) इति ब्रह्माण्डपुराणवचनं पौराणिकानां मित्रायां वर्तमानानां सुकरे दुष्करे वा देवकार्यादौ सप्रमोदं प्रवर्तकम् । एवमेव → दानमानैश्च सत्कारैः सुपूज्यान पूजयेत् सदा - (शु.नी. ३/८४) इति शुक्रनीतिवचनं, → अतिथिः किल पूजाऽर्हः - (वा.रा.५।१ । १११८) इति वाल्मीकिरामायणवचनं, → प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः - (र.वं.१ ७९) इति रघुवंशवचनमपि देवकार्यादौ सोत्साहं प्रवर्तकमवगन्तव्यं नानातन्त्रावस्थितस्य मित्रोपेतस्य । तृणाग्निकणोद्योतसदृशेन सच्छ्रद्धा-रुच्यादिसङ्गताऽऽध्यात्मिकबोधेन देवकार्यादिगोचरो महाऽनर्थकारी खेददोषो विलीयते मित्रायां दृष्टौ ।
तथा अदेवकार्यादौ = अदेवकार्यस्थानीयभोगादिप्रवृत्तिकर्तरि देवादिकार्याऽकर्तरि च तथा-तथोपनते अद्वेषः = अमत्सरः भवति। अत्र हेतुमाह- तथातत्त्ववेदितया = 'गुणहीनाऽऽचारभ्रष्टादयो जीवा न द्वेषार्हाः अपि तु दया-करुणाद्यर्हाः' इति प्राथमिकाऽध्यात्मतत्त्वविज्ञतया । यद्वा तथातत्त्ववेदितया = ન હોય. પરંતુ તેવા કાર્યમાં સહર્ષ પ્રવૃત્તિ જ હોય છે. જેવી રીતે ભવાભિનંદી = સંસારરસિક જીવ માથું દુઃખે વગેરે તકલીફમાં પણ T.V. વિડીયો, ભોગસુખ વગેરે બાબતમાં પ્રવૃત્તિ છોડતો નથી પણ પકડી રાખે છે તેમ મિત્રાદષ્ટિને પામેલ ધર્માત્મા પ્રભુભક્તિ, ગુરુસેવા વગેરે કામમાં તકલીફ આવી પડે તો પણ તે કાર્યને તે છોડતો નથી પરંતુ કષ્ટ વેઠીને પણ પ્રેમથી કરે છે.
છે અઢેષ ગુણની વિચારણા જ अद्वेष. । तथा मित्रा दृष्टिवाणा यात्मामीने महेवार्य प्रत्ये, महेवन आर्य (= भोगसुपनी प्रवृत्ति) કરનારા જીવો પ્રત્યે, દેવાદિ કાર્યને ન કરનારા જીવો પ્રત્યે દ્વેષ-મત્સર-ઈર્ષ્યા થવાની શક્યતા નથી રહેતી. કારણ કે “ગુણહીન, આચારભ્રષ્ટ જીવો પ્રત્યે દ્વેષ કરવો તે મોટો દોષ છે. પાપી જીવો કરુણાપાત્ર છે. તે પ્રમાણે તેને તત્ત્વબોધ થયેલો હોય છે. જો કે માત્સર્યશક્તિનું બીજ તેમાં રહેલું હોય છે તો પણ માત્સર્યભાવ१. हस्तादर्श'...भावेऽपि' इति पाठान्तरम् । २. मुद्रितप्रतौ सर्वत्र हस्तादर्शेषु च '...अपरत्र...' इति पाठः । परं मूलग्रन्थानुसारेणात्र '...अन्यत्र' इति पाठः सङ्गच्छते। अर्थभेदस्तु न कश्चिदित्यवधेयम् । ३. मुद्रितप्रति-हस्तादर्शादौ अनेकत्र 'तत्त्वाऽवे..' इति
पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org